भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 11.12

11.12.1

तत एनमुपातिष्ठञ्शौचार्थं परिचारकाः ।
कृतशौचं पुनश्चैनं ओवाच मधुसूदनः ॥

11.12.2

राजन्नधीता वेदास्ते शास्त्राणि विविधानि च ।
श्रुतानि च पुराणानि राजधर्माश्च केवलाः ॥

11.12.3

एवं विद्वान्महाप्राज्ञः समर्थः सन्बलाबले ।
आत्मापराधात्कस्मात्त्वं कुरुषे कोपमीदृशम् ॥

11.12.4

उक्तवांस्त्वां तदैवाहं भीष्मद्रोणौ च भारत ।
विदुरः सञ्जयश्चैव वाक्यं राजन्न तत्कृथाः ॥

11.12.5

स वार्यमाणो नास्माकमकार्षीर्वचनं तदा ।
पाण्डवानधिकाञ्चानन्बले शौर्ये च कौरव ॥

11.12.6

राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते ।
देशकालविभागं च परं श्रयेः स विन्दति ॥

11.12.7

उच्यमानस्तु यः श्रेयो गृह्णीते नो हिताहिते ।
आपदः समनुप्राप्य सोऽभ्येति विलयं किल ॥

11.12.8

ततोऽन्यवृत्तमात्मानं समवेक्षस्व भारत ।
राजंस्त्वं ह्यविधेयात्मा दुर्योधनवशे स्थितः ॥

11.12.9

आत्मापराधादापन्नस्तत्किं भीमं जिघांससि ।
तस्मात्संयच्छ कोपं त्वं स्वमनुस्मृत्य दुष्कृतम् ॥

11.12.10

यस्तु तां स्पर्धया क्षुद्रः पाञ्चालीमानयत्समाम् ।
स हतो भीमसेनेन वैरं प्रतिजिहीर्षता ॥

11.12.11

आत्मनोऽतिक्रमं पश्य पुन्त्रस्य च दुरात्मनः ।
यदनागसि पाण्डूनां परित्यागस्त्वया कृतः ॥
वैशम्पायन उवाच ।

11.12.12

एवमुक्तः स कृष्णेन सर्वं सत्यं जनाधिप ।
उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः ॥

11.12.13

एवमेतन्महाबाहो यथा वदसि माधव ।
पुत्रस्नेहस्तु बलवान्धर्मान्मां समचालयत् ॥

11.12.14

दिष्ट्या तु पुरुषव्याघ्रो बलवान्सत्यक्त्रिमः ।
त्वद्गुप्तो नागमत्कृष्ण भीमो बाह्वन्तरं मम ॥

11.12.15

इदानीं त्वहमव्यग्रो गतमन्युर्गतज्वरः ।
मध्यमं पाण्डवं वीरं स्पष्टुमिच्छामि माधव ॥

11.12.16

हतेषु पारथिवेन्द्रेषु पुत्रेषु निहतेषु च ।
पाण्डुपुत्रेषु मे धर्मः प्रीतिश्चाप्यवतिष्ठते ॥

11.12.17

ततः स भीमं च धनञ्जयं च माद्याश्च पुत्रौ पुरुषप्रवीरौ ।
पस्पर्श गात्रैः प्ररुदन्सुगात्रा-- नाश्वास्य कल्याणमुवाच चैनान् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc