भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 10.4

10.4.1

दिष्ट्या ते प्रतिकर्तव्ये मतिर्जातेयमच्युत ।
न त्वां वारयितुं शक्तो वज्रपाणिरपि स्वयम् ॥

10.4.2

अनुयास्यावहे त्वां तु प्रभाते सहितावुभौ ।
अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः ॥

10.4.3

अहं त्वामनुयास्यामि कृतवर्मा च सात्वतः ।
परानभिमुखं यान्तं रथावास्थाय दंशितौ ॥

10.4.4

आवाभ्यां सहितः शत्रूञ्श्वो निहन्ता समागमे ।
विक्रम्य रथिनां श्रेष्ठ पाञ्चालान्सपदानुगान् ॥

10.4.5

शक्तस्त्वमसि विक्रम्य विश्रमस्व निशामिमाम् ।
चिरं ते जाग्रतस्तात स्वप तावन्निशामिमाम् ॥

10.4.6

विश्रान्तश्च विनिद्रश्च स्वस्थचित्तश्च मानद ।
समेत्य समरे शत्रून्वधिष्यसि न संशयः ॥

10.4.7

न हि त्वां रथिनां श्रेष्ठं प्रगृहीतवरायुधम् ।
जेतुमुत्सहते कश्चिदपि देवेषु पावकिः ॥

10.4.8

कृपेण सहितं यान्तं गुप्तं च कृतवर्मणा ।
को द्रौणिं युधि संरब्धं योधयेदपि देवराट् ॥

10.4.9

ते वयं निशि विश्रान्ता विनिद्रा विगतज्वराः ।
प्रभातायां रजन्यां वै निहनिष्याम शात्रवान् ॥

10.4.10

तव ह्यस्त्राणि दिव्यानि मम चैव न संशयः ।
सात्वतोपि महेष्वासो नित्यं युद्धेषु कोविदः ॥

10.4.11

ते वयं सहितास्तात सर्वाञ्शत्रून्समागतान् ।
प्रसह्य समरे हत्वा प्रीतिं प्राप्स्याम पुष्कलाम् ॥

10.4.12

विश्रमस्व त्वमव्यग्रः स्वप चेमां निशां सुखम् ।
अहं च कृतवर्मा च प्रभाते त्वां नरोत्तमम् ॥

10.4.13

अनुयास्याव सहितौ धन्विनौ परतापनौ ।
रथिनं त्वरया यान्तं रथमास्थाय दंशितौ ॥

10.4.14

स गत्वा शिबिरं तेषां नाम विश्राव्य चाहवे ।
ततः कर्ताऽसि शत्रूणां युध्यतां कदनं महत् ॥

10.4.15

कृत्वा च कदनं तेषां प्रभाते विमलेऽहनि ।
विहरस्व यथा शक्रः सूदयित्वा महासुरान् ॥

10.4.16

त्वं हि शक्तो रणे जेतुं पाञ्चालानां वरूथिनीम् ।
दैत्यसेनामिव क्रुद्धः सर्वदानवसूदनः ॥

10.4.17

मया त्वां सहितं सङ्ख्ये गुप्तं च कृतवर्मणा ।
न सहेत विभुः साक्षाद्वज्रपाणिरपि स्वयम् ॥

10.4.18

न चाहं समरे तात कृतवर्मा न चैव हि ।
अनिर्जित्य रणे पाण्डूनपयास्यामि कर्हिचित् ॥

10.4.19

हत्वा च समरे क्षुद्रान्पाञ्चालान्पाण्डुभिः सह ।
निवर्तिष्यामहे सर्वे हता वा स्वर्गगा वयम् ॥

10.4.20

सर्वोपायैः सहायास्ते प्रभाते वयमाहवे ।
सत्यमेतन्महाबाहो प्रब्रवीमि तवानघ ॥

10.4.21

एवमुक्तस्ततो द्रौणिक्रमातुलेन हितं वचः ।
अब्रवीन्मातुलं राजन्क्रोधादुद्वृत्य लोचने ॥

10.4.22

आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च ।
अर्थांश्चिन्तयतश्चापि कामयानस्य वा पुनः ॥

10.4.23

तदिदं समनुप्राप्तं पश्य मेऽद्य चतुष्टयम् ।
यस्य भागश्चतुर्थो मे स्वप्नमह्नाय नाशयेत् ॥

10.4.24

किं नाम दुःखं लोकेऽस्मिन्पितुर्वधमनुस्मरन् ।
हृदयं निर्दहन्मेऽद्य रात्र्यहानि न शाम्यति ॥

10.4.25

यथा च निहतः पापैः पिता मम विशेषतः ।
प्रत्यक्षमपि ते सर्वं तन्मे मर्माणि कृन्तति ॥

10.4.26

कथं हि मादृशो लोके मुहूर्तमपि जीवति ।
द्रोणहन्तेति यद्वाचः पाञ्चालानां शृणोम्यहम् ॥

10.4.27

धृष्टद्युम्नमहत्वा तु नादं जीवितुमुत्सहे ।
स मे पितुर्वधाद्वध्यः पाञ्चाला ये च सङ्गताः ॥

10.4.28

विलापो भग्नसक्थस्य यस्तु राज्ञो मया श्रुतः ।
स पुनर्हृदयं कस्य क्रूरस्यापि न निर्दहेत् ॥

10.4.29

कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रु नाव्रजेत् ।
नृपतेर्भग्नसक्थस्य श्रुत्वा तादृग्वचः पुनः ॥

10.4.30

यश्चायं मित्रपक्षो मे मयि जीवति निर्जितः ।
शोकं मे वर्धयत्येष वारिवेग इवार्णवम् ॥

10.4.31

एकाग्नमनसो मेऽद्य कुतो निद्रा कुतः सुखम् ॥

10.4.32

वासुदेवार्जुनाभ्यां च तानहं परिरक्षितान् ।
अविषह्यतमान्मन्ये महेन्द्रेणापि सत्तम ॥

10.4.33

न चापि शक्तः संयन्तुमस्मात्कार्यात्कथञ्चन ।
तं न पश्यामि लोकेऽस्मिन्यो मां कोपान्निवर्तयेत् ॥

10.4.34

इति मे निश्चिता बुद्धिरेषा साधुमता मम ॥

10.4.35

वादिकैः कथ्यमानस्तु मित्राणां मे पराभवः ।
पाण्डवानां च विजयटो हृदयं दहतीव मे ॥

10.4.36

अहं तु कदनं कृत्वा शत्रूणामद्य सौप्तिके ।
ततो विश्रमिता चैव स्वप्ता च विगतज्वरः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc