भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 11.14

11.14.1

तच्छ्रुत्वा वचनं तस्या भीमसेनोऽथ भीतवत् ।
गान्धारीं प्रत्युवाचेदं वचः सानुनयं तदा ॥

11.14.2

अधर्मो यदि वा धर्मस्त्रासात्तत्र मया कृतः ।
आत्मानं त्रातुकामेन तन्मे त्वं क्षन्तुमर्हसि ॥

11.14.3

न हि युद्धेन पुत्रस्ते धर्मेण स महाबलः ।
दुःशक्यः केनचिद्धर्तुमतो विषममाचरम् ॥

11.14.4

अधर्मेण जितः पूर्वं तेन चापि युधिष्ठिरः ।
निकृताश्च सदैव स्म तो विषममाचरम् ॥

11.14.5

सैन्यस्यैकोऽवशिष्टोऽयं गदायुद्धे च वीर्यवान् ।
न त्यक्ष्यति हृतं राज्यमिति वै तत्कृतं मया ॥

11.14.6

एकपत्नीं च पाश्चालीमेकवस्त्रां रजस्वलाम् ।
भवत्या विदितं सर्वमुक्तवान्यत्सुतस्तव ॥

11.14.7

सुयोधनं त्वसंहृत्य न शक्या भूः ससागरा ।
केवला भोक्तुमस्माभिरतश्चैतत्कृतं मया ॥

11.14.8

तच्चाप्यप्रियमस्माकं पुत्रस्ते समुपाचरत् ।
द्रौपद्या यत्सभामध्ये सव्यमूरुमदर्शयत् ॥

11.14.9

तत्रैव वध्यः सोऽस्माकं दुराचारोऽप्ब ते सुतः ।
धर्मराजाज्ञया चैव स्थिताः स्म समये पुरा ॥

11.14.10

वैरमुद्दीपितं राज्ञि पुत्रेण तव यन्महत् ।
क्लेशिताश्च वने नित्यं तत एतत्कृतं मया ॥

11.14.11

वैरस्यास्य गताः पारं हत्वा दुर्योधनं रणे ।
राज्यं युधिष्ठिरे प्राप्ते वयं च गतमन्यवः ॥
गान्धार्युवाच ।

11.14.12

न तस्यैवं वधस्तात यं प्रशंससि मे सुतम् ।
कृतवांश्चापि तत्सर्वं यदिदं भाषसे मयि ॥

11.14.13

हताश्वे नकुले यत्तु वृषसेनेन भारत ।
अपिबः शोणितं सङ्ख्ये दुःशासनशरीरजम् ॥

11.14.14

सद्भिर्विगर्हितं घोरमनार्यजनसेवितम् ।
क्रूरं कर्माकृथास्तस्मात्तदयुक्तं वृकोदर ॥
भीम उवाच ।

11.14.15

हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे ।
शत्रूणां तु प्रहृष्टानां त्रासः सञ्जनितो मया ॥

11.14.16

स प्रतिज्ञामकरवं पिबाम्यसृगरेरिति ।
रुधिरं नातिचक्राम दन्तोष्ठादम्ब मा शुचः ॥

11.14.17

[अन्यस्यापि न पातव्यं रुधिरं किम्पुनः स्वकम् ।
यथैवात्मा तथा भ्राता विशेषो नास्ति कश्चन ॥

11.14.18

वैवस्तितो हि तद्वेद यथावत्कुलनन्दिनि ।
मा कृथा हृदि तन्मातर्न तत्पीतं मयाऽनधे ॥

11.14.19

केशपक्षपरामर्शे द्रौपद्या द्यूतकारिते ।
क्रोधाद्यदब्रवं चाहं तच्च मे हृदि वर्तते ॥

11.14.20

क्षत्रधर्माच्च्युतो राज्ञि भवेयं शाश्वतीः समाः ।
प्रतिज्ञां तामनिस्तीर्य ततस्तत्कृतवानहम् ॥

11.14.21

अनिगृह्य पुरा पुत्रानस्मस्वनपकारिषु ।
न ममार्हसि कल्याणि दोषेण परिशङ्कितुम् ॥
गान्धार्युवाच ।

11.14.22

वृद्धस्यास्य शतं पुत्रान्निघ्नंस्त्वमपराजितः ।
कस्मानाशेषयः कञ्चिद्येनाल्पमपराधितम् ॥

11.14.23

सन्तानमावयोस्तात वृद्धयोर्हृतराज्ययोः ।
नाशेषयः कथं यष्टिमेकां वृद्धयुगस्य वै ॥

11.14.24

शेषे ह्यवस्थिते तात पुत्राणामल्पकेऽपि च ।
मन्ददुःखं भवेदद्य यदि त्वं धर्ममाचरेः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc