भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 11.13

11.13.1

धृतराष्ट्राभ्यनुज्ञातास्ततस्ते कुरुपुङ्गवाः ।
अभ्ययुर्भ्रातरः सर्वे गान्धारीं सहकेशवाः ॥

11.13.2

ततो ज्ञात्वा हतामित्रं धर्मराजं युधिष्ठिरम् ।
गान्धारी पुत्रशोकार्ता शप्तुमैच्छदनिन्दिता ॥

11.13.3

तस्याः पापमभिप्रायं विदित्वा पाण्डवान्प्रति ।
ऋषिर्गन्धवतीपुत्रः प्रागेव समबुध्यत ॥

11.13.4

स गङ्गायामुपस्पृश्य ब्रह्मर्षिः प्रयतः शुचिः ।
तं देशमुपसम्पेदे पाराशर्यो मनोजवः ॥

11.13.5

दिव्येन चक्षुषा ज्ञात्वा मनसाऽनुद्धतेन च ।
सर्वप्राणभृतां भावं सततं स तु बृध्यति ॥

11.13.6

स स्नुषामब्रवीत्काले कल्याणानि महातपाः ।
शापकालमवाक्षिप्य शमकालमुदीरयन् ॥

11.13.7

न कोपः पाण्डवे कार्यो गान्धारि शममाप्नुहि ।
रजो निगृह्यतां चैव शृणु चेदं वचो मम ॥

11.13.8

पुरोक्ता युद्धकाले त्वं पुत्रेण जयमिच्छता ।
जयमाशास्व मे मातर्युध्यमानस्य शत्रुभिः ॥

11.13.9

सा तथा याच्यमाना त्वं युद्धकाले जयैषिणा ।
उक्तवत्यसि कल्याणि यतो धर्मस्ततो जयः ॥

11.13.10

वाचाऽप्यतीते मा क्रोधे मनः कुरु यशस्विनि ।
स्मरामि भाषमाणां हि त्वामहं सत्यवादिनीम् ॥

11.13.11

विग्रहे तुमुले राज्ञां गत्वा परमसंशयम् ।
जितं पाण्डुसुतैर्युद्धे नूनं धर्मस्ततोऽधिकः ॥

11.13.12

क्षमाशीला पुरा भूत्वा साऽद्य न क्षमसे कथम् ।
अधर्मे जहि धर्मज्ञे यतो धर्मस्ततो जयः ॥

11.13.13

सा त्वं धर्मं परिस्मृत्य वाचं चोक्तां मनस्विनी ।
कोपं संयच्छ गान्धारि पाण्डवेषु सुतेषु ते ॥
गान्धार्युवाच ।

11.13.14

भगवन्नाभ्यसूयामि नैतानिच्छामि नश्यतः ।
पुत्रशोकेन तु बलान्मनो विह्वलतीव मे ॥

11.13.15

यथैव कुन्त्या कौन्तेया रक्षितव्यास्तथा मया ।
तथैव धृतराष्ट्रेण रक्षितव्या यथा त्वया ॥

11.13.16

दुःशासनापराधेन शकुनेः सौबलस्य च ।
कर्णदुर्योधनाभ्यां च कृतोऽयं कृरुसन्क्षयः ॥

11.13.17

नापराध्यति बीभत्सुर्न च पार्थो वृकोदरः ।
नकुलः सदेवश्च नैव राजा युधिष्ठिरः ॥

11.13.18

युध्यमाना हि कौरव्याः कृतमामाः परस्परम् ।
निहताः सहिताश्चान्यैस्तत्र नास्त्यप्रियं मम ॥

11.13.19

किं तु कर्माकरोद्भीमो वासुदेवस्य पश्यतः ।
दुर्योधनं समाहूय गदायुर्द्ध महामनाः ॥

11.13.20

शिक्षयाऽभ्यधिकं ज्ञात्वा चरन्तं बहुधा रणे ।
अधो नाभ्याः प्रहृतवांस्तन्मे कोपमवर्धयत् ॥

11.13.21

कथं नु धर्मं धर्मज्ञाः समुद्दिष्टं महात्मभिः ।
त्यजेयुराहवे शूराः प्राणहेतोः कथञ्चनः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc