भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.165

1.165.1

तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः ।
अवतीर्य द्रुमात्तस्मादाजगामाशु पाण्डवान् ॥

1.165.2

लोहिताक्षो महाबाहुरूर्ध्वकेशो महाननः ।
मेघसङ्घातवर्ष्मा च तीक्ष्णदंष्ट्रो भयानकः ॥

1.165.3

तलं तलेन संहत्य बाहू विक्षिप्य चासकृत् ।
उद्वृत्तनेत्रः सन्क्रुद्धो दन्तान्दन्तेषु निष्कुषन् ॥

1.165.4

कोऽद्य मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः ।
न बिभेति हिडिम्बी च प्रेषिता किमनागता ॥
वैशम्पायन उवाच ।

1.165.5

तमापतन्तं दृष्ट्वै तथा विकृतदर्शनम् ।
हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः ॥

1.165.6

आपतत्येष दुष्टात्मा सन्क्रुद्धः पुरुषादकः ।
साऽहं त्वां भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु ॥

1.165.7

अहं कामगमा वीर रक्षोबलसमन्विता ।
आरुहेमां मम श्रोणिं नेष्यामि त्वां विहायसा ॥

1.165.8

प्रबोधयैतान्संसुप्तान्मातरं च परन्तप ।
सर्वानेव गमिष्याभि गृहीत्वा वो विहायसा ॥
भीम उवाच ।

1.165.9

मा भैस्त्वं पृथुसुश्रोणि नैष कश्चिन्मयि स्थिते ।
अहमेनं हनिष्यामि पश्यन्त्यास्ते सुमध्यमे ॥

1.165.10

नायं प्रतिबलो भीरु राक्षसापसदो मम ।
सोढुं युधि परिस्पन्दमथवा सर्वराक्षसाः ॥

1.165.11

पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ ।
ऊरू परिघसङ्काशौ संहतं चाप्युरो महत् ॥

1.165.12

विक्रमं मे यथेन्द्रस्य साऽद्य द्रक्ष्यसि शोभने ।
माऽवमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम् ॥
हिडिम्बोवाच ।

1.165.13

नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम् ।
दृष्टप्रभावस्तु मया मानुषेष्वेव राक्षसः ॥
वैशम्पायन उवाच ।

1.165.14

तथा सञ्जल्पतस्तस्य भीमसेनस्य भारत ।
वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः ॥

1.165.15

अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः ।
स्रग्दामपूरितशिखां समग्रेन्दुनिभाननाम् ॥

1.165.16

सुभ्रूनासाक्षिकेशान्तां सुकुमारनखत्वचम् ।
सर्वाभरणसंयुक्तां सुसूक्ष्माम्बरधारिणीम् ॥

1.165.17

तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम् ।
पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः ॥

1.165.18

सन्क्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम ।
उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत् ॥

1.165.19

को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः ।
न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता ॥

1.165.20

धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि ।
पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि ॥

1.165.21

यानिमानाश्रिताऽकार्षीर्विप्रियं समुहन्मम ।
एष तानद्य वै सर्वान्हनिष्यामि त्वया सह ॥
वैशम्पायन उवाच ।

1.165.22

एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः ।
वधायाभिपपातैनान्दन्तैर्दन्तानुपस्पृशन् ॥

1.165.23

गर्जन्तमेवं विजने भीमसेनोऽभिवीक्ष्य तम् ।
रक्षन्प्रबोधं भ्रातॄणां मातुश्च परवीरहा ॥

1.165.24

तमापतान्तं सम्प्रेक्ष्य भीमः प्रहरतां वरः ।
भर्त्सयामास तेजस्वी तिष्ठतिष्ठेति चाब्रवीत् ॥
वैशम्पायन उवाच ।

1.165.25

भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव ।
भगिनीं प्रति सङ्क्रुद्धमिदं वचनमब्रवीत् ॥

1.165.26

किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः ।
मामासादय दुर्बुद्धे तरसा त्वं नराशन ॥

1.165.27

मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि ।
विशेषतोऽनपकृते परेणापकृते सति ॥

1.165.28

न हीयं स्ववशा बाला कामयत्यद्य मामिह ।
चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा ॥

1.165.29

भगिनी तव दुर्वृत्त रक्षसां वै यशोहर ।
त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च ॥

1.165.30

कामयत्यद्य मां भीरुस्तव नैषापराध्यति ।
अनङ्गेन कृते दोषे नेमां गर्हितुमर्हसि ॥

1.165.31

मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि ।
सन्गच्छस्व मया सार्धमेकेनैको नराशन ॥

1.165.32

अहमेको गमिष्यामि त्वामद्य यमसादनम् । अद्य मद्बलनिष्पिष्टं शिरो राक्षस दीर्यताम् ।
कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसाः ॥

1.165.33

अद्य गात्राणि ते कङ्काः श्येना गोमायवस्तथा ।
कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे ॥

1.165.34

क्षणेनाद्य करिष्येऽहमिदं वनमराक्षसम् ।
पुरा यद्दूषितं नित्यं त्वया भक्षयता नरान् ॥

1.165.35

अद्य त्वां भगिनी रक्षः कृष्यमाणं मयाऽसकृत् ।
द्रक्ष्यत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् ॥

1.165.36

निराबाधास्त्वयि हते मया राक्षसपांसन ।
वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः ॥
हिडिम्ब उवाच ।

1.165.37

गर्जितेन वृथा किं ते कत्थितेन च मानुष ।
कृत्वैतत्कर्मणा सर्वं कत्थेया मा चिरं कृथाः ॥

1.165.38

बलिनं मन्यसे यच्चाप्यात्मानं सपराक्रमम् ।
ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम् ॥

1.165.39

न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम् ।
एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम् ॥

1.165.40

पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि ।
हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् ॥
वैशम्पायन उवाच ।

1.165.41

एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः ।
अभ्यद्रवत सन्क्रुद्धो भीमसेनमरिन्दमम् ॥

1.165.42

तस्याभिद्रवतस्तूर्णं भीमो भीमपराक्रमः ।
वेगेन प्रहितं बाहुं निजग्राह हसन्निव ॥

1.165.43

निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह ।
तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा ॥

1.165.44

ततः स राक्षसः क्रुद्धः पाण्डवेन बलार्दितः ।
भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् ॥

1.165.45

पुनर्भीमो बलादेनं विचकर्ष महाबलः ।
मा शब्दः सुखसुप्तानां भ्रातॄणां मे भवेदिति ॥

1.165.46

हस्ते गृहीत्वा तद्रक्षो दूरमन्यत्र नीतवान् । पृच्छे गृहीत्वा तुण्डेन गरुडः पन्नगं यथा ॥

1.165.47

अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा ।
हिडिम्बो भीमसेनश्च विक्रमं चक्रतुः परम् ॥

1.165.48

बभञ्जतुस्तदा वृक्षाँल्लताश्चाकर्षतुस्तदा ।
मत्ताविव चं संरब्धौ वारणौ षष्टिहायनौ ॥

1.165.49

पादपानुद्धरन्तौ तावूरुवेगेन वेगितौ ।
स्फोटयन्तौ लताजालान्यूरुभ्यां गृह्य सर्वशः ॥

1.165.50

वित्रासयन्तौ तौ शब्दैः सर्वतो मृगपक्षिणः ।
बलेन बलिनौ मत्तावन्योन्यवधकाङ्क्षिणौ ॥

1.165.51

भीमराक्षसयोर्युद्धं तदाऽवर्तत दारुणम् ।
पुरा देवासुरे युद्धे वृत्रवासवयोरिव ॥

1.165.52

भङूक्त्वा वृक्षान्महाशाखांस्ताडयामासतुः क्रुधा ।
सालतालतमालाम्रवटार्जुनविभीतकान् ॥

1.165.53

न्यग्रोधप्लक्षखर्जूरपनसानश्मकण्टकान् ।
एतानन्यान्महावृक्षानुत्खाय तरसाऽखिलान् ॥

1.165.54

उत्क्षिप्यान्योन्यरोषेण ताडयामासतू रणे ।
यदाऽभवद्वनं सर्वं निर्वृक्षं वृक्षसङ्कुलम् ॥

1.165.55

तदा शिलाश्च कुञ्जांश्च वृक्षान्कण्टकिनस्तथा ।
ततस्तौ गिरिशृङ्गाणि पर्वतांश्चाभ्रलेलिहान् ॥

1.165.56

शैलांश्च गण्डपाषाणानुत्खायादाय वैरिणौ ।
चिक्षेपतुरुपर्याजावन्योन्यं विजयेषिणौ ॥

1.165.57

तद्वनं परितः पञ्चयोजनं निर्महीरुहम् ।
निर्लतागुल्मपाषाणं निर्मृगं चक्रतुर्भृशम् ॥

1.165.58

तयोर्युद्धेन राजेन्द्र तद्वनं भीमरक्षसोः ।
मुहूर्तेनाभवत्कूमर्पृष्ठवच्छ्लक्ष्णमव्ययम् ॥

1.165.59

ऊरुबाहुपरिक्लेशात्कर्षन्तावितरेतरम् ।
उत्कर्षन्तौ विकर्षन्तौ प्रकर्षन्तौ परस्परम् ॥

1.165.60

तौ स्वनेन विना राजन्गर्जन्तौ च परस्परम् ।
पाषाणसन्घट्टनिभैः प्रहारैरभिजघ्नतुः ॥

1.165.61

अन्योन्यं च समालिङ्ग्य विकर्षन्तौ परस्परम् । बाहुयुद्धमभूद्धोरं बलिवासवयोरिव ।
युद्धसंरम्भनिर्गच्छत्फूत्काररवनिस्वनम् ॥

1.165.62

तयोः शब्देन महता विबुद्धास्ते नरर्षभाः ।
सह मात्रा च ददृशुर्हिडिम्बामग्रतःस्थिताम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc