भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.163

1.163.1

तेन विक्रममाणेन ऊरुवेगसमीरितम् ।
वनं सवृक्षविटपं व्याघूर्णितमिवाभवत् ॥

1.163.2

जङ्गावातो ववौ चास्य शुचिशुक्रागमे यथा ।
आवर्जितालतावृक्षं मार्गं चक्रे महाबलः ॥

1.163.3

स मृद्गन्पुष्पितांश्चैव फलितांश्च वनस्पतीन् ।
अवरुज्य ययौ गुल्मान्पथस्तस्य समीपजान् ॥

1.163.4

स रोषित इव क्रुद्धो वने भञ्जन्महाद्रुमान् ।
त्रिप्रस्रुतमदः शुष्मी षष्टिवर्षो मतङ्गराट् ॥

1.163.5

गच्छतस्तस्य वेगेन तार्क्ष्यमारुतरंहसः ।
भीमस्य पाण्डुपुत्राणां मूर्च्छेव समजायत ॥

1.163.6

असकृच्चापि सतीर्य दूरपारं भुजप्लवैः ।
पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात्तदा ॥

1.163.7

कृच्छ्रेण मातरं चैव सुकुमारीं यशस्विनीम् ।
अवहत्स तु पृष्ठेन रोधःसु विषमेषु च ॥

1.163.8

अगमच्च वनोद्देशमल्पमूलफलोदकम् ।
क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभ ॥

1.163.9

घोरा समभवत्सन्ध्या दारुणा मृगपक्षिणः ।
अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः ॥

1.163.10

शीर्णपर्णफलै राजन्बहुगुल्मक्षुपद्रुमैः ।
भग्नावभुग्नभूयिष्ठैर्नानाद्रुमसमाकुलैः ॥

1.163.11

ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः ।
नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया ॥

1.163.12

न्यविशन्ति हि ते सर्वे निरास्वादे महावने । रात्र्यामेव गतास्तूर्णं चतुर्विंशतियोजनम् ।
ततस्तृषा परिक्लन्ता कुन्ती वचनमब्रवीत् ॥

1.163.13

माता सती पाण्डवानां पञ्चानां मध्यतः स्थिता ।
तृष्णया हि परीताऽहमनाथेव महावने ॥

1.163.14

इतः परं तु शक्ताहं गन्तुं च न पदात्पदम् ।
शयिष्ये वृक्षमूलेऽत्र धार्तराष्ट्रा हरन्तु माम् ॥

1.163.15

शृणु भीम वचो मह्यं तव बाहुबलात्पुरः ।
स्थातुं न शक्ताः कौरव्याः किं बिभेषि पृथासुत ॥

1.163.16

अन्यो रथो न मेऽस्तीह भीमसेनादृते भुवि ।
धार्तराष्ट्राद्वृथा भीरुर्न मां स्वप्तुमिहेच्छसि ॥
वैशम्पायन उवाच ।

1.163.17

भीमपृष्ठस्थिता चेत्थं दूयमानेन चेतसा । निश्यध्वनि रुदन्ती सा निद्रावश्मुपागता ॥

1.163.18

तच्छ्रुत्वा भीमसेनस्य मातृस्नेहात्प्रजल्पितम् ।
कारुण्येन मनस्तप्तं गमनायोपचक्रमे ॥

1.163.19

ततो भीमो वनं घोरं प्रविश्य विजनं महत् ।
न्यग्रोधं विपुलच्छायं रमणीयं ददर्श ह ॥

1.163.20

तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः ।
पानीयं मृगयामीह तावद्विश्रम्यतामिह ॥

1.163.21

एते रुवन्ति मधुरं सारसा जलचारिणः ।
ध्रुवमत्र जलस्थानं महच्चेति मतिर्मम ॥

1.163.22

अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत ।
जगाम तत्र यत्र स्म सारसा जलचारिणः ॥

1.163.23

अपश्यत्पद्मिनीखण्डमण्डितं स सरोवरम् । स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ ॥

1.163.24

तेषामर्थे च जग्राह भ्रातॄणां भ्रातृवत्सलः ।
उत्तरीयेण पानीयमानयामास भारत ॥

1.163.25

पङ्कजानामनेकैश्च पत्रैर्बध्वा पृथक्पृथक् । गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति ।
शोकदुःखपरीतात्मा निशश्वासोरगो यथा ॥

1.163.26

स सुप्तां मातरं भ्रातॄन्निद्राविद्रावितौजसः ।
महारौद्रे वने घोरे वृक्षमूले सुशीतले ॥

1.163.27

विक्षिप्तकरपादांश्च दीर्घोच्छ्वासान्महाबलान् ।
ऊर्ध्ववक्त्रान्महाकायान्पञ्चेन्द्रानिव भूपते ॥

1.163.28

अज्ञातवृक्षनित्यस्थप्रेतराक्षससाध्वसान् । दृष्ट्वा वै भृशशोकार्तो बिललापानिलात्मजः ॥

1.163.29

भृशं शोकपरीत्मा विललाप वृकोदरः ॥

1.163.30

अतः कष्टतरं किं नु द्रष्टव्यं हि भविष्यति ।
यत्पश्यामि महीसुप्तान्भ्रातॄनद्य सुमन्दभाक् ॥

1.163.31

शयनेषु परार्ध्येषु ये पुरा वारणावते ।
नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले ॥

1.163.32

स्वसारं वसुदेवस्य शत्रुसङ्घावमर्दिनः ।
कुन्तिराजसुतां कुन्तीं सर्वलक्षणपूजिताम् ॥

1.163.33

स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः ।
तथैव चास्मज्जननीं पुण्डरीकोदरप्रभाम् ॥

1.163.34

सुकुमारतरामेनां महार्हशयनोचिताम् ।
शयानां पश्यताऽद्येह पृथिव्यामतथोचिताम् ॥

1.163.35

धर्मादिन्द्राच्च वाताच्च सुपुवे या सुतानिमान् ।
सेयं भूमौ परिश्रान्ता शेषे प्रासादशायिनी ॥

1.163.36

किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम् ।
योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले ॥

1.163.37

त्रिषु लोकेषु यो राज्यं धर्मनित्योऽर्हते नृपः ।
सोऽयं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम् ॥

1.163.38

अयं नीलाम्बुदश्यामो नरेष्वप्रतिमोऽर्जुनः ।
शेते प्राकृतवद्भूमौ ततो दुःखतरं नु किम् ॥

1.163.39

अश्विनाविव देवानां याविमौ रूपसम्पदा ।
तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले ॥

1.163.40

ज्ञातयो यस्य नै स्युर्विषमाः कुलपांसनाः ।
स जीवेत सुखं लोके ग्रामद्रुम इवैकजः ॥

1.163.41

एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः ।
चैत्यो भवति निर्ज्ञातिरध्वनीनैश्च पूजितः ॥

1.163.42

येषां च बहवः शूरा ज्ञातयो धर्ममाश्रिताः ।
ते जीवन्ति सुखं लोके भवन्ति च निरामयाः ॥

1.163.43

बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः ।
जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव ॥

1.163.44

वयं तु धृतराष्ट्रेण दुष्पुत्रेण दुरात्मना ।
राज्यलुब्धेन मूर्खेण दुर्मन्त्रिसहितेन वै ॥

1.163.45

दुष्टेनाधर्मशीलेन स्वार्थनिष्ठैकबुद्धिना । विवासिता न दग्धाश्च क्षत्तुर्बुद्धिपराक्रमात् ॥

1.163.46

तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः ।
कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम् ॥

1.163.47

सकामो भव दुर्बुद्धे धार्तराष्ट्राल्पदर्शन ।
नूनं देवाः प्रसन्नास्ते नानुज्ञां मे युधिष्ठिरः ॥

1.163.48

प्रयच्छति वधे तुभ्यं तेन जीवसि दुर्मते ।
नन्वद्य ससुतामात्यं सकर्णानुजसौबलम् ॥

1.163.49

गत्वा क्रोधसमाविष्टः प्रेषयिष्ये यमक्षयम् ।
किं नु शक्यं मया कर्तुं यत्तेन क्रुध्यते नृपः ॥

1.163.50

धर्मात्मा पाण्डवश्रेष्ठः पापाचार युधिष्ठिरः ।
एवमुक्त्वा महाबाहुः क्रोधसन्दीप्तमानसः ॥

1.163.51

करं करेण निष्पिष्य निःश्वसन्दीनमानसः ।
पुनर्दीनमना भूत्वा शान्तार्चिरिव पावकः ॥

1.163.52

भ्रातॄन्महीतले सुप्तानवैक्षत वृकोदरः ।
विश्वस्तानिव संविष्टान्पृथग्जनसमानिव ॥

1.163.53

नातिदूरेण नगरं वनादस्माद्धि लक्षये ।
जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहंस्वयम् ॥

1.163.54

प्राश्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः ।
इति भीमो व्यवस्यैव जजागार स्वयं तदा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc