भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.167

1.167.1

सा तानेवापतत्तूर्णं भगिनी तस्य रक्षसः ।
अब्रुवाणा हिडिम्बा तु राक्षसी पाण्डवान्प्रति ॥

1.167.2

अभिवाद्य ततः कुन्तीं धर्मराजं च पाण्डवम् ।
अभिपूज्य ततः सर्वान्भीमसेनमभाषत ॥

1.167.3

अहं ते दर्शादेव मन्मथस्य वशं गता ।
क्रूरं भ्रातृवचो हित्वा सा त्वामेवानिरुन्धती ॥

1.167.4

राक्षसे रौद्रसङ्काशे तवापश्यं विचेष्टितम् । अहं शुश्रूषुरिच्छेयं तव गात्रं निषेवितुम् ॥
भीमसेन उवाच ।

1.167.5

स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् ।
हिडिम्बे व्रज पन्थानं त्वमिमं भ्रातृसेवितम् ॥
युधिष्ठिर उवाच ।

1.167.6

क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः ।
शरीरगुप्त्यभ्यधिकं धर्मं गोपाय पाण्डव ॥

1.167.7

वधाभिप्रायमायान्तमवधीस्त्वं महाबलम् ।
रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति ॥
वैशम्पायन उवाच ।

1.167.8

हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः ।
युधिष्ठिरं तु कौन्तेयमिदं वचनमब्रवीत् ॥

1.167.9

आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम् ।
तदिदं मामनुप्राप्तं भीमसेनकृते शुभे ॥

1.167.10

सोढं तत्परमं दुःखं मया कालप्रतीक्षया ।
सोऽयमभ्यागतः कालो भविता मे सुखोदयः ॥

1.167.11

मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा ।
वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे ॥

1.167.12

वीरेणाऽहं तथाऽनेन त्वया चापि यशस्विनी ।
प्रत्याख्याता न जीवामि सत्यमेतद्ब्रवीमि ते ॥

1.167.13

यदर्हसि कृपां कर्तुं मयि त्वं वरवर्णिनि ।
मत्वा मूढेति तन्मां त्वं भक्ता वाऽनुगतेति वा ॥

1.167.14

भर्त्राऽनेन महाभागे संयोजय सुतेन ह । समुपादाय गच्छेयं यथेष्टं देवरूपिणम् ।
पुनश्चैवानयिष्यामि विस्रम्भं कुरु मे शुभे ॥

1.167.15

अहं हि समये लप्स्ये प्राग्भ्रातुरपर्वजनात् ।
ततः सोऽभ्यपतद्रात्रौ भीमसेनजिघांसया ॥

1.167.16

यथायथा विक्रमते यथारिमधितिष्ठति ।
तथातथा समासाद्य पाण्डवं काममोहिता ॥

1.167.17

न यातुधान्यहं त्वार्ये न चास्मि रजनीचरी ।
ईशा रक्षस्स्वसा ह्यस्मि राज्ञि सालकटङ्कटी ॥

1.167.18

पुत्रेण तव संयुक्ता युवतिर्देववर्णिनी ।
सर्वान्वोऽहमुपस्थास्ये पुरस्कृत्य वृकोदरम् ॥

1.167.19

अप्रमत्ता प्रमत्तेषु शुश्रूषुरसकृत्त्वहम् । वृजिने तारयिष्यामि दासीवच्च नरर्षभाः ॥

1.167.20

पृष्ठेन वो वहिष्यामि विमानं सुकृतानिव ।
यूयं प्रसादं कुरुत भीमसेनो भजेत माम् ॥

1.167.21

एवं ब्रुवन्ती ह तथा प्रत्याख्याता क्रियां प्रति ।
भूम्यां दुष्कृतिनो लोकान्गमिष्येऽहं न संशयः ॥

1.167.22

अहं हि मनसा ध्यात्वा सर्वं वेत्स्यामि सर्वदा । आपन्निस्तरणे प्राणान्धारयिष्ये न केनचित् ॥

1.167.23

सर्वमावृत्य कर्तव्यं धर्मं समनुपश्यता ।
आपत्सु यो धारयति स वै धर्मविदुत्तमः ॥

1.167.24

व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते ।
पुम्यात्प्राणान्धारयति पुण्यं वै प्राणधारणम् ॥

1.167.25

येन केनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते ।
महतोऽत्र स्त्रियं कामाद्वाधितां त्राहि मामपि ॥

1.167.26

धर्मार्थकाममोक्षेषु दयां कुर्वन्ति साधवः ।
तत्तु धर्ममिति प्राहुर्मुनयो धर्मवत्सलाः ॥

1.167.27

दिव्यज्ञानेन जानामि व्यतीतानागतानहम् ।
तस्माद्वक्ष्यामि वः श्रेय आसन्नं सर उत्तमम् ॥

1.167.28

अद्यासाद्य सरः स्नात्वा विश्रम्य च वनस्पतौ ।
श्वः प्रभाते महद्भूतं प्रादुर्भूतं जगत्पतिम् ॥

1.167.29

व्यासं कमलपत्राक्षं दृष्ट्वा शोकं विहास्यथ ।
धार्तराष्ट्राद्विवासं च दहनं वारणावते ॥

1.167.30

त्राणं च विदुरात्तुभ्यं विदितं ज्ञानचक्षुषा ।
आवासे शालिहोत्रस्य स वो वासं विधास्यति ॥

1.167.31

वर्षवातातपसहो ह्ययं पुण्यो वनस्पतिः ।
पीतमात्रे तु पानीये क्षुत्पिपासे विनश्यतः ॥

1.167.32

तपसा शालिहोत्रेण सरो वृक्षश्च निर्मितः ।
कादम्बाः सारसा हंसाः कुरर्यः कुररैः सह ॥

1.167.33

रुवन्ति मधुरं गीतं गान्धर्वस्वनमिश्रितम् ।
वैशम्पायन उवाच ।
तस्यास्तद्वचनं श्रुत्वा कुन्ती वचनमब्रवीत् ॥

1.167.34

युधिष्ठिरं महाप्राज्ञं सर्वधर्मविशारदम् ।
कुन्त्युवाच ।
त्वं हि धर्मभृतां श्रेष्ठो मयोक्तं शृणु भारत ॥

1.167.35

राक्षस्येषा हि वाक्येन धर्मं वदति साधु वै ।
भावेन दुष्टा भीमं वै किं करिष्यति राक्षसी ॥

1.167.36

भजतां पाण्डवं वीरमपत्यार्थं यदीच्छसि ।
युधिष्ठिर उवाच ।
एवमेतद्यथाऽत्थ त्वं हिडिम्बे नात्र संशयः ॥

1.167.37

स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे । नित्यं कृताह्निका स्नाता कृतशौचा सुरूपिणी ॥

1.167.38

स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् ।
भीमसेनं भजेथास्त्वमुदिते वै दिवाकरे ॥

1.167.39

अहस्सु विहरानेन यथाकामं मनोजवा ।
अयं त्वानयितव्यस्ते भीमसेनः सदा निशि ॥

1.167.40

प्राक्सन्ध्यातो विमोक्तव्यो रक्षितव्यश्च नित्यशः ।
एवं रमस्व भीमेन यावद्गर्भस्य वेदनम् ॥

1.167.41

एष ते समयो भद्रे शुश्रूषा चाप्रमत्तया ।
नित्यानुकूलया भूत्वा कर्तव्यं शोभनं त्वया ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc