भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.114

12.114.1

विद्वान्मूढप्रगल्भेन मृदुस्तीक्ष्णेन भारत ।
आक्रुश्यमानः सदसि कथं कुर्यादरिन्दम् ॥
भीष्म उवाच ।

12.114.2

श्रूयतां पृथिवीपाल यथैऽषोर्थोऽवगम्यते ।
सदा सचेताः सहते नरस्येहाल्पचेतसः ॥

12.114.3

आक्रुश्य दूष्यमाणश्च सुकृतं तस्य विन्दति ।
दुष्कृतं चात्मनो मर्षी तस्मिन्नेव प्रमार्जति ॥

12.114.4

गर्हितं तमुपेक्षेत वाश्यमानमिवातुरम् ।
लोके विद्वेषमापन्नो निष्फलं प्रतिपद्यते ॥

12.114.5

इति संश्लाघते नित्यं तेन पापेन कर्मणा । इदमुक्तो मया कश्चित्सर्वतो जनसंसदि ।
स तत्र व्रीडितः शुष्को मृतकल्पोऽवतिष्ठते ॥

12.114.6

श्लाघन्नश्लाघनीयेन कर्मणा निरपत्रपः ।
उपेक्षितव्यो दान्तेन तादृशः पुरुषाधमः ॥

12.114.7

यद्यद्ब्रूयादल्पमतिस्तत्तदस्य सहेत्तदा ॥

12.114.8

प्रकृत्या हि प्रशंसन्वा निन्दन्वा किं करिष्यति ।
वने काक इवाबुद्धिर्वाश्यमानो निरर्थकम् ॥

12.114.9

यदि वाग्भिः प्रयोगः स्यात्प्रयोज्यः पापकर्मणा ।
वागेवार्थो भवेत्तस्य न ह्येवार्थो जिघांसतः ॥

12.114.10

निषेकं वै परस्यासावाचष्टे वृत्तचेष्टया ।
मयूर इव कौपीनं नृत्यं सन्दर्शयन्निव ॥

12.114.11

यस्यावाच्यं न लोकेऽस्मिन्नाकार्यं चापि किञ्चन ।
वाचं तेन न सन्दध्याच्छुचिः संश्लिष्टकर्मणा ॥

12.114.12

प्रत्यक्षं गुणवादी यः परोक्षं तु विनिन्दकः ।
स मानवः श्ववल्लोके नष्टलोकपरायणः ॥

12.114.13

तादृग्दिनशतं चापि यद्ददाति जुहोति च ।
परोक्षेणापवादेन तं नाशयति तत्क्षणात् ॥

12.114.14

तस्मात्प्राज्ञो नरः सद्यस्तादृशं पापचेतसम् ।
वर्जयेन्मतिमान्वर्ज्यं सारमेयामिषं यथा ॥

12.114.15

परिवादं ब्रुवाणो हि दुरात्मा वै महाजने ।
प्रकाशयति दोषान्स्वान्सर्पः फणमिवोन्नतम् ॥

12.114.16

तं स्वकर्मणि कुर्वाणं प्रतिकर्तुं य इच्छति ।
भस्मकूट इवाबुद्धिः खरो रजसि मज्जति ॥

12.114.17

मनुष्यसालावृकमप्रशान्तं जनापवादे सततं निविष्टम् ।
मातङ्गमुन्मत्तमिवोन्नदन्तं त्यजेत तं श्वानमिवातिरौद्रम् ॥

12.114.18

अनार्यजुष्टे पथि वर्तमानं दमादपेतं विनयाच्च पापम् ।
अरिव्रतं नित्यमभूतिकामं धिगस्तु तं पापमतिं मनुष्यम् ॥

12.114.19

प्रत्युच्यमानस्त्वथ भूय एव निशाम्य माभूस्त्वमथार्तरूपः ।
उच्चस्य नीचेन हि सम्प्रयोगं विगर्हयन्ति स्थिरबुद्धयो ये ॥

12.114.20

क्रुद्धो दशेद्वाऽपि च ताडयेद्वा स पांसुभिर्वा विकिरेत्तुषैर्वा ।
विवृत्य दन्तांश्च विभीषयेद्वा सिद्धं हि मूढे कुपिते नृशंसे ॥

12.114.21

विगर्हणां नाऽपि दुरात्मना कृतां सहेत यः संसदि दुर्जनानाम् ।
पठेदिदं चापि निदर्शनं सदा न वाङ्भयं स लभति किञ्चिदप्रियम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc