भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.117

12.117.1

व्याघ्रश्वोटजमूलस्थस्तृप्तः सुप्तो हतैर्मृगैः ।
नागभागात्तमुद्देशं मत्तो मेघ इवोत्थितः ॥

12.117.2

प्र--करटः प्रांशुः पझी विततकुम्भकः ।
सु--णो महाकायो मेघगम्भीरनिः स्वनः ॥

12.117.3

तं दृष्ट्वा कुञ्जरं मत्तमायान्तं बलगर्वितम् ।
व्या हस्तिभयान्त्रस्तस्तमृषिं शरणं ययौ ॥

12.117.4

ततोऽनयत्कुञ्जरत्वं व्याघ्रं तमृषिसत्तमः ।
महमेघोपमं दृष्ट्वा स भीतो ह्यभवद्गजः ॥

12.117.5

ततः कमलषण़्डानि सल्लकीगहनानि च ।
व्य--रत्स मुदायुक्तः पझरेणुविभूषितः ॥

12.117.6

कदचिद्दममाणस्य हस्तिनः सम्मुखं तदा ।
ऋषेस्तस्योटस्थस्य कालोऽगच्छद्दिवानिशम् ॥

12.117.7

अथाजगाम तं देशं केसरी केसरारुणः ।
गिन्विन्दरजो भीमः सिंहो नागकुलान्तकः ॥

12.117.8

तं--- सिंहमायान्तं नागः सिंहभयार्दितः ।
ऋषिं शरणमापेदे वेपमानो भयातुरः ॥

12.117.9

स त-ः सिंहतां नीतो गजेन्द्रो मुनिना तदा ।
तं च नागणयत्सिंहं तुल्यजातिसमन्वयात् ॥

12.117.10

दृष्ट्वा च सोऽभवत्सिंहो वन्यो हिंसन्नवाग्बलः ।
स चाश्रपेऽवसत्सिंहस्तस्मिन्नेव सुखी वने ॥

12.117.11

न चान्ये क्षुद्रपशवस्तपोवनसमीपतः ।
व्यदृश्यन्त तदा त्रस्ता जीविताकाङ्क्षिणस्तथा ॥

12.117.12

कदाचित्कालयोगेन सर्वप्राणिविहिंसकः ।
बलवान्क्षतजाहारो नानासत्वभयन्करः ॥

12.117.13

अष्टपादर्ध्वनयनः शरभो वनगोचरः ।
तं सिंहं हन्तुमागच्छन्मुनेस्तस्य निवेशने ॥

12.117.14

तं दृष्ट्वा शरभं यान्तं सिंहः परभयान्वितः । ऋषिं शरणमापेदे वेपमानः कृताञ्जलिः ॥

12.117.15

सं मुनिः शरभं चक्रे बलोत्कटमरिन्दम । ततः स शरभो वन्यो मुनेः शरभमग्रतः ।
दृष्ट्वा बलिनमत्युग्रं द्रुतं सम्प्राद्रवद्वनम् ॥

12.117.16

स एवं शरभस्थाने न्यस्तो वै मुनिना तदा ।
मुनेः पार्श्वगतो नित्यं शरभः सुखमाप्तवान् ॥

12.117.17

ततः शरभसन्त्रस्ताः सर्वे मृगगणा वनात् ।
दिशः सम्प्राद्रवत्राजन्भयाज्जीवितकाङ्क्षिणः ॥

12.117.18

शरभोऽप्यतिसंहृष्टो नित्यं प्राणिवधे रतः ।
फलमूलाशनं कर्तुं नैच्छत्स पिशिताशनः ॥

12.117.19

ततः क्षुद्रसमाचारो बलेन च समन्वितः ।
इयेष तं मुनिं हन्तुमकृतज्ञः कृतान्वयः ॥

12.117.20

चिन्तयामास च तदा शरभः श्वानपूर्वकः ॥

12.117.21

अस्य प्रभावात्सम्प्राप्तो वाङ्भात्रेणैव केवलम् ।
शरभत्वं सुदुष्प्रापं सर्वभूतभयन्करम् ॥

12.117.22

अन्येऽप्यत्र भयत्रस्ताः सन्ति सत्वा भयार्दिताः ।
मुनिमाश्रित्य जीवन्तो मृगाः पक्षिगणास्तथा ॥

12.117.23

तेषामपि कदाचिच्च शरभत्वं प्रयच्छति ।
सर्वसत्वोत्तमं लोके बलं यत्र प्रतिष्ठितम् ॥

12.117.24

पक्षिणामप्ययं दद्यात्कदाचिद्गारुडं बलम् ॥

12.117.25

यावदन्यस्य सम्प्रीतः कारुण्यं तु समाश्रितः ।
न ददाति बलं तुष्टः सत्वस्यान्यस्य कस्यचित् ॥

12.117.26

तावदेनमहं विप्रं वधिष्यामि च शीघ्रतः । स्थातुं मया शक्यमिह मुनिघातान्न संशयः ॥

12.117.27

ततस्तेन तपःशक्त्या विदितो ज्ञानचक्षुषा ।
विज्ञाय च मुनिः प्राज्ञस्ततः शापं प्रयुक्तवान् ॥

12.117.28

अहमग्निप्रभो नाम मुनिर्भृगुकुलान्वयः ।
मनसा निर्दहेयं च जगत्सन्धारयामि च ॥

12.117.29

मम वश्यं जगत्सर्वं देवा यच्च चराचरम् । सन्ति देवाश्च ये भीताः स्वधर्मं न त्यजन्ति ये ।
स्वधर्माच्चलितान्सर्वान्वाङ्भात्रेणापि निर्दहे ॥

12.117.30

किमङ्ग त्वं मया नीतः शरभत्वमनामयम् । क्रूरः स सर्वभूतेषु हीनश्चाशुचिरेव च ॥

12.117.31

श्वा त्वं द्वीपित्वमापन्नो द्वीपी व्याघ्रत्वमागतः ।
व्याघ्रान्नागो मदपटुर्नागः सिंहत्वमागतः ॥

12.117.32

सिंहस्त्वं बलमापन्नो भूयः शरभतां गतः ।
मया स्नेहपरीतेन विसृष्टो न कुलान्वयः ॥

12.117.33

यस्मादेवमपापं मां पाप हिंसितुमिच्छसि ।
तस्मात्स्वयोनिमापन्नः पुनः श्वानो भविष्यसि ॥

12.117.34

ततो मुनिजनद्वेष्टा दुष्टात्मा प्राकृतोऽबुधः ।
ऋषिणा शरभः शप्तस्तद्रूपं पुनराप्तवान् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc