भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.101

12.101.1

किंशीलाः किंसमुत्थानाः कथंरूपाश्च भारत ।
किंसन्नाहाः कथंशस्त्रा जनाः स्युः संयुगे नृपाः ॥
भीष्म उवाच ।

12.101.2

यथाचरितमेवात्र शस्त्रं पत्रं विधीयते ।
आचाराद्धीह पुरुषस्तथा कर्मसु वर्तते ॥

12.101.3

गान्धाराः सिन्धुसौवीरा नखरप्रासयोधिनः ।
अभीरवः सुबलिनस्तद्वलं सर्वपारगम् ॥

12.101.4

सर्वशस्त्रेषु कुशलाः सत्ववन्तो ह्युशीनराः ।
प्राच्या मातङ्गयुद्धेषु कुशलाः कूटयोधिनः ॥

12.101.5

तथा यवनकाम्भोजा मधुरामभितश्च ये । एतेऽश्वयुद्धकुशला दाक्षिणात्याऽसिचर्मिणः ।
सर्वत्र शूरा जायन्ते महासत्वा महाबलाः ॥

12.101.6

आवन्तिका महाशूराश्चतुरङ्गे च मालवाः ।
एकोऽपि हि सहस्रस्य तिष्ठत्यभिमुखो रणे ॥

12.101.7

प्रायो देशाः समुद्दिष्टा लक्षणानि तु मे शृणु ॥

12.101.8

सिंहशार्दूलवाङ्गेत्राः सिंहशार्दूलगामिनः । पारावतकुलिङ्गाक्षाः सर्वे शूराः प्रमाथिनः ।

12.101.9

मृगस्वरा द्वीपिनेत्रा ऋषभाक्षास्तथा परे ।
प्रमाथिनश्च मन्द्राश्च क्रोधनाः किङ्किणीस्वनाः ॥

12.101.10

मेघस्वनाः क्रूरमुखाः केचिच्च कलनिस्वनाः ।
जिह्मनासाग्रजिह्वाश्च दूरगा दूरपातिनः ॥

12.101.11

बिडालकुब्जाः स्तब्धाक्षास्तनुकेशास्तनुत्वचः ।
शीघ्राश्चपलचित्ताश्च ते भवन्ति दुरासदाः ॥

12.101.12

गौरा निमीलिताः केचिन्मृदुप्रकृतयस्तथा ।
तुरङ्गगतिनिर्घोषास्ते नराः पारयिष्णवः ॥

12.101.13

सुसंहताः प्रतनवो व्यूढोरस्काः सुसंस्थिताः ।
प्रवादितेषु कुप्यन्ति हृष्यन्ति कलद्देषु च ॥

12.101.14

गम्भीराक्षा निसृष्टाक्षाः पिङ्गाक्षा भ्रुकुटीमुखाः ।
नकुलाक्षास्तथा चैव सर्वे शूरास्तनुत्यजः ॥

12.101.15

जिह्नाक्षाः प्रललाटाश्च निर्मांसहनवोऽव्यथाः ।
वक्रबाह्वङ्गुलीसक्थाः कृशा धमनिसन्तताः ॥

12.101.16

प्रविशन्ति च वेगेन साम्पराये ह्युपस्थिते ।
वारणा इव सम्मत्तास्ते भवन्ति दुरासदाः ॥

12.101.17

दीप्तस्फुटितकेशान्ताः स्थूलपार्श्वहनूमुखाः ।
उन्नतांसाः पृथुग्रीवा विकटाः स्थूलपिण्डिकाः ॥

12.101.18

उद्बन्धा इव सुग्रीवा विनताविहगा इव ।
पिण्डशीर्षातिवक्राश्च पृषदंशमुखास्तथा ॥

12.101.19

अग्रस्वरा मन्युमन्तो युद्धेष्वारावसारिणः ।
अधर्मज्ञाऽवलिप्ताश्च घोरा रौद्रप्रदर्शनाः ॥

12.101.20

त्यक्तात्मानः सर्व एते उदग्रा ह्यनिवर्तिनः ।
पुरस्कार्याः सदा सैन्ये हन्यन्ते घ्नन्ति चापि ते ॥

12.101.21

अधार्मिका भिन्नवृत्ताः सान्त्वेनैषां पराभवः ।
एवमेव प्रदूष्यन्ते राज्ञोऽप्येते ह्यभीक्ष्णशः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc