भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.164

1.164.1

तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः ।
अविदूरे वनात्तस्माच्छालवृक्षं समाश्रितः ॥

1.164.2

क्रूरो मानुषमांसादो महावीर्यपराक्रमः ।
प्रावृड्जलधरश्यामः पिङ्गाक्षो दारुणाकृतिः ॥

1.164.3

दष्ट्राकरालवदनः करालो भीमदर्शनः ।
लम्बस्फिग्लम्बजठरो रक्तश्मश्रुशिरोरुहः ॥

1.164.4

महावृक्षगलस्कन्धः शङ्कर्णो विभीषणः ।
यदृच्छया तानपश्यत्पाण्डुपुत्रान्महारथान् ॥

1.164.5

विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः ।
पिशितेप्सुः क्षुधार्तश्च जिघ्रन्गन्धं यदृच्छया ॥

1.164.6

ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान् ।
जृम्भमाणो महावक्त्रः पुनःपुनरवेक्ष्य च ॥

1.164.7

हृष्टो मानुषमांसस्य महाकायो महाबलः ।
आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत् ॥

1.164.8

उपपन्नं चिरस्याद्य भक्ष्यं मम मनःप्रियम् ।
जिघ्रतः प्रस्रुता स्नेहाज्जिह्वा पर्येति मे मुखात् ॥

1.164.9

अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः ।
देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च ॥

1.164.10

आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि ।
उष्णं नवं प्रपास्यामि फेनलिं रुधिरं बहु ॥

1.164.11

गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः ।
मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे ॥

1.164.12

हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम् ।
अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते ॥

1.164.13

एषामुत्कृत्य मांसानि मानुषाणां यथेष्टतः ।
भक्षयिष्याव सहितौ कुरु पूर्णं वचो मम ॥

1.164.14

भक्षयित्वा च मांसानि मानुषाणां प्रकामतः ।
नृत्याव सहितावावां दत्ततालावनेकशः ॥
वैशम्पायन उवाच ।

1.164.15

एवमुक्ता हिडिम्बा तु हिडिम्बेन महावने ।
भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी ॥

1.164.16

आप्लुत्याप्लुत्य च तरूनगच्छत्पाण्डवान्प्रति । जगाम तत्र यत्र स्म शेरते पाण्डवा वने ॥

1.164.17

ददर्श तत्र सा गत्वा पाण्डवान्पृथया सह ।
शयानान्भीमसेनं च जाग्रतं त्वपराजितम् ॥

1.164.18

उपास्यमानान्भीमेन रूपयौवनशालिनः ।
सुकुमारांश्च पार्थान्सा व्यायामेन च कर्शितान् ॥

1.164.19

दुःखेन सम्प्रयुक्तांश्च सहज्येष्ठान्प्रमाथिनः । रौद्री सती राजपुत्रं दर्शनीयप्रदर्शनम् ॥

1.164.20

दृष्ट्वैव भीमसेनं सा सालस्कन्धमिवोद्यतम् ।
राक्षसी कामयामास रूपेणाप्रतिमं भुवि ॥

1.164.21

अन्तर्गतेन मनसा चिन्तयामास राक्षसी ।
अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः ॥

1.164.22

कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम ।
नाहं भ्रातृवचो जातु कुर्यां क्रूरमसाम्प्रतम् ॥

1.164.23

पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम् ।
मुहूर्तमिव तृप्तिश्च भवेद्धातुर्ममैव च ॥

1.164.24

हतैरेतैरहत्वा तु मोदिष्ये शाश्वतीः समाः ।
निश्चित्येत्थं हिडिम्बा सा भीमं दृष्ट्वा महाभुजं ॥

1.164.25

उत्सृज्य राक्षसं रूपं मानुषं रूपमास्थिता । सा कामरूपिणी रूपं कृत्वा मदनमोहिता ॥

1.164.26

उपतस्थे महात्मानं भीमसेनमनिन्दिता ।
इङ्गिताकारकुशला सोपासर्पच्छनैः शनैः ॥

1.164.27

विनम्यमानेव लता दिव्याभरणभूषिता ।
शनैः शनैश्च तां भीमः समीपमुपसर्पतीम् ॥

1.164.28

हर्षमाणां तदा पश्यत्तन्वीं पीनपयोधराम् ।
चन्द्राननां पद्मनेत्रां नीलकुञ्चितमूर्धजाम् ॥

1.164.29

कृष्णां सुपाण्डुरैर्दन्तैर्बिम्बोष्ठीं चारुदर्शनाम् ।
दृष्ट्वा तां रूपसम्पन्नां भीमो विस्मयमागतः ॥

1.164.30

उपचारगुणैर्युक्तां ललितैर्हाससम्मितैः ।
समीपमुपसम्प्राप्य भीमं साथ वरानता ॥

1.164.31

वचो वचनवेलायां भीमं प्रोवाच भामिनी । लज्जया नम्यमानेव सर्वाभरणभूषिता ॥

1.164.32

स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत् ।
कुतस्त्वमसि सम्प्राप्तः कश्चासि पुरुषर्षभ ॥

1.164.33

क इमे शेरते चेह पुरुषा देवरूपिणः ।
केयं वै बृहती श्यामा सुकुमारी तवानघ ॥

1.164.34

शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा ।
नेदं जानीथ गहनं वनं राक्षससेवितम् ॥

1.164.35

वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः ॥

1.164.36

तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा ।
बिभक्षयिषता मांसं युष्माकममरोपमाः ॥

1.164.37

साऽहं त्वमभिसम्प्रेक्ष्य देवगर्भसमप्रभम् ।
नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते ॥

1.164.38

एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर ।
कामोपहतचित्तां हि भजमानां भजस्व माम् ॥

1.164.39

त्रास्यामि त्वां महाबाहो राक्षसात्पुरुषादकात् ।
वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ ॥

1.164.40

इच्छामि वीर भद्रं ते मा मे प्राणान्विहासिषः । त्वया ह्यहं परित्यक्ता न जीवेयमरिन्दम ॥

1.164.41

अन्तरिक्षचरी ह्यस्मि कामतो विचरामि च ।
अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह ॥
भीमसेन उवाच ।

1.164.42

एष ज्येष्ठो मम भ्राता मान्यः परमको गुरुः । अनिविष्टो हि तन्नाहं परिविद्यां कथञ्चन ॥

1.164.43

मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानपि ।
परित्यजेत कोन्वद्य प्रभवन्निह राक्षसि ॥

1.164.44

को हि सुप्तानिमान्भ्रातॄन्दत्त्वा राक्षसभोजनम् ।
मातरं च नरो गच्छेत्कामार्त इव मद्विधः ॥
राक्षस्युवाच ।

1.164.45

एकं त्वां मोक्षयिष्यामि सह मात्रा परन्तप ।
सोदरानुत्सृजैनांस्त्वमारोह जघनं मम ॥
भीम उवाच ।

1.164.46

नाहं जीवितुमाशंसे भ्रातॄनुत्सृज्य राक्षसि ।
यथाश्रद्धं व्रजैका हि विप्रियं मे प्रभाषसे ॥
राक्षस्युवाच ।

1.164.47

यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय ।
मोक्षयिष्याम्यहं कामं राक्षसात्पुरुषादकात् ॥
भीमसेन उवाच ।

1.164.48

सुखसुप्तान्वने भ्रातॄन्मातरं चैव राक्षसि ।
न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः ॥

1.164.49

न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम् ।
न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने ॥

1.164.50

गच्छ वा तिष्ठ वा भद्रे यद्वा पीच्छसि तत्कुरु ।
तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc