भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.166

1.166.1

प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् ।
विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह ॥

1.166.2

ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसम्पदा ।
उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शैनः ॥

1.166.3

कस्य त्वं सुरगर्भाभे कावाऽसि वरवर्णिनि ।
केन कार्येण सम्प्राप्ता कुतश्चागमनं तव ॥

1.166.4

यदि वाऽस्य वनस्य त्वं देवता यदि वाऽप्सराः ।
आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि ॥
हिडिम्बोवाच ।

1.166.5

यदेतत्पश्यसि वनं नीलमेघनिं महत् ।
निवासो राक्षसस्यैष हिडिम्बस्य ममैव च ॥

1.166.6

तस्य मां राक्षसेन्द्रस्य भगिनीं विद्दि भामिनि ।
भ्रात्रा सम्प्रेषितामार्ये त्वां सपुत्रां जिघांसता ॥

1.166.7

क्रूरबुद्धेरहं तस्य वचनादागता त्विह ।
अद्राक्षं नवहेमाभं तव पुत्रं महाबलम् ॥

1.166.8

ततोऽहं सर्वभूतानां भावे विचरता शुभे ।
चोदिता तव पुत्रार्थं मन्मथेन वशानुगा ॥

1.166.9

ततो वृतो मया भर्ता तव पुत्रो महाबलः ।
अपनेतुं च यतितो न चैव शकितो मया ॥

1.166.10

चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः ।
स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान् ॥

1.166.11

स तेन मम कान्तेन तव पुत्रेण धीमता ।
बलादितो विनिष्पिष्य व्यपनीतो महात्मना ॥

1.166.12

विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् ।
पश्यैवं युधि विक्रान्तावेतौ च नरराक्षसौ ॥
वैशम्पायन उवाच ।

1.166.13

तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः ।
अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान् ॥

1.166.14

तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम् ।
काङ्क्षमाणौ जयं चैव सिंहाविव बलोत्कटौ ॥

1.166.15

अथान्योन्यं समाश्लिष्य विकर्षन्तौ पुनःपुनः ।
दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः ॥

1.166.16

वसुधारेणुसंवीतौ वसुधाधरसन्निभौ ।
बभ्राजतुर्यथा शैलौ नीहारेणाभिसंवृतौ ॥

1.166.17

राक्षसेन तदा भीमं क्लिश्यमानं निरीक्ष्य च ।
उवाचेदं वचः पार्थः प्रहसञ्छनकैरिव ॥

1.166.18

भीम माभैर्महाबाहो न त्वां बुध्यामहे वयम् ।
समेतं भीमरूपेण रक्षसा श्रमकर्शिताः ॥

1.166.19

साहाय्येऽस्मि स्थितः पार्थ पातयिष्यामि राक्षसम् ।
नकुलः सहदेवश्च मातरं गोपयिष्यतः ॥
भीम उवाच ।

1.166.20

उदासीनो निरीक्षस्व न कार्यः सम्भ्रमस्त्वया ।
न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः ॥

1.166.21

भुजयोरन्तरं प्राप्तो भीमसेनस्य राक्षसः ।
अमृत्वा पार्थवीर्येण मृतो मा भूदिति ध्वनिः ॥

1.166.22

अयमस्मांस्तु नो हन्याज्जातु पार्थ राक्षसः । जीवन्तं न प्रमोक्ष्यामि मा भैषीर्भरतर्षभ ॥
अर्जुन उवाच ।

1.166.23

पूर्वरात्रे प्रयुक्तोऽसि भीम क्रूरेण रक्षसा । क्षपा व्युष्टा न चेदानीं समाप्तोसीन्महारणः ॥

1.166.24

किमेनन चिरं भीम जीवता पापरक्षसा ।
गन्तव्ये न चिरं स्थातुमिह शक्यमरिन्दम ॥

1.166.25

पुरा संरज्यते प्राची पुरा सन्ध्या प्रवर्तते ।
रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्त्युत ॥

1.166.26

त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् ।
पुरा विकुरुते मायां भुजयोः सारमर्पय ॥

1.166.27

माहात्म्यमात्मनो वेत्थ नराणां हितकाम्यया ।
रक्षो जहि यथा शक्रः पुरा वृत्रं महाबलम् ॥

1.166.28

अथवा मन्यसे भारं त्वमिमं राक्षसं युधि ।
आतिष्ठे तव साहाय्यं शीघ्रमेव तु हन्यताम् ॥

1.166.29

अथवा त्वहमेवैनं हनिष्यामि वृकोदर । कृतकर्मा परिश्रान्तः साधु तावदुपारम ॥
वैशम्पायन उवाच ।

1.166.30

अर्जुनेनैवमुक्तस्तु भीमो रोषाज्ज्वलन्निव ।
बलमाहारयामास यद्वायोर्जगतः क्षये ॥

1.166.31

ततस्तस्याम्बुदाभस्य भीमो रोषात्तु रक्षसः ।
अत्क्षिप्याभ्रामयद्देहं तूर्णं शतगुणं तदा ॥

1.166.32

इति चोवाच सन्क्रुद्धो भ्रामयन्राक्षसीं तनुम् । भीमसेनो महाबाहुरभिगर्जन्मुहुर्मुहुः ॥
भीम उवाच ।

1.166.33

नरमांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः ।
वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ॥

1.166.34

क्षेममद्य करिष्यामि यथा वनमकण्टकम् ।
न पुनर्मानुषान्हत्वा भक्षयिष्यसि राक्षस ॥
वैशम्पायन उवाच ।

1.166.35

इत्युक्त्वा भीमसेनस्तं निष्पिष्य धरणीतले ।
बाहुभ्यामवपीड्याशु पशुमारममारयत् ॥

1.166.36

स मार्यमाणो भीमेन ननाद विपुलं स्वनम् ।
पूरयंस्तद्वनं सर्वं जलार्द्रे इव दुन्दुभिः ॥

1.166.37

बाहुभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः ।
समुद्धाम्य शिरश्चास्य सग्रीवं तदपाहरत् ॥

1.166.38

ततो भित्त्वा शिरश्चास्य सग्रीवं तदुदाक्षिपत् ।
तस्य निष्कर्णनयनं निर्जिह्वं रुधिरोक्षितम् ॥

1.166.39

प्राविद्धं भीमसेनेन शिरो विदशनं बभौ ।
प्रसारितभुजोद्धृष्टो भिन्नमांसत्वगन्तरः ॥

1.166.40

कबन्धभूतस्तत्रासीद्दनुर्वज्रहतो तथा ।
हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः ॥

1.166.41

हिडिम्बा सा च सम्प्रेक्ष्य निहतं राक्षसं रणे ।
अदृश्याश्चैव ये स्वस्स्थाः समेताः सर्षिचारणाः ॥

1.166.42

पूजयन्ति स्म तं हृष्टाः साधुसाध्विति पाण्डवम् ।
भ्रातरश्चापि संहृष्टा युधिष्ठिरपुरोगमाः ॥

1.166.43

अपूजयन्नरव्याघ्रं भीमसेनमरिन्दमम् । अभिपूज्य महात्मानं भीमं भीमपराक्रमम् ।
पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम् ॥

1.166.44

अदूरे नगरं मन्ये वनादस्मादहं विभो ।
शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः ॥

1.166.45

ततः सर्वे तथेत्युक्त्वा मात्रा सह महारथाः ।
प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc