भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.119

12.119.1

एवं गुणयुतान्भृत्यान्स्वेस्वे स्थाने नराधिपः ।
नियोजयति कृत्येषु स राज्यफलमश्नुते ॥

12.119.2

न वा स्वस्थानमुत्क्रम्य प्रमाणमपि सत्कृतम् ।
आरोप्य चापि स्वस्थानमुत्क्रम्यान्यत्प्रपद्यते ॥

12.119.3

स्वजातिगुणसम्पन्नाः स्वेषु धर्मेष्ववस्थिताः ।
प्रकर्तव्या ह्यमात्यास्तु नास्थाने प्रक्रिया क्षमा ॥

12.119.4

अनुरूपाणि कर्माणि भृत्येभ्यो यः प्रयच्छति ।
स भृत्यगुणसम्पन्नं राजा फलमुपाश्नुते ॥

12.119.5

शरभः शरभस्थाने सिंहः सिंह इवोत्थितः ।
व्याघ्रो व्याघ्र इव स्थाप्यो द्वीपी द्वीपी यथा तथा ॥

12.119.6

कर्मस्विहानुरूपेषु न्यस्या भृत्या यथाविधि ।
प्रतिलोमं न भृत्यास्ते स्थाप्याः कर्मफलैषिणा ॥

12.119.7

यः प्रमाणमतिक्रम्य प्रतिलोमं नराधिपः ।
भृत्यान्स्थापयतेऽबुद्धिर्न स रञ्जयते प्रजाः ॥

12.119.8

न बालिशा न च क्षुद्रा नाप्राज्ञा नाजितेन्द्रियाः ।
नाकुलीना जनाः पार्श्वे स्थाप्या राज्ञा गुणैषिणा ॥

12.119.9

साधवः कुलजाः शूरा ज्ञानवन्तोऽनसूयकाः ।
अक्षुद्राः शुचयो दक्षाः स्युर्नराः पारिपार्श्वकाः ॥

12.119.10

उद्भूतास्तत्पराः शान्ताश्चौक्षाः प्रकृतिजाः शुभाः ।
स्वेस्वे स्थानेऽनुपाकृष्टास्ते स्यू राज्ञो बहिश्चराः ॥

12.119.11

सिंहस्य सततं पार्श्वे सिंह एव जनो भवेत् ।
असिंहः सिंहसहितः सिंहवल्लभते फलम् ॥

12.119.12

यस्तु सिंहः श्वभिः कीर्णः सिंहकर्मफले रतः ।
न स सिंहफलं भोक्तुं शक्तः श्वभिरुपासितः ॥

12.119.13

एव मेतैर्मनुष्येन्द्र शूरैः प्राज्ञैर्बहुश्रुतैः ।
कुलीनैः सह शक्येत कृत्स्ना जेतुं वसुन्धरा ॥

12.119.14

नावैद्यो नानृजुः पार्श्वे नाप्राज्ञो ना महायशाः ।
सन्ग्राह्यो वसुधापालैर्भृत्यो भृत्यवतां वर ॥

12.119.15

वाणवद्विसृता यान्ति स्वामिकार्यपरा नराः ।
ये भृत्याः पार्थिवहितास्तेषु सान्त्वं सदा चरेत् ॥

12.119.16

कोशश्च सततं रक्ष्यो यत्नमास्थाय राजभिः ।
कोशमूला हि राजानः कोशवृद्धिकरो भवेत् ॥

12.119.17

कोष्ठागारं च ते नित्यं स्फीतं धान्यैः सुसञ्चितैः । सदा त्वं सत्सु सन्न्यस्तधनधान्यपको भव ।

12.119.18

नित्ययुक्ताश्च ते भृत्या भवन्तु रणकोविदाः ।
वाजिनां च प्रयोगेषु वैशारद्यमिहेष्यते ॥

12.119.19

ज्ञातिबन्धुजनावेक्षी मित्रसम्बन्धिसत्कृतः ।
पौरकार्यहितान्वेक्षई भव कौरवनन्दन ॥

12.119.20

एषा ते नैष्ठिकी बुद्धिः प्रज्ञा चाभिहिता मषा ।
श्वाते निदर्शनं तात किं भूयः श्रोतुमिच्छसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc