भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.115

12.115.1

पितामह महाप्राज्ञ संशयो मे महानयम् ।
सञ्छेत्तव्यस्त्वया राजन्भवान्कुलकरो हि नः ॥

12.115.2

पुरुषाणामयं तात दुर्वृत्तानां दुरात्मनाम् ।
कथितो वाक्यसञ्चारस्ततो विज्ञापयामि ते ॥

12.115.3

यद्धितं राज्यतन्त्रस्य कुलस्य च सुखोदयम् ।
अयत्यां च तदात्वे च क्षेमवृद्धिकरं च तत् ॥

12.115.4

पुत्रपौत्राभिरामं च राष्ट्रवृद्धिकरं च यत् ।
अन्नपाने शरीरे च हितं यत्तद्ब्रवीहि मे ॥

12.115.5

अभिषिक्तो हि यो राजा राज्यस्थो मित्रसंवृत ।
समुहृत्समुपेतो वा स कथं रञ्जयेत्प्रजाः ॥

12.115.6

यो ह्यसत्प्रग्रहरतिः स्नेहरागबलात्कृतः ।
इन्द्रियाणामनीशत्वादसज्जनबुभूषकः ॥

12.115.7

तस्य भृत्या विमुखतां यान्ति सर्वे कुलोद्गताः ।
न च भृत्यबलैरर्थैः स राजा सम्प्रयुज्यते ॥

12.115.8

एतन्मे चिन्तयानस्य राजधर्मान्दिवानिशम् ।
बृहस्पतिसमो बुद्ध्या भवाञ्शंसितुमर्हति ॥

12.115.9

शासता पुरुषव्याघ्र त्वं नः कुलहिते रतः ।
क्षत्ता चैको महाप्राज्ञो यो नः शंसति सर्वदा ॥

12.115.10

त्वत्तः कुलहितं वाक्यं श्रुत्वा राज्यहितोदयम् ।
अमृतस्याव्ययस्येव तृप्तः स्वप्स्याम्यहं सुखम् ॥

12.115.11

कीदृशाः सन्निकर्षस्था भृत्याः सर्वगुणान्विताः ।
कीदृशैः किं कुलीनैर्वा सह यात्रा विधीयते ॥

12.115.12

न ह्येको भृत्यरहितो राजा भवति रक्षिता ।
राज्यं चेदं जनः सर्वस्तत्कुलीनः प्रशासति ॥
भीष्म उवाच ।

12.115.13

न च प्रशास्तुं राज्यं हि शक्यमेकेन भारत ॥

12.115.14

असहायवता तात नैवार्थाः केचिदप्युत ।
लब्धुं लब्धा ह्यपि सदा रक्षितुं भरतर्षभ ॥

12.115.15

यस्य भृत्यजनः सर्वो ज्ञानविज्ञानकोविदः ।
हितैषी कुलजः स्निग्धः स राज्यफलमश्नुते ॥

12.115.16

मन्त्रिणो यस्य कुलजा असंहार्याः सहोषिताः ।
नृपतेर्मतिमाप्सन्ते सत्पथज्ञानकोविदाः ॥

12.115.17

अनागतविधातारः कालज्ञानविशारदाः ।
अतिक्रान्तमशोचन्तः स राज्यफलमश्नुते ॥

12.115.18

समदुःखसुखा यस्य सहायाः प्रियकारिणः ।
अर्थचिन्तापराः सभ्याः स राज्यफलमश्नुते ॥

12.115.19

यस्य नार्तो जनपदः सन्निकर्षगतः सदा ।
अक्षुद्रः सत्पथालम्बी स राजा राज्यभाग्भवेत् ॥

12.115.20

कोशोऽक्षपटलं यस्य कोशवृद्धिकरैर्नरैः ।
आप्तैस्तुष्टैश्च पृष्टैश्च धार्यते स नृपोत्तमः ॥

12.115.21

कोष्ठागारमसंहार्यैराप्तैः सञ्चयतत्परैः ।
पात्रभूतैरलुब्धैश्च पाल्यमानं गुणी भवेत् ॥

12.115.22

व्यवहारश्च नगरे यस्य धर्मफलोदयः ।
दृश्यते शङ्खलिखितः स धर्मफलभाङ् नृपः ॥

12.115.23

सन्गृहीतमनुष्यश्च यो राजा राजधर्मवित् ।
षङ््भागं परिगृह्णाति स धर्मफलमश्नुते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc