भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.129

1.129.1

अपत्यकाम एवं स्यान्ममापत्यं भवेदिति ।
विप्रं वा गुणसम्पन्नं सर्वभूतहिते रतम् ॥

1.129.2

अनुजानीहि भद्रं ते दैवतं हि पतिः स्त्रियः ।
यं त्वं वक्ष्यसि धर्मज्ञ देवं ब्राह्मणमेव च ॥

1.129.3

यथोद्दिष्टं त्वया वीर तत्कर्तास्मि महाभुज ।
देवात्पुत्रफलं सद्यो विप्रात्कालान्तरे भवेत् ॥

1.129.4

आवाहयामि कं देवं कदा वा भरतर्षभ ।
त्वत्त आज्ञां प्रतीक्षन्तीं विद्ध्यस्मिन्कर्मणीप्सिते ॥
पाण्डुरुवाच ।

1.129.5

धन्योऽञस्म्यनुगृहीतोऽस्मि त्वं नो धात्री कुलस्य हि ।
नमो महर्षये तस्मै येन दत्तो वरस्तव ॥

1.129.6

न चाधर्मेण धर्मज्ञे शक्याः पालयितुं प्रजाः ।
तस्मात्त्वं पुत्रलाभाय सन्तानाय ममैव च ॥

1.129.7

प्रवरं सर्वदेवानां धर्ममावाहयाबले ।
वैशम्पायन उवाच ।
पाण्डुना समनुज्ञाता भारतेन यशस्विना ।
मतिं चक्रे महाराज धर्मस्यावाहने तदा ॥
पाण्डुरुवाच ।

1.129.8

अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि ।
धार्मिकश्च कुरूणां हि भविष्यति न संशयः ॥

1.129.9

दत्तस्य तस्य धर्मेण नाधर्मे रंस्यते मनः ।
धर्मादिकं हि धर्मज्ञे धर्मान्तं धर्ममध्यमम् ॥

1.129.10

अपत्यमिष्टं लोकेषु यशःकीर्तिविवर्धनम् ।
तस्माद्धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते ॥

1.129.11

आकाराचारसम्पन्ना भजस्वाराधय स्वयम् ॥
वैशम्पायन उवाच ।

1.129.12

सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना ।
अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमथाकरोत् ॥

1.129.13

संवत्सरोषिते गर्भे गान्धार्या जनमेजय ।
आजुबहाव ततो धर्मं कुन्ती गर्भार्थमच्युतम् ॥

1.129.14

सा बलिं त्वरिता देवी धर्मायोपजहार ह ।
जजाप विधिवज्जप्यं दत्तं दुर्वाससा पुरा ॥

1.129.15

जानन्ती धर्ममग्र्यं वै धर्मं वशमुपानयत् । आहूतो नियमात्कुन्त्या सर्वभूतनमस्कृतः ॥

1.129.16

आजगाम ततो देवीं धर्मो मन्त्रबलात्ततः ।
विमाने सूर्यसङ्काशे कुन्ती यत्र जपस्थिता ॥

1.129.17

ददृशे भगवान्धर्मः सन्तानार्थाय पाण्डवे । विहस्य तां ततो ब्रूयाः कुन्ति किं ते ददाम्यहम् ।
सा तं विहस्यमानापि पुत्रं देह्यब्रवीदिदम् ॥

1.129.18

तस्मिन्बहुमृगेऽरण्ये शतशृङ्गे नगोत्तमे ।
पाण्डोरर्थे महाभागा कुन्ती धर्ममुपागमत् ॥

1.129.19

ऋतुकाले शुचिः स्नाता शुक्लवस्त्रा यशस्विनी । शय्यां जग्राह सुश्रोणी सह धर्मेण सुव्रता ॥

1.129.20

धर्मेण सह सन्गम्य योगमूर्तिधरेण सा ।
लेभे पुत्रं महाबाहुं सर्वप्राणभृतां वरम् ॥

1.129.21

ऐन्द्रे चन्द्रमसा युक्ते मुहूर्तेऽभिजितेऽष्टमे ।
दिवा मध्यगते सूर्ये तिथौ पूर्णे हि पूजिते ॥

1.129.22

समृद्धयसशं कुन्ती सुषाव प्रवरं सुतम् ।
जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी ॥

1.129.23

एष धर्मभृतां श्रेष्ठो भविष्यति नरोत्तमः ।
विक्रान्तः सत्यवाक्चैव राजा पृथ्व्यां भविष्यति ॥

1.129.24

युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः । भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः ।
यशसा तेजसा चैव वृत्तेन च समन्वितः ॥

1.129.25

संवत्सरे द्वितीये तु गान्धार्या उदरं महत् ।
न च प्राजायत तदा ततस्तां दुःखमाविशत् ॥

1.129.26

श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् ।
उदस्यात्मनः स्थैर्यमुपालभ्य च सौबली ॥

1.129.27

कौरवस्यापरिज्ञातं यत्नेन महता स्वयम् ।
उदरं घातयामास गान्धारी शोकमूर्छिता ॥

1.129.28

ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता ।
द्विवर्षसम्भृता कुक्षौ तामुत्स्रष्टुं प्रचक्रमे ॥

1.129.29

अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् ।
तां स मांसमयीं पेशीं ददर्श जपतां वरः ॥

1.129.30

ततोऽवदत्सौबलेयीं किमिदं ते चिकीर्षितम् ।
सा चात्मनो मतं सर्वं शशंस परमर्षये ॥
गान्धार्युवाच ।

1.129.31

ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् ।
दुःखेन परमेणेदमुदरं घातितं मया ॥

1.129.32

शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा ।
इयं च मे मांसपेशी जाता पुत्रशताय वै ॥
व्यास उवाच ।

1.129.33

एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत् ।
वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ॥

1.129.34

घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम् ।
सुगुप्तेषु च देशेषु रक्षा चैव विधीयताम् ॥

1.129.35

शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चय ॥
वैशम्पायन उवाच ।

1.129.36

सा सिच्यमाना ह्यष्ठीला ह्यभवच्छतधा तदा ।
अङ्गुष्ठपर्वभात्राणां गर्भाणां तत्क्षणं तथा ॥

1.129.37

एकाधिकशतं पूर्णं यथायोगं विशाम्पते ।
ततः कुण्डशतं तत्र आनाय्य तु महानृषिः ॥

1.129.38

मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात् ।
ततस्तांस्तेषु कुण्डेषु गर्भान्सर्वान्समादधत् ॥

1.129.39

स्वनुगुप्तेषु देशेषु रक्षां चैषां व्यधापयत् ।
शशास चैव कृष्णो वै गर्भाणां रक्षणं तथा ॥

1.129.40

उवाच चैनां भगवान्कालेनैतावता पुनः ।
स्फुटमानेषु कुण्डेषु जाताञ्जानीहि शोभने ॥

1.129.41

उद्धाटनीयान्येतानि कुण्डानीति च सौबलीम् ।
इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च ॥

1.129.42

जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम् ।
अह्नोत्तराः कुमारस्ते कुण्डेभ्यस्तु समुत्थिताः ॥

1.129.43

तेनैवैषां क्रमेणासीज्ज्योष्ठानुज्येष्ठता तदा ।
जन्मतश्च प्रमाणेन ज्येष्ठः कुन्तीसुतोऽभवत् ॥

1.129.44

धार्मिकं च सुतं दृष्ट्वा पाण्डुः कुन्तीमथाऽब्रवीत् ।
प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु ॥

1.129.45

ततः कुन्तीमभिक्रम्य शशासातीव भारत ।
वायुमावाहयस्वेति स देवो बलवत्तरः ॥

1.129.46

अश्वमेधः क्रतुश्रेष्ठो ज्योतिःश्रेष्ठो दिवाकरः ।
ब्राह्मणो द्विपदां श्रेष्ठो देवश्रेष्ठश्च मारुतः ॥

1.129.47

मारुतं मरुतां श्रेष्ठं सर्वप्राणिभिरीडितम् ।
आवाहय त्वं नियमात्पुत्रार्थं वरवर्णिनि ॥

1.129.48

स नो यं दास्यति सुतं स प्राणबलवान्नृषु ।
भविष्यति वरारोहे बलज्येष्ठा हि भूमिपाः ॥
वैशम्पायन उवाच ।

1.129.49

तथोक्तवति सा काले वायुमेवाजुहाव ह ।
द्वितीयेनोपहारेण तेनोक्तविधिना पुनः ॥

1.129.50

तैरेव नियमैः स्थित्वा मन्त्रग्राममुदैरयत् ।
आजगाम ततो वायुः किं करोमीति चाब्रवीत् ॥

1.129.51

लज्जान्विता ततः कुन्ती पुत्रमैच्छन्महाबलम् ।
तथास्त्विति च तां वायुः समालभ्य दिवं गतः ॥

1.129.52

तस्यां जज्ञे महावीर्यो भीमो भीमपराक्रमः ।
तमप्यतिबलं जातं वागुवाचाशरीरिणी ॥

1.129.53

सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत ।
जातमात्रे कुमारे तु सर्वलोकस्य पार्थिवाः ॥

1.129.54

मूत्रं प्रसुस्रुवुः सर्वे व्यथां चापि प्रपेदिरे ।
वाहनानि व्यशीर्यन्त व्यमुञ्चन्नश्रुबिन्दवः ॥

1.129.55

यथाऽनिलः समुद्भूतः समर्थः कम्पने भुवः ।
तथा ह्युपचिताङ्गो वै भीमो भीमपराक्रमः ॥

1.129.56

इदं चाद्भुतमत्रासीज्जातमात्रे वृकोदरे ।
यदṟकात्पतितो मातुः शिलां गात्रैरचूर्णयत् ॥

1.129.57

कुन्ती तु सह पुत्रेण याता सुरुचिरं सरः ।
स्नात्वा च सुतमादाय दशमेऽहनि यादवी ॥

1.129.58

दैवतान्यर्चयिष्यन्ती निर्जगामाश्रमात्पृथा ।
शैलाभ्याशेन गच्छन्त्यास्तदा भरतसत्तम ॥

1.129.59

निश्चक्राम महाव्याघ्रो जिघांसुर्गिरिगह्वरात् ।
तमापतन्तं शार्दूलं विकृष्य धनुरुत्तमम् ॥

1.129.60

निर्बिभेद शरैः पाण्डुस्त्रिभिस्तिरदशविक्रमः ।
नादेन महता तां तु पूरयन्तं गिरेर्गुहाम् ॥

1.129.61

दृष्ट्वा शैलमुपारोढुमैच्छत्कुन्ती भयात्तदा ।
त्रासात्तस्याः सुतस्त्वङ्कात्पपात भरतर्षभ ॥

1.129.62

पर्वतस्योपरिस्थायामधस्तादपतच्छिशुः ।
स शिलां चूर्णयामास वज्रवद्वज्रिचोदितः ॥

1.129.63

पुत्रस्नेहात्ततः पाण्डुरभ्यधावद्गिरेस्तटम् ।
पतता तेन शतधा शिला गात्रैर्विचूर्णिता ॥

1.129.64

शिलां च चूर्णितां दृष्ट्वा परं विस्मयमागमत् ।
स तु जन्मनि भीमस्य विनदन्तं विनादितम् ॥

1.129.65

ददर्श गिरिशृङ्गस्थं व्याघ्रं व्याघ्रपराक्रमः ।
दारसंरक्षणार्थाय पुत्रसंरक्षणाय च ॥

1.129.66

सदा बाणधनुष्पाणिरभवत्कुरुनन्दनः ।
मघे चन्द्रमसा युक्ते सिंहे चाभ्युदिते गुरौ ॥

1.129.67

दिवा मध्यगते सूर्ये तिथौ पुण्ये त्रयोदशे ।
पित्र्ये मुहूर्ते सा कुन्ती सुषुवे भीममच्युतम् ॥

1.129.68

यस्मिन्नहनि भमस्तु जज्ञे भीमपराक्रमः ।
तामेव रात्रिं पूर्वां तु जज्ञे दुर्योधनो नृपः ॥

1.129.69

स जातमात्र एवाथ धृतराष्ट्रसुतो नृप ।
रासभारावसदृशं रुराव च ननाद च ॥

1.129.70

तं खराः प्रत्यभाषन्त गृध्रगोमायुवायसाः ।
क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवनिस्वनाः ॥

1.129.71

वाताश्च प्रववुश्चापि दिग्दाहश्चाभवत्तदा ।
ततस्तु भीतवद्राजा धृतराष्ट्रोऽब्रवीदिदम् ॥

1.129.72

समानीय बहून्विप्रान्भीष्मं विदुरमेव च ।
अन्यांश्च सुहृदो राजन्कुरून्सर्वांस्तथैव च ॥

1.129.73

युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः ।
प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्तिनः ॥

1.129.74

अयं त्वनन्तरस्तस्मादपि राजा भविष्यति ।
एतद्विब्रूत मे तथ्यं यदत्र भविता ध्रुवम् ॥

1.129.75

अस्मिञ्जाते निमित्तानि शंसन्ती हाशिवं महत् । अतो ब्रवीमि विदुर द्रुतं मां भयमाविशत् ॥

1.129.76

वाक्यस्यैतस्य निधेन दिक्षु सर्वासु भारत ।
क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवनिस्वनाः ॥

1.129.77

लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः ।
तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः ॥

1.129.78

यथेमानि निमित्तानि घोराणि मनुजाधिप ।
उत्थितानि सुते जाते ज्येष्ठे ते पुरुषर्षभ ॥

1.129.79

व्यक्तं कुलान्तकरणो भवितैष सुतस्तव ।
तस्य शान्तिः परित्यागे गुप्तावपनयो महान् ॥

1.129.80

एष दुर्योधनो राजा मधुपिङ्गललोचनः । न केवलं कुलस्यान्तं क्षत्रियान्तं करिष्यति ॥

1.129.81

शतमेकोनमप्यस्तु पुत्राणां ते महीपते ।
त्यजैनमेकं शान्तिं चेत्कुलस्येच्छसि भारत ॥

1.129.82

एकेन कुरु वै क्षेमं कुलस्य जगतस्तथा ।
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ॥

1.129.83

ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ।
स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः ॥

1.129.84

न चकार तथा राजा पुत्रस्नेहसमन्वितः ।
ततः पुत्रशतं पूर्ण धृतराष्ट्रस्य पार्थिव ॥

1.129.85

अह्नांशतेन सञ्जज्ञे कन्या चैका शताधिका ।
गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता ॥

1.129.86

वैश्या सा त्वम्बिकापुत्रं कन्या परिचचार ह । तया समभवद्राजा धृतराष्ट्रो यदृच्छया ॥

1.129.87

तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः । जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करमो नृप ।
एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः ॥

1.129.88

महारथानां वीराणां कन्या चैका शताधिका ।
युयुत्सुश्च महातेजा वैश्यापुत्रः प्रतापवान् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc