भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.102

12.102.1

जयिन्याः कानि रूपाणि भवन्ति भरतर्षभ ।
पृतनायाः प्रशस्तानि तानि चेच्छामि वेदितुम् ॥
भीष्म उवाच ।

12.102.2

जयिन्या यानि रूपाणि भवन्ति भरतर्षभ ।
पृतनायाः प्रशस्तानि तानि वक्ष्यामि सर्वशः ॥

12.102.3

दैवे पूर्वं प्रकुपिते मानुषे कालचोदिते ।
तद्विद्व अऽनुपस्यन्ति ज्ञानदीर्घेण चक्षुषा ॥

12.102.4

प्रायश्चित्तविधिं चात्र जपहोमांश्च तद्विदः ।
मङ्गल नि च कुर्वन्ति शमयन्त्यहितानि च ॥

12.102.5

उदीणानसो योधा वाहनानि च भारत ।
यस्यां भवन्ति सेनायां ध्रुवं तस्या जयो भवेत् ॥

12.102.6

अन्वेव वायवो यान्ति तथैवेन्द्रधनूंषि च ।
अनुप्लवन्ते मेघाश्च तथाऽदित्यस्य रश्मयः ॥

12.102.7

गोमायवश्चातुलोमबला गृध्राश्च सर्वशः ।
अर्हयेयुर्यदा सेनां तदा सिद्धिरनुत्तमा ॥

12.102.8

प्रसन्नभाः पावकश्चोर्ध्वरश्मिः प्रदक्षिणावर्तशिखो विधूमः ।
पुण्या गन्धाश्चाहुतीनां भवन्ति जयस्यैतद्भाविनो रूपमाहुः ॥

12.102.9

गम्भीरशब्दाश्च महास्वनाश्च शङ्ख्याश्च भेर्यश्च नदन्ति यत्र ।
युयुत्सवश्चाप्रतीपा भवन्ति जयस्यैतद्भाविनो रूपमाहुः ॥

12.102.10

इष्टा मृगाः पृष्ठतो वामतश्च सम्प्रस्थितानां च गमिष्यतां च ।
जिघांसतां दक्षिणाः सिद्धिमाहु र्ये त्वग्रतस्ते प्रतिषेधयन्ति ॥

12.102.11

माङ्गल्यशब्दाञ्शकुना वदन्ति हंसाः क्रौञ्चाः शतपत्राश्च चाषाः ।
हृष्टा योधाः सत्ववन्तो भवन्ति जयस्यैतद्भाविनो रूपमाहुः ॥

12.102.12

शस्त्रैर्यन्त्रैः कवचैः केतुभिश्च सुभानुभिर्मुखवर्णैश्च यूनाम् ।
भ्राजिष्मती दुष्प्रतिवीक्षणीया येषां चमूस्तेऽभिभवन्ति शत्रून् ॥

12.102.13

शुश्रूषवश्चानभिमानिनश्च परस्परं सौहृदमास्थिताश्च ।
येषां योधाः शौर्यमनुष्ठिताश्च जयस्यैतद्भाविनो रुपमाहुः ॥

12.102.14

शब्दाः स्पर्शास्तथा गन्धा विचरन्ति मनः प्रियाः ।
धैर्यं चाविशते योधान्विजयस्य मुखं च तत् ॥

12.102.15

शब्दो वामः प्रस्थितस्य दक्षिणः प्रविविक्षतः ।
पश्चात्संसाधयत्यर्थं पुरस्ताच्च निषेधति ॥

12.102.16

संहत्य महतीं सेनां चतुरङ्गां युधिष्ठिर ।
साम्नैव वर्तयेः पूर्वं प्रसतेथास्ततो युधि ॥

12.102.17

जघन्य एष विजयो यद्युद्धे सामभाषणम् ।
यादृच्छिको युधि जयो दैवेनेति विचारणम् ॥

12.102.18

आपगेव महावेगा त्रस्ता इव महामृगाः ।
दुर्निवार्यतमा चैव प्रभग्ना महती चमूः ॥

12.102.19

भग्ना इत्येव भज्यन्ते विद्वांसोऽपि न कारणम् ।
उदारसारा महती रुरुसन्घोपमा चमूः ॥

12.102.20

परस्परज्ञाः संहृष्टास्त्यक्तप्राणाः सुनिश्चिताः ।
अपि पञ्चत्रतै शूरा निघ्नन्ति परवाहिनीम् ॥

12.102.21

अपि वा पञ्चषट््सप्तसंहिताः कृतनिश्चयाः ।
क्ललीनाः पूजिताः सम्यग्विजयन्तीह शात्रवान् ॥

12.102.22

सन्निपातो न मन्तव्यः शक्ये सति कथञ्चन ।
सान्त्वभेदप्रदानानां युद्धमुत्तरमुच्यते ॥

12.102.23

संसर्पेण हि सेनाया भयं भीरून्प्रबाधते ।
वज्रादिय प्रज्वलितादियं स्वित्क्षपयिष्यति ॥

12.102.24

अमिप्रयातां समितिं ज्ञात्वा ये प्रतियान्त्यथ ।
तेषां सन्दन्ति गात्राणि योधानां विवयस्य च ॥

12.102.25

विषयो व्यथते राजन्सर्वः सस्थाणुजङ्गमः ।
अस्त्रप्रतापतप्तानां मज्जाः सीदन्ति देहिनाम् ॥

12.102.26

तेषां सान्त्वं क्रूरमिश्रं प्रणेतव्यं पुनः पुनः ।
सम्पीड्यमाना हि परैर्योगमायान्ति सर्वतः ॥

12.102.27

आन्तराणां च भेदार्थं चरानभ्यवचारयेत् ।
यश्च तस्मात्परो राजा तेन सन्धिः प्रशस्यते ॥

12.102.28

न हि तस्यान्यथा पीडा शक्या कर्तुं तथाविधा ।
यथा सार्धममित्रेण सर्वतः प्रतिबाधनम् ॥

12.102.29

क्षमा वै साधुमायाति न ह्यसाधून्क्षमा सदा ।
क्षमायाश्चाक्षमायाश्च पार्थ विद्धि प्रयोजनम् ॥

12.102.30

विजित्य क्षममाणस्य यशो राज्ञो विवर्धते ।
महापराधे ह्यप्यस्मिन्विश्वसन्त्यपि शत्रवः ॥

12.102.31

मन्यन्ते कर्षयित्वा तु क्षमा साध्वीति शाम्बराः ।
असन्तप्तं तु यद्दारु प्रत्येति प्रकृतिं पुनः ॥

12.102.32

नैतत्प्रशंसन्त्याचार्या न चैतत्साधु दर्शनम् ।
अक्रोधेनाविनाशेन नियन्तव्याः स्वपुत्रवत् ॥

12.102.33

द्वेष्यो भवति भूतानामुग्रो राजा युधिष्ठिर ।
मृदुमप्यवमन्यन्ते तस्मादुभयभाग्भवेत् ॥

12.102.34

प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत ।
प्रहृत्य च प्रियं ब्रूयाच्छोचन्निव रुदन्निव ॥

12.102.35

न मे प्रिया ये स्म हताः सम्प्रहृष्टाः परेऽपि च ।
न च कत्थनमेवाग्र्यमुच्यमानं पुनः पुनः ॥

12.102.36

अहो जीवितमाकाङ्क्षेन्नेदृशो वधमर्हति ।
सुदुर्लभाः सुपुरुषाः सन्ग्रामेष्वपलायिनः ॥

12.102.37

कृतं ममाप्रियं तेन येनायं निहतो मृधे ।
इति वाचा वदन्हन्तृन्पूजयेत रहोगतः ॥

12.102.38

हन्तॄणां च हतानां च पूजां कुर्याद्यथार्थतः ।
क्रोशेद्बाहुं प्रगृह्यापि चिकीर्षञ्जनसन्ग्रहम् ॥

12.102.39

एवं सर्वास्ववस्थासु सान्त्वपूर्वं समाचरेत् ।
प्रियो भवति भूतानां धर्मज्ञो वीतभीर्नृपः ॥

12.102.40

विश्वासं चात्र गच्छन्ति सर्वभूतानि भारत ।
विश्वस्तः शक्यते भोक्तुं यथाकालं समुत्थितः ॥

12.102.41

तस्माद्विश्वासयेद्राजा सर्वभूतान्यमायया ।
सर्वतः परिरक्षेच्च यो महीं भोक्तुमिच्छति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc