भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.116

12.116.1

न सन्ति कुलजा यत्र सहायाः पार्थिवस्य तु । अकुलीनाश्च कर्तव्या न वा भरतसत्तम् ॥
भीष्म उवाच ।

12.116.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
निदर्शनं परं लोके सज्जनाचरितं सदा ॥

12.116.3

अस्यैवार्थस्य सदृशं यच्छ्रुतं मे तपोवने ।
जामदग्न्यस्य रामस्य यदुक्तमृषिसत्तमैः ॥

12.116.4

वने महति कस्मिंश्चिदमनुष्यनिषेविते ।
ऋषिर्मूलफलाहारो नियतो नियतेन्द्रियः ॥

12.116.5

दीक्षादमपरिश्रान्तः स्वाध्यायपरमः शुचिः ।
उपवासविशुद्धात्मा सततं सत्पथे स्थितः ॥

12.116.6

तस्य सन्दृश्य सद्भावमुपविष्टस्य धीमतः ।
सर्वे सत्वाः समीपस्था भवन्ति वनचारिणः ॥

12.116.7

सिंहा व्याघ्राः सशरभा मत्ताश्चैव महागजाः ।
द्वीपिनः खङ्गभल्लूका ये चान्ये भीमदर्शनाः ॥

12.116.8

ते सुखप्रश्नदाः सर्वे भवन्ति क्षतजाशनाः ।
तस्यर्षेः शिष्यवच्चैव चित्तज्ञाः प्रियकारिणः ॥

12.116.9

उक्त्वा च ते सुखप्रश्नं सर्वे यान्ति यथासुखम् ।
ग्राम्यस्त्वेकः पशुस्तत्र नाजहात्स महामुनिम् ॥

12.116.10

भक्तोऽनुरक्तः सततमुपवासकृशोऽबलः ।
फलमूलोत्तराहारः शान्तः शिष्टाकृतिर्यथा ॥

12.116.11

तस्यर्षेरुपविष्टस्य पादमूले महामतेः ।
मनुष्यवद्गतो भावं स्नेहबद्धोऽभवद्भृशम् ॥

12.116.12

ततोऽभ्ययान्महारौद्रो द्वीपी क्षतजभोजनः ।
श्वार्थमत्यर्थमुद्धुष्टः क्रूरः कालैवान्तकः ॥

12.116.13

लेलिह्यमानस्तृषितः पुच्छास्फोटनतत्परः ।
व्यादितास्यः क्षुधाः भुग्नः प्रार्थयानस्तदामिषम् ॥

12.116.14

दृष्ट्वा तं क्रूरमायान्तं जीवितार्थी नराधिप ।
प्रोवाच श्वा मुनिं तत्र तच्छृणुष्व विशाम्पते ॥

12.116.15

श्वशत्रुर्भगवन्नेष द्वीपी मां हन्तुमिच्छति । त्वत्प्रसादाद्भयं न स्यादस्मान्मम महामुने ।
[तथा कुरु महाबाहो सर्वज्ञस्त्वं न संशयः ॥

12.116.16

स मुनिस्तस्य विज्ञाय भावज्ञो भयकारणम् । रुतज्ञः सर्वसत्वानां तमैश्वर्यसमन्वितः ॥ ]
मुनिरुवाच ।

12.116.17

न भयं द्वीपिनः कार्यं मृत्युतस्ते कथञ्चन ।
एष श्वरूपरहितो द्वीपी भवसि पुत्रक ॥

12.116.18

ततः श्वा द्वीपितां नीतो जाम्बूनदनिभाकृति ।
चित्राङ्गो विस्फुरद्दंष्ट्रो वने वसति निर्भयः ॥

12.116.19

तं दृष्ट्वा सम्मुखे द्वीपी आत्मनः सदृशं पशुम् ।
अविरुद्धस्ततस्तस्य क्षणेन समपद्यत ॥

12.116.20

ततोऽभ्ययान्महारौद्रो व्यादितास्यः क्षुधान्विः ।
द्वीपिनं लेलिहन्वक्रं व्याघ्रो रुधिरलालसः ॥

12.116.21

व्याघ्रं दृष्ट्वा क्षुधा भुग्नं दंष्ट्रिणं वनचारिणम् ।
द्वीपि जीवितरक्षार्थमृषिं शरणमेयिवान् ॥

12.116.22

ततः संवासजं स्नेहमृषिणा कुर्वता तदा ।
स द्वीपी व्याघ्रतां नीतो रिपुभ्यो बलवत्तरः ॥

12.116.23

ततोऽदृष्ट्वा स शार्दूलो नाभ्यघ्नत्तं विशाम्पते ।
स तु श्चा व्याघ्रतां प्राप्य बलवान्पिशिताशनः ॥

12.116.24

न मूलफलभोगेषु स्पृहामप्यकरोत्तदा । यथा मृगपतिर्नित्यं प्रकाङ्क्षति वनौकसः ।
तथैव स महाराज व्याघ्रः समभवत्तदा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc