भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.168

1.168.1

युधिष्ठिरवचः श्रुत्वा कुन्तीमङ्गेऽधिरोप्य सा ।
भीमार्जुनान्तरगता यमाभ्यां च पुरस्कृता ॥

1.168.2

तिर्यग्युधिष्ठिरे याति हिडिम्बा भीमगामिनी ।
शालिहोत्रसरो रम्यमाससाद जलार्थिनी ॥

1.168.3

वनस्पतितलं गत्वा परिमृज्य गृहं यथा ।
पाण्डवानां च वासं सा कृत्वा पर्णमयं तथा ॥

1.168.4

आत्मनश्च तथा कुन्त्या एकोद्देशे चकार सा ।
पाण्डवास्तु ततः स्नात्वा शुद्धाः सन्ध्यामुपास्य च ॥

1.168.5

तृषिताः क्षुत्पिपासार्ता जलमात्रेण वर्तयन् ।
शालिहोत्रस्ततो ज्ञात्वा क्षुधार्तान्पाण्डवांस्तदा ॥

1.168.6

मनसा चिन्तयामास पानीयं भोजनं महत् ।
ततस्ते पाण्डवाः सर्वे विश्रान्ताः पृथया सह ॥

1.168.7

यथा जतुगृहे वृत्तं राक्षसेन कृतं च यत् ।
कृत्वा कथा बहुविधाः कथान्ते पाण्डुनन्दनम् ॥

1.168.8

कुन्ती राजसुता वाक्यं भीमसेनमथाब्रवीत् ।
यथा पाण्डुस्तथा मान्यस्तव ज्येष्ठो युधिष्ठिरः ॥

1.168.9

अहं धर्मविदाऽनेन मान्या गुरुतरा तव ।
तस्मात्पाण्डुहितार्थं मे युवराज हितं कुरु ॥

1.168.10

निकृता धार्तराष्ट्रेण पापेनाकृतबुद्धिना ।
दुष्कृतस्य प्रतीकारं न पश्यामि वृकोदर ॥

1.168.11

तस्मात्कतिपयाहेन योगक्षेमं भविष्यति ।
क्षेमं दुर्गमिमं वासं वत्स्याम हि यथा वयम् ॥

1.168.12

इदमन्यन्महदुःखं धर्मकृच्छ्रं वृकोदर ।
दृष्ट्वैव त्वां महाप्राज्ञ अनङ्गाभिप्रचोदिता ॥

1.168.13

युधिष्ठिरं च मां चैव वरयामास धर्मतः ।
धर्मार्थं देहि पुत्रं त्वं स नः श्रेयः करिष्यति ॥

1.168.14

प्रतिवाक्यं तु नेच्छामि आवयोर्वचनं कुरु ।
वैशम्पायन उवाच ।
तथेति तत्प्रतिज्ञाय भीमसेनोऽब्रवीदिदम् ॥

1.168.15

शासनं ते करिष्यामि वेदशासनमित्यपि ।
समक्षं भ्रातृमध्ये तु तां चोवाच स राक्षसीम् ॥

1.168.16

शृणु राक्षसि सत्येन समयं ते वदाम्यहम् । यावत्कालेन भवति पुत्रस्योत्पादनं शुभे ॥

1.168.17

तावत्कालं चरिष्यामि त्वया सह सुमध्यमे ।
विशेषतो मत्सकाशे मा प्रकाशय नीचताम् ॥

1.168.18

उत्तमस्त्रीगुणोपेता भजेथा वरवर्णिनि ।
वैशम्पायन उवाच ।
सा तथेति प्रतिज्ञाय हिडिम्बा राक्षसी तथा ॥

1.168.19

गताऽहनि निवेशेषु भोज्यं राजार्हमानयत् ।
सा कदाचिद्विहारार्थं हिडिम्बा कामरूपिणी ॥

1.168.20

भीमसेनमुपादाय ऊर्ध्वमाचक्रमं तदा ।
शैलशृङ्गेषु रम्येषु देवतायतनेषु च ॥

1.168.21

मृगपक्षिविघृष्टेषु रमणीयेषु सर्वेषु ।
कृत्वा सा परमं रूपं सर्वाभरणभूषिता ॥

1.168.22

सञ्जल्पन्ती सुमधुरं रमयामास पाण्डवम् ।
तथैव वनदुर्गेषु पर्वतद्रुमसानुषु ॥

1.168.23

सरस्तु रमणीयेषु पद्मोत्पलवनेषु च ।
नदीद्वीपप्रदेशेषु वैडूर्यसिकतेषु च ॥

1.168.24

देवारण्येषु पुण्येषु तथा पर्वतसानुषु ।
सुतीर्थवनतोयासु तथा गिरिनदीषु च ॥

1.168.25

सागरस्य प्रदेशेषु भणिहेमयुतेषु च ।
गुह्यकानां निवासेषु कुलपर्वतसानुषु ॥

1.168.26

सर्वर्तुफलवृक्षेषु मानसेषु वनेषु च ।
बिभ्रती परमं रूपं रमयामास पाण्डवम् ॥

1.168.27

यथा सुमोदते स्वर्गे सुकृत्यप्सरसा सह ।
सुतरां परमप्रीतस्तथा रेमे महाद्युतिः ॥

1.168.28

शुभं हि जघनं तस्याः सवर्णमणिमेखलम् । न ततर्प तदा मृद्गन्भीमसेनो मुहुर्मुहुः ॥

1.168.29

रमयन्ती ततो भीमं तत्रतत्र मनोजवा ।
सा रेमे तेन संहर्षात्तृप्यन्ती च मुहुर्मुहुः ॥

1.168.30

अहस्सु रमयन्ती सा निशाकालेषु पाण्डवम् ।
आनीय वै स्वके गेहे दर्शयामास मातरम् ॥

1.168.31

भ्रातृभिः सहितो नित्यं स्वपते पाण्डवस्तथा ।
कुन्त्याः परिचरन्ती सा तस्याः पार्श्वेवसन्निशां ॥

1.168.32

कामांश्च मुखवासादीनानयिष्यति भोजनम् ।
तस्यां रात्र्यां व्यतीतायामाजगाम महाव्रतः ॥

1.168.33

पाराशर्यो महाप्राज्ञो दिव्यदर्शी महातपाः । तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं शुभम् ।
तस्थुः प्राञ्जलयः सर्वे सस्नुषा चैव माधवी ॥
श्रीव्यास उवाच ।

1.168.34

मयेदं मनसा पूर्वं विदितं भरतर्षभाः ।
यथा स्थितैरधर्मेण धार्तराष्ट्रौर्विवासिताः ॥

1.168.35

तद्विदित्वाऽस्मि सम्प्राप्तश्चिकीर्ष्वै परं हितम् ।
न विषादो हि वः कार्यः सर्वमेतत्सुखाय वः ॥

1.168.36

सुहृद्वियोजनं कर्म पुराकृतमरिन्दमाः ।
तस्य सिद्धिरियं प्राप्ता मा शोचत परन्तपाः ॥

1.168.37

समाप्ते दुष्कृते चैव यूयं ते वै न संशयः ।
स्वराष्ट्रे विहरिष्यन्तो भविष्यथ सबान्धवाः ॥

1.168.38

दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः ।
तस्मादभ्यधिकः स्नेहो युष्मासु मम सम्प्रति ॥

1.168.39

स्नेहपूर्वं चिकीर्षामि हितं यत्तन्निबोधत ।
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ॥

1.168.40

एतद्वै शालिहोत्रस्य तपसा निर्मितं सरः ।
रमणीयमिदं तोयं क्षुत्पिपासाश्रमापहम् ॥

1.168.41

कार्यार्थिनस्तु षण्मासान्विहरध्वं यथासुखम् ॥
वैशम्पायन उवाच ।

1.168.42

एवं स तान्समाश्वास्य व्यासः पार्थानरिन्दमान् ।
स्नेहाच्च सम्परिष्वज्य कुन्तीमाश्वासयत्प्रभुः ॥

1.168.43

स्नुषे मा रोद मा रोदेत्येवं व्यासोऽब्रवीद्वचः ।
जीवपुत्रे सुतस्तेऽयं धर्मनित्यो युधिष्ठिरः ॥

1.168.44

पृथिव्यां पार्थैवान्सर्वान्प्रशासिष्यति धर्मराट् ।
धर्मेण जित्वा पृथिवीमखिलां धर्मकृद्वशी ॥

1.168.45

स्थापयित्वा वशे सर्वां सपर्वतवनां शुभाम् ।
भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयम् ॥

1.168.46

पुत्रास्तव च माद्र्याश्च पञ्चैते लोकविश्रुताः ।
स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा ॥

1.168.47

यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम् ।
राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः ॥

1.168.48

अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च ।
पितृपैतामहं राज्यमहारिष्यन्ति ते सुताः ॥

1.168.49

स्नुषा कमलपत्राक्षी नाम्ना कमलपालिका ।
वशवर्तिनी तु भीमस्य पुत्रमेषा जनिष्यति ॥

1.168.50

तेन पुत्रेण कृच्छ्रेषु भविष्यथ च तारिताः ।
इह मासं प्रतीक्षध्वमागमिष्याम्यहं पुनः ॥

1.168.51

देशकालौ विदित्वैवं यास्यध्वं परमां मुदम् ॥
वैशम्पायन उवाच ।

1.168.52

स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो जनाधिप ।
जगाम भगवान्व्यासो यथागतमृषिः प्रभुः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc