भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 10.5

10.5.1

शुश्रूषुरपि दुर्मेधाः पुरुषोऽनियतेन्द्रियः ।
नालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः ॥

10.5.2

तथैव तावन्मेधावी विनयं यो न शिक्षते ।
न च किञ्चन जानाति सोऽपि धर्मार्थनिश्चयम् ॥

10.5.3

[चिरं ह्यपि जडः शूरः पण्डितं पर्युपास्य ह ।
न स धर्मान्विजानाति दर्वी सूपरसानिव ॥

10.5.4

मुहूर्तमपि तं प्राज्ञः पण्डितं पर्युपास्य हि ।
क्षिप्रं धर्मान्विजानाति जिह्वा सूपरसानिव ॥

10.5.5

शुश्रूषुस्त्वेव मेधावी पुरुषो नियतेन्द्रियः ।
जानीयादागमान्सर्वान्ग्राह्यं च न विरोधयेत् ॥

10.5.6

अनयस्त्ववमानी यो दुरात्मा पापपूरुषः ।
दिष्टमुत्सृज्य कल्याणं करोति बहुपातकम् ॥

10.5.7

नाथवन्तं तु सुहृदः प्रतिषेधन्ति पातकात् ।
निवर्तते तु लक्ष्मीवान्नालक्ष्मीवान्निवर्तते ॥

10.5.8

यथा ह्युच्चावचैर्वाक्यैः क्षिप्तचित्तो नियम्यते ।
तथैव सुहृदा शक्यो नशक्यस्त्ववसीदति ॥

10.5.9

तथैव सुहृदोऽप्राज्ञान्कुर्वाणान्कर्म पापकम् ।
प्राज्ञाः सम्प्रतिषेधन्ति यथाशक्ति पुनःपुनः ॥

10.5.10

स कल्याणे मनः कृत्वा नियम्यात्मानमात्मना ।
कुरु मे वचनं तात येन पश्चान्न तप्स्यसे ॥

10.5.11

न वधः पूज्यते लोके सुप्तानामिह धर्मतः ।
तथैव न्यस्तशस्त्राणां विमुक्तरथवाजिनाम् ॥

10.5.12

ये व ब्रूयुस्तवास्मीति ये च स्युः शरणागताः ।
विमुक्तमूर्धजा ये च ये चापि हतवाहनाः ॥

10.5.13

अद्य स्वप्स्यन्ति पाञ्चाला विमुक्तकवचा विभो ।
विश्वस्ता रजनीं सर्वे प्रेता इव विचेतसः ॥

10.5.14

यस्तेषां तदवस्थानां द्रुह्येत पुरुषोऽनृजुः ।
व्यक्तं स नरके मज्जेदगाधे विपुलेऽप्लुवे ॥

10.5.15

सर्वास्त्रविदुषां लोके श्रेष्ठस्त्वमसि विश्रुतः ।
न च ते जातु लोकेऽस्मिन्सुसूक्ष्ममपि किल्बिषम् ॥

10.5.16

त्वं पुनः सूर्यसङ्काशः श्वोभूत उदिते रवौ ।
प्रकाशे सर्वभूतानां विजेता युधि शात्रवान् ॥

10.5.17

असम्भावितरूपं हि त्वयि कर्म विगर्हितम् ।
शुक्ले रक्तमिव न्यस्तं भवेदिति मतिर्मम ॥
अश्वत्थामोवाच ।

10.5.18

एवमेव यथाऽत्थ त्वमनुशाससि मातुल ।
तैस्तु पूर्वमयं सेतुः समन्ताद्विह्वलीकृतः ॥

10.5.19

प्रत्यक्षं भूमिपालानां भवतां चापि सन्निधौ ।
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ॥

10.5.20

कर्णश्च पतिते चक्रे उत्थास्यन्रथिनां वरः ।
उत्तमे व्यसने मग्नो हतो गाण्डीवधन्वना ॥

10.5.21

तथा शान्तनवो भीष्मो न्यस्तशस्त्रो निरायुधः ।
शिखण्डिनं पुरस्कृत्य हतो गाण्डीवधन्वना ॥

10.5.22

भूरिश्रवा महेष्वासस्तथा प्रायगतो रणे ।
क्रोशतां बूमिपालानां युयुधानेन पातितः ॥

10.5.23

दुर्योधनश्च भीमेन समेत्य गदया मृधे ।
पश्यतां भूमिपालानामधर्मेण निपातितः ॥

10.5.24

एकाकी बहुभिस्तत्र परिवार्य महारथैः ।
अधर्मेण नरव्याघ्रो भीमसेनेन पातितः ॥

10.5.25

विलापो भग्नसक्थस्य यो मे राज्ञः परिश्रुतः ।
वादिकानां कथयतां स मे मर्माणि कृन्तति ॥

10.5.26

एवं चाधार्मिकाः पापाः पाञ्चाला भिन्नसतवः ।
तानेवं भिन्नमर्यादान्किं भवान्न विगर्हति ॥

10.5.27

पितृहन्तॄनहं हत्वा पाञ्चालान्निशि सौप्तिके ।
कामं कीटः पतङ्गो वा जन्म प्राप्य भवामि वै ॥

10.5.28

त्वरे चाहमनेनाद्य यदिदं मे चिकीर्षितम् ।
तस्य मे त्वरमाणस्य कुतो निद्रा कुतः सुखम् ॥

10.5.29

न स जातः पुमाँल्लोके कश्चिन्न स भविष्यति ।
यो मे व्यावर्तयेदेतां वधे तेषां कृतां मतिम् ॥
सञ्जय उवाच ।

10.5.30

एवमुक्त्वा महाराज द्रोणपुत्रः प्रतापवान् ।
एकान्ते योजयित्वाऽश्वान्प्रायादभिमुखः परान् ॥

10.5.31

तमब्रूतां महात्मानौ भोजशारद्वतावुभौ ।
किमयं स्यन्दनो युक्तः किं च कार्यं चिकीर्षितम् ॥

10.5.32

एकसामर्थप्रयातौ स्वस्त्वया सह नरर्षभ ।
समदुःखसुखौ चापि तस्माच्छंसितुमर्हसि ॥

10.5.33

अश्वत्थामा तुं सङ्क्रुद्धः पितुर्वधमनुस्मरन् ।
ताभ्यां तथ्यं तथाऽचख्यौ यदस्यात्मचिकीर्षितम् ॥

10.5.34

हत्वा शतसहस्राणि योधानां निशितैः शरैः ।
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ॥

10.5.35

तं तथैव वधिष्यामि न्यस्तवर्माणमद्य वै ।
पुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा ॥

10.5.36

तथा विनिहतः पापः पाञ्चाल्यः पशुवन्मया ।
शस्त्रेण विजिताँल्लोकान्नाप्नुयादिति मे मतिः ॥

10.5.37

क्षिप्रं सन्नद्वकवचौ सखङ्गावात्तकार्मुकौ ।
मामेवाद्य प्रतीक्षेतां रथवर्यौ परन्तपौ ॥

10.5.38

इत्युक्त्वा रथमास्थाय प्रायादभिमुखः परान् ।
तमन्वगात्कृपो राजन्कृतवर्मा च सात्वतः ॥

10.5.39

ते प्रयाता व्यरोचन्त परानभिमुखास्त्रयः ।
हूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः ॥

10.5.40

ययुश्च शिबिरं तेषां सम्प्रसुप्तजनं विभो ।
द्वारदेशमनुप्राप्य द्रौणिस्तस्थौ महारथः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc