भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.103

12.103.1

कथं मृदौ कथं तीक्ष्णे महापक्षे च भारत ।
अरौ वर्तेत नृपतिस्तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।

12.103.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर ॥

12.103.3

बृहस्पतिं देवपतिरभिवाद्य कृताञ्जलिः ।
उपसन्गम्य पप्रच्छ वासवः परवीरहा ॥

12.103.4

अहितेषु कथं ब्रह्मन्प्रवर्तेयमतन्द्रितः ।
असमुछिद्य चैवैतान्नियच्छेयमुपायतः ॥

12.103.5

सेनयोर्थ्यतिषङ्गे च जयः साधारणो भवेत् ।
किं कुर्वाणं न मां जह्याज्ज्वलिता श्रीः प्रतापिनी ॥

12.103.6

ततो र्मार्थकामानां कुशलः प्रतिभानवान् ।
राजधर्मविधानज्ञः प्रत्युवाच पुरन्दरम् ॥

12.103.7

न जा कलहेनेच्छेन्नियन्तुमपकारिणः ।
बालैर सवितं ह्येतद्यदमर्षो यदक्षमा ॥

12.103.8

न शत्रुर्विवृतः कार्यो वधमस्याभिकाङ्क्षता ॥

12.103.9

क्रोधं भयं च हर्षं च नियम्य स्वयमात्मनि ।
अमित्र पसेवेत विश्वस्तवदविश्वसन् ॥

12.103.10

प्रियमेव वदेन्नित्यं नाप्रियं किञ्चिदाचरेत् ।
विरमेच्छुष्कवैरेभ्यः कर्णजापं च वर्जयेत् ॥

12.103.11

यथा वैतंसिको युक्तो द्विजानां सदृशस्वरः । तान्द्विजान्कुरुते वश्यांस्तथायुक्तो महीपतिः ।
वशं चोपनयेच्छत्रून्निहन्याच्च पुंरदर ॥

12.103.12

न नित्यं परिभूयारीन्सुखं स्वपिति वासव ।
जागर्त्येव हि दुष्टात्मा सन्करेऽग्निरिवोत्थितः ॥

12.103.13

न सन्निपातः कर्तव्यः सामान्ये विजये सति ।
विश्वास्यैवोपसन्नम्यो वशे कृत्वा रिपुः प्रभो ॥

12.103.14

सम्प्रधार्य सहामात्यैर्मन्त्रविद्भिर्महात्मभिः । उपेक्ष्यमाणो विज्ञातो हृदयेनापराजितः ।
अथास्य प्रहरेत्काले विधेर्वित्तलितो यदा ॥

12.103.15

दण्डं च दूषयेदस्य पुरुषैराप्तकारिभिः ॥

12.103.16

आदिमध्यावसानज्ञान्प्रच्छन्नं च विचारयेत् ।
बलानि दूषयेदस्य जानन्नेव प्रमाणतः ॥

12.103.17

भेदेनोपप्रदानेन संसृजेदौषधैस्तथा ।
न त्वेव खलु संसर्गं रोचयेदरिभिः सह ॥

12.103.18

दीर्घकालमपीक्षेत्त निग्राह्या एव शत्रवः ।
कालकाङ्गी च युक्तः सन्नुपासीत शचीपते ॥

12.103.19

तथा प्रियं च वक्तव्यं यथा विस्रम्भमाप्नुयात् । न सद्योऽरीन्विहन्याच्च द्रष्टव्यो विजयो ध्रुवः ।
भूयः शल्यं घटयति नवं च कुरुते व्रणम् ॥

12.103.20

प्राप्ते च प्रहरेत्काले न च संवर्तते पुनः ।
हन्तुकामस्य देवेन्द्र पुरुषस्य रिपून्प्रति ॥

12.103.21

यं हि कालो व्यतिक्रामेत्पुरुषं कालकाङ्क्षिणम् ।
दुर्लभः स पुनस्तेन कालः कर्म चिकीर्षता ॥

12.103.22

औजस्यं जनयेदेव सन्गृह्णन्साधुसम्मतम् ।
कालेन साधयेत्कृत्यमप्राप्तो न हि पीडयेत् ॥

12.103.23

विहाय कामं क्रोधं च तथाऽहन्कारमेव च ।
युक्तो विवरमन्विच्छेदहितानां सदा नृपः ॥

12.103.24

मार्दवं दण्ड आलस्यं प्रमादश्च सुरोत्तम ।
मायाः सुविहिताः शक्र शातयन्त्यविचक्षणम् ॥

12.103.25

निहत्यैतानि चत्वारि मायां प्रतिविधाय च ।
ततः शक्नोति शत्रूणां प्रहर्तुमविचारयन् ॥

12.103.26

यदेवैतेन शक्येत गुह्यं कर्तुं तदाऽचरेत् ।
यच्छन्ति सतिवा गुह्यं मिथो विश्रावयन्त्यपि ॥

12.103.27

अशक्यमिति कृत्वा वा ततोऽन्यैः संविदं चरेत् ।
ब्रह्मदण्डमदृष्टेषु दृष्टेषु चतुरङ्गिणीम् ॥

12.103.28

भेदं च प्रथमं विद्यात्तूष्णीं दण्डं तथैव च ।
काले प्रयोजयेद्राजा तस्मिंस्तस्मिंस्तदातदा ॥

12.103.29

प्रणिपातं च गच्छेत काले शत्रोर्बलीयसः ।
युक्तोऽस्य वधमन्विच्छेदप्रमत्तः प्रमाद्यतः ॥

12.103.30

प्रणिपातेन दानेन वाचा मधुरया ब्रुवन् ।
अमित्रमुपसेवेत न च जातु विशङ्कयेत् ॥

12.103.31

स्थानानि शङ्कितानां च नित्यमेव विवर्जयेत् ।
न च तेष्वाश्वसेद्राजा जाग्रतीह निराकृताः ॥

12.103.32

न ह्यतो दुष्करं कर्म किञ्चिदस्ति सुरोत्तम ।
यथा विविधवृत्तानामैश्वर्यममराधिप ॥

12.103.33

तथा विविधशीलानामपि सम्भव उच्यते ।
प्रयतेद्योगमास्थाय मित्रामित्रानधारयन् ॥

12.103.34

मृदुमप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः ।
मातीक्ष्णो मा मृदुर्भूस्त्वं तीक्ष्णो भव मृदुर्भव ॥

12.103.35

यथा वप्रे वेगवति सर्वतः सम्प्लतोदके ।
नित्यं विचरणाद्वाधस्तथा राज्यं प्रमाद्यतः ॥

12.103.36

न बहूनुपरुध्येत यौगपद्येन शात्रवान् ।
साम्ना दानेन भेदेन दण्डेन च पुरन्दर ॥

12.103.37

एकैकमेषां निष्पिष्य शिष्टेषु निपुणं चरेत् ।
न तु शक्तोऽपि मेधावी सर्वानेवाचरेद्बुधः ॥

12.103.38

यदा स्यान्महती सेना हयनागरथाकुला ।
पदातियन्त्रबहुला अनुरक्ता षडङ्गिनी ॥

12.103.39

यदा बहुविधां वृद्धिं मन्येत प्रतियोगतः ।
तदा विवृत्य प्रहरेद्दस्यूनामविचारयन् ॥

12.103.40

न साम दण्डोपनिषत्प्रशस्यते न मार्दवं शत्रुषु यात्रिकं सदा ।
न सस्यघातो न च सन्करक्रिया न चापि भूयः प्रकृतेर्विचारणा ॥

12.103.41

मायाविभेदानुपसर्जनानि वाचं तथैव प्रथमं प्रयोगात् ।
आप्तैर्मनुष्यैरुपचारयेत पुरेषु राष्ट्रेषु च सम्प्रयुक्तान् ॥

12.103.42

पुराऽपि चैताननुसृत्य भूमिपाः पुरेषु भोगानखिलाञ्जयन्ति
पुरेषु नीतिं विहितां यथाविधि प्रयोजयन्तो बलवृत्रसूदन ॥

12.103.43

प्रदाय गूढानि वसूनि नाम प्रच्छिद्य भोगानपहाय च स्वान् ।
दुष्टाः स्वदोषैरिति कीर्तयित्वा पुरेषु राष्ट्रेषु च योजयन्ति ॥

12.103.44

तथैव चान्यैरपि शास्त्रवेदिभिः स्वलन्कृतैः शास्त्रविधानलिङ्गितैः ।
सुशिक्षितैर्भाष्यकथाविशारदैः परेषु कृत्यामुपधारयेच्च ॥
इन्द्र उवाच ।

12.103.45

कानि लिङ्गानि दुष्टस्य भवन्ति द्विजसत्तम ।
कथं दुष्टं विजानीयादेतत्पुष्टो ब्रवीहि मे ॥
बृहस्पतिरुवाच ।

12.103.46

परोक्षमगुणानाह सद्रुणानभ्यसूयति ।
परैर्वा कीर्त्यमानेषु तूष्णीमास्ते पराङ्भुखः ॥

12.103.47

तूष्णीम्भावेऽपि विज्ञेयं न चेद्भवति कारणम् ।
विश्वासं चोष्ठसन्दंशं शिरसश्च प्रकम्पनम् ॥

12.103.48

करोत्यभीक्ष्णं संसृष्टमसंसृष्टश्च भाषते ।
अदृष्टवद्विकुरुते दृष्ट्वा वा नाभिभाषते ॥

12.103.49

पृथगेत्य समश्नाति नेदमद्य यथाविधि ।
आसने शयने याने भावा लक्ष्या विशेषतः ॥

12.103.50

आर्तिरार्ते प्रिये प्रीतिरेतावन्मित्रलक्षणम् ।
विपरीतं तु बोद्धव्यमरिलक्षणमेव तत् ॥

12.103.51

एतान्येव यथोक्तानि बुध्येथास्त्रिदशाधिप ।
पुरुषाणां प्रदुष्टानां स्वभावो बलवत्तरः ॥

12.103.52

इति दुष्टस्य विज्ञानमुक्तं ते सुतसत्तम ।
निशाम्य शास्त्रतत्त्वार्थं यथावदमरेश्वरः ॥
भीष्म उवाच

12.103.53

स तद्वचः शत्रुनिबर्हणे रत स्तथा चकारावितथं बृहस्पतेः ।
चचार काले विजयाय चारिहा वशं च शत्रूननयत्पुरन्दरः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc