भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 10.6

10.6.1

द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौ ।
अकुर्वतां भोजकृपौ किं सञ्जय वदस्व मे ॥
स्̤अञ्जय उवाच ।

10.6.2

कृतवर्माणमामन्त्र्य कृपं च स महारथः ।
द्रौणिर्मन्युपरीतात्मा शिबिरद्वारमासदत् ॥

10.6.3

तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम् ।
सोऽपश्यद्द्वारमावृत्य तिष्ठन्तं रोमहर्षणम् ॥

10.6.4

वसानं चर्म वैयाघ्रं वसारुधिरविस्रवम् ।
कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम् ॥

10.6.5

बाहुभिः स्वायतैर्भीमैर्नानाप्रहरणोद्यतैः ।
बद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम् ॥

10.6.6

दंष्ट्राकरालवदनं व्यादितास्यं भयानकम् ।
नयनानां सहस्रैश्च विचित्रैरभिभूषितम् ॥

10.6.7

नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव च ।
सर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः ॥

10.6.8

तस्यास्यनासिकाभ्यां च श्रवणाभ्यां च सर्वशः ।
तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन्महार्चिषः ॥

10.6.9

तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराः ।
प्रादुरासन्हृषीकेशाः शतशोऽथ सहस्रशः ॥

10.6.10

तदत्यद्भुतमालोक्य भूतं लोकभयङ्करम् ।
द्रौणिरव्यथितो दिव्यैरस्त्रवर्षैरवाकिरत् ॥

10.6.11

द्रौणिमुक्ताञ्छरांस्तांस्तु तद्भूतं महदग्रसत् ।
उदधेरिव वार्योघान्पावको बडबामुखः ॥

10.6.12

अश्वत्थामा तु सम्प्रेक्ष्य शरौघांस्तान्निरर्थकान् ।
रथशक्तिं मुमोचास्मै दीप्तामग्निशिखामिव ॥

10.6.13

सा तमाहत्य दीप्ताग्रा रथशक्तिरदीर्यत ।
युगान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता ॥

10.6.14

अथ हेमत्सरुं दिव्यं खङ्गमाकाशवर्चसम् ॥
कोशात्समुद्बबर्हाशु बिलाद्दीप्तमिवोरगम् ॥

10.6.15

ततः खङ्गवरं धीमान्भूताय प्राहिणोत्तदा ।
स तदासाद्य भूतं वै विलयं तूलवद्ययौ ॥

10.6.16

ततः स कुपितो द्रौणिरिन्द्रकेतुनिभां गदाम् ।
ज्वलन्तीं प्राहिणोत्तस्मै भूतं तामपि चाग्रसत् ॥

10.6.17

ततः सर्वायुधाभावे वीक्षमाणस्ततस्ततः ।
अपश्यत्कृतमाकाशमनाकाशं जनार्दनैः ॥

10.6.18

तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः ।
अचिन्तयत्सुसन्त्रस्तः कृपभोजवचः स्मरन् ॥

10.6.19

ब्रुवतामप्रियं पथ्यं सुहृदां न शृमोति यः ।
स शोचत्यापदं प्राप्य थाऽहमवमत्य तौ ॥

10.6.20

शास्त्रदृष्टानविद्वान्यः समतीत्य जिघांसति ।
स पथः प्रच्युतो धर्म्यात्कुपथे प्रतिहन्यते ॥

10.6.21

गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा ।
वृद्धबालजडान्धेषु सुप्तभीतोत्थितेषु च ॥

10.6.22

मत्तोन्मत्तप्रमत्तेषु न शस्त्राणि च मातयेत् ।
इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा ॥

10.6.23

सोऽहमुत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम् ।
अमार्गेणैवमारभ्य घोरामापदमागतः ॥

10.6.24

तां चापदं घोरतरां प्रवदन्ति मनीषिणः ।
यदुद्यम्य महत्कृत्यं भयादपि निवर्तते ॥

10.6.25

अशक्यं चैव कः कर्तुं शक्तः शक्तिबलादिह ।
न हि दैवाद्गरीयो वै मानुष्यं किञ्चिदिष्यते ॥

10.6.26

मानुष्यं कुर्वतः कर्म यदि दैवान्न सिध्यति ।
स पथः प्रच्युतो धर्म्याद्विपदं प्रतिपद्यते ॥

10.6.27

प्रतिज्ञानं ह्यविज्ञानं प्रवदन्ति मनीषिणः ।
यदारभ्य क्रियां काञ्चिद्भयादिह निवर्तते ॥

10.6.28

तदिदं दुष्प्रणीतेन भयं मा समुपस्थितम् ।
न हि द्रोणसुतः सङ्ख्ये निवर्तेत कथञ्चन ॥

10.6.29

इदं च सुमहद्भूतं दैवदण्डमिवोद्यतम् ।
न चैतदभिजानामि चिन्तयन्नपि सर्वथा ॥

10.6.30

ध्रुवं येयमधर्मेण प्रहिता कलुषा मतिः ।
तस्याः फलमिदं घोरं प्रतिघाताय कल्पते ॥

10.6.31

तदिदं दैवविहितं मम सङ्ख्ये निवर्तनम् ।
नान्यत्र दैवादुद्यन्तुमिह शक्यं कथञ्चन ॥

10.6.32

सोऽहमद्य महादेवं प्रपद्ये शरणं विभुम् ।
दैवदण्डमिमं घोरं स हि मे नाशयिष्यति ॥

10.6.33

कपर्दिनं प्रपद्येऽहं देवदेवमुमापतिम् ।
कपालमालिनं रुद्रं भगनेत्रहरं हरम् ॥

10.6.34

स हि देवोऽत्यगाद्देवांस्तपसा विक्रमेण च ।
तस्माच्छरणमभ्येष्ये गिरिशं शूलपाणिनम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc