भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.118

12.118.1

स श्वा प्रकृतिमापन्नः परं दैन्यमुपागमत् ।
ऋषिणा हुन्कृतः पापस्तपोवनबहिष्कृतः ॥

12.118.2

एवं राज्ञा मतिमता विदित्वा शीलशौचताम् ।
आर्जवं प्रकृतिं सत्वं श्रुतं वृत्तं कुलं दमम् ॥

12.118.3

अनुक्रोशं बलं वीर्यं प्रभावं प्रशमं क्षमाम् ।
भृत्यायेमन्त्रिणो योग्यास्तत्र स्थाप्याः सुरक्षिताः ॥

12.118.4

नाषरीक्ष्य महीपालः प्रकर्तुं भृत्यमर्हति ।
अकुलीननराकीर्णो न राजा सुखमेधते ॥

12.118.5

कुलजः प्राकृतो राजंस्तत्कुलीनतया सदा ।
न पापे कुरुते बुद्धिं निन्द्यमानोऽप्यनागसि ॥

12.118.6

अकुलीनस्तु पुरुषः प्राकृतः साधुसन्क्षयात् ।
दुर्लभैश्वर्यतां प्राप्तो निन्दितः शत्रुतां व्रजेत् ॥

12.118.7

काकः श्वानोऽकुलीनश्च बिडालः सर्प एव च ।
अकुलीना च या नारी तुल्यास्ते परिकीर्तिताः ॥

12.118.8

लोकपालाः सदोद्विग्नाः पश्यन्त्यकुलजान्यथा ।
नारीं वा पुरुषं वाऽथ शीलं तत्रापि कारणम् ॥

12.118.9

दुष्कुलीना च या स्त्री स्याद्दुष्कुलीनश्च यः पुम ।
अहिंसाशीलसंयोगाद्धर्मश्चाऽकुलतां व्रजेत् ॥

12.118.10

धर्मं प्रति महाराज श्लोकानाह बृहस्पतिः ।
शृणु सर्वान्महीपाल हृदि तांश्च करिष्यसि ॥

12.118.11

असितं सितकर्माणं यथा दान्तं तपस्विनम् ।
वृत्तस्थमपि चण्डालं तं देवा ब्राह्मणं विदुः ॥

12.118.12

यदि घातयते कश्चित्पापसत्वं प्रजाहितः ।
सर्वसत्वहितार्थाय न तेनासौ विहिंसकः ॥

12.118.13

द्वीपिनं शरभं सिंहं व्याघ्रं कुञ्जरमेव च ।
महिषं च वराहं च सूकरं श्वानपन्नगान् ॥

12.118.14

गोब्राह्मणहितार्थाय बालस्त्रीरक्षणाय च ।
वृद्धातुरपरित्राणे यो हिनस्ति स धर्मवित् ॥

12.118.15

ब्राह्मणः पापकर्मा च म्लेच्छो वा धार्मिकः शु वः ।
श्रेयांस्तत्र भवेन्म्लेच्छो ब्राह्मणः पापकृत्तमः ॥

12.118.16

दुष्कुलीनः कुलीनो वा यः कश्चिच्छीलवान्नरः ।
प्रकृतिं तस्य विज्ञाय स्थिरां वा यदि वाऽस्थिराम् ॥

12.118.17

शीलं वाऽनुत्तमं कर्म कुर्याद्राजा समाहितः । नियुञ्जीत महीपालो दुर्वृत्तं पापकर्मसु ॥

12.118.18

कुलीनं शिक्षितं प्राज्ञं ज्ञानविज्ञानकोविदम् ।
सर्वशास्त्रार्थतत्त्वज्ञं सहिष्णुं देशजं तथा ॥

12.118.19

कृतज्ञं बलवन्तं च क्षान्तं दान्तं जितेन्द्रियम् ।
अलुब्धं लब्धसन्तुष्टं स्वामिमित्रबुभूषकम् ॥

12.118.20

सचिवं देशकालज्ञं सर्वसन्ग्रहणे रतम् ।
संस्कृतं युक्तवचनं हितैषिणमतन्द्रितम् ॥

12.118.21

युक्ताचारं स्वविषये सन्धिविग्रहकोविदम् ।
शस्तं त्रिवर्गवेत्तारं पौरजानपदप्रियम् ॥

12.118.22

सेनाव्यूहनतत्त्वज्ञं बलहर्षणकोविदम् ।
इङ्गिताकरातत्त्वज्ञं यात्रासेनाविशारदम् ॥

12.118.23

हस्तिशिक्षाश्वतत्त्वज्ञमहन्कारविवर्जितम् ।
प्रगल्भं दक्षिणं दान्तं बलिनं युक्तमन्त्रिणम् ॥

12.118.24

चौक्षं चौक्षजनाकीर्णं सुवेषं सुखदर्शनम् ।
नायकं नीतिकुशलं गुणैः षङ्भिः समन्वितम् ॥

12.118.25

अस्तब्धं प्रश्रितं श्लक्ष्णं मृदुवादिनमेव च ।
धीरं महर्द्धि च देशकालोपपादकम् ॥

12.118.26

सचि यः प्रकुरुते न चैनमवमन्यते ।
तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव ॥

12.118.27

एतैरेव गुणैर्युक्तो राजा शास्त्रविशारदः ।
एष्टव्यो धर्मपरमः प्रजापालनतत्परः ॥

12.118.28

धीरो मर्षी शुचिः शीघ्रः काले पुरुषकारवित् ।
शुश्रूषुः श्रुतवाञ्श्रोता ऊहापोहविशारदः ॥

12.118.29

मेधावी धारणायुक्तो यथान्यायोपपादकः ।
दान्तः सदा प्रियाभाषी क्षमावांश्च विपर्यये ॥

12.118.30

नातिच्छेत्ता स्वयन्कारी श्रद्धालुः सुखदर्शनः ।
आर्तहस्तप्रदो नित्यमाप्तामात्यो नये रतः ॥

12.118.31

नाहंवादी ननिर्द्वन्द्वो नयत्किञ्चनकारकः ।
कृते कर्मण्यमोघानां कर्ता भृत्यजनप्रियः ॥

12.118.32

सन्गृहीतजनोऽस्तब्धः प्रसन्नवदनः सदा ।
त्राता भृत्यजनापेक्षी न क्रोधी सुमहामनाः ॥

12.118.33

युक्तदण्डो न निर्दण्डो धर्मकार्यानुशासनः ।
चारनेत्रः प्रजावेक्षी धर्मार्थकुशलः सदा ॥

12.118.34

राजा गुणशताकीर्ण एष्टव्यस्तादृशो भवेत् ।
योधाश्चैव मनुष्येन्द्र सर्वैर्गुणगणैर्वृताः ॥

12.118.35

अन्वेष्टव्याः सुपुरुषाः सहाया राज्यधारणे ।
न विमानयितव्यास्ते राज्ञा वृद्धिमभीप्सता ॥

12.118.36

योधाः समरशौण्डीराः कृतज्ञाः शास्त्रकोविदाः ।
धर्मशास्त्रसमायुक्ताः पदातिजनसंवृताः ॥

12.118.37

अर्थमानविवृद्धाश्च रथचर्याविशारदाः ।
इष्वस्त्रकुशला यस्य तस्येयं नृपतेर्मही ॥

12.118.38

ज्ञातीनामनवज्ञानं भृत्येष्वशठता तथा ।
नैपुणं चार्थचर्यासु यस्यैते तस्य सा मही ॥

12.118.39

आलस्यं चैव निद्रा च व्यसनान्यतिहास्यता ।
यस्तैतानि न विद्यन्ते तस्यैव सुचिरं मही ॥

12.118.40

वृद्धसेवी महोत्साहो वर्णानां चैव रक्षिता ।
धर्मचर्याः सदा यस्य तस्येयं सुचिरं मही ॥

12.118.41

नीतिवर्त्मानुसरणं नित्यमुत्थानमेव च ।
रिपूणामनवज्ञानं तस्येयं सुचिरं मही ॥

12.118.42

उत्थानं चैव दैवं च तयोर्नानात्वमेव च ॥
मनुना वर्णितं पूर्वं वक्ष्ये शृणु तदेव हि ॥

12.118.43

उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत ।
नयानयविधानज्ञः सदा भव कुरूद्वह ॥

12.118.44

दुर्हृदां छिद्रदर्शी यः सुहृदामुपकारवान् । विशेषविच्च भृत्यानां स राज्यफलमश्नुते ॥

12.118.45

सर्वसन्ग्रहणे युक्तो नृपो भवति यः सदा ।
उत्थानशीलो मन्त्राढ्यः स राजा राजसत्तमः ॥

12.118.46

शक्या चाश्वसहस्रेण वीरारोहेण भारत ।
सन्गृहीतमनुष्येण कृत्स्ना जेतुं वसुन्धरा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc