भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.169

1.169.1

गते भगवति व्यासे पाण्डवा विगतज्वराः ।
ऊषुस्तत्र च षण्मासान्वटवृक्षे यथासुखम् ॥

1.169.2

शाकमूलफलाहारास्तपः कुर्वन्ति पाण्डवाः ।
अनुज्ञाता महाराज ततः कमलपालिका ॥

1.169.3

रमयन्ती सदा भीमं तत्रतत्र मनोजवा ।
दिव्याभरणवस्त्रा हि दिव्यस्रगनुलेपना ॥

1.169.4

एवं भ्रातॄन्सप्त मासान्हिडिम्बाऽवासयद्वने ।
पाण्डवान्भीमसेनार्थे राक्षसी कामरूपिणी ॥

1.169.5

सुखं स विहरन्भीमस्तत्कालं पर्यणामयत् ।
ततोऽलभत सा गर्भं राक्षसी कामरूपिणी ॥

1.169.6

अतृप्ता भीमसेनेन सप्तमासोपसन्गता । प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलात् ॥

1.169.7

विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् ।
भीमरूपं सुताम्राक्षं तीक्ष्णदंष्ट्रं महारथम् ॥

1.169.8

महेष्वासं महावीर्यं महासत्वं महाजवम् ।
महाकायं महाकालं महाग्रीवं महाभुजम् ॥

1.169.9

अमानुषं मानुषजं भीमवेगमरिन्दमम् ।
पिशाचकानतीत्यान्यान्बभूवाति स मानुषान् ॥

1.169.10

बालोऽपि विक्रमं प्राप्तो मानुषेषु विशाम्पते ।
सर्वास्त्रेषु वरो वीरः प्रकाममभवद्बली ॥

1.169.11

सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च ।
कामरूपधराश्चैव भवन्ति बहुरूपिकाः ॥

1.169.12

प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा ।
मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ॥

1.169.13

घटोहास्योत्कच इति माता तं प्रत्यभाषत ।
अभवत्तेन नामास्य घटोत्कच इति स्म ह ॥

1.169.14

अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः ।
तेषां च दयितो नित्यमात्मनित्यो बभूव ह ॥

1.169.15

घटोत्कचो महाकायः पाण्डवान्पृथया सह ।
अभिवाद्य यथान्यायमब्रवीच्च प्रभाष्य तान् ॥

1.169.16

किं करोम्यहमार्याणां निःशङ्कं वदतानघाः ।
तं ब्रुवन्तं भैमसेनिं कुन्ती वचनमब्रवीत् ॥

1.169.17

त्वं कुरूणां कुले जातः साक्षाद्भीमसमो ह्यसि ।
ज्येष्ठः पुत्रोसि पञ्चानां साहाय्यं कुरु पुत्रक ॥
वैशम्पायन उवाच ।

1.169.18

पृथयाप्येवमुक्तस्तु प्रणम्यैव वचोऽब्रवीत् । यथा हि रावणो लोके इन्द्रजिच्च महाबलः ।
वर्ष्मवीर्यसमो लोके विशिष्टश्चाभवं नृषु ॥

1.169.19

कृत्यकाल उपस्थास्ये पितॄनिति घटोत्कचः ।
आमन्त्र्य रक्षसां श्रेष्ठः प्रतस्थे चोत्तरां दिशम् ॥

1.169.20

स हि सृष्टो भगवता शक्तिहेतोर्महात्मना ।
वर्णस्याप्रतिवीर्यस्य प्रतियोद्धा महारथः ॥
भीम उवाच ।

1.169.21

सह वासो मया जीर्णस्त्वया कमलपालिके ।
पुनर्द्रक्ष्यसि राज्यस्थानित्यभाषत तां तदा ॥
हिडिम्बोवाच ।

1.169.22

पदा मां संस्मरेः कान्त रिरंसू रहसि प्रभो ।
तदा तव वशं भूय आगन्तास्म्याशु भारत ॥

1.169.23

इत्युक्त्वा सा जगामाशु भावमासज्य पाण्डवे ।
हिडिम्बा समयं स्मृत्वा स्वां गतिं प्रत्यपद्यत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc