भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.128

1.128.1

एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत् ।
धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम् ॥
पाण्डुरुवाच ।

1.128.2

एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह ।
यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः ॥

1.128.3

अथ त्विदं प्रवक्ष्यामि धर्मतत्त्वं निबोध मे ।
पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः ॥

1.128.4

अनावृताः किल पुरा स्त्रिय आसन्वरानने ।
कामचारविहारिण्यः स्वतन्त्राश्चारुहासिनि ॥

1.128.5

तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन् ।
नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराऽभवत् ॥

1.128.6

तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः ।
अद्याप्यनुविधीयन्ते कामक्रोधविवर्जिताः ॥

1.128.7

प्रमाणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः । उत्तरेषु च रम्भोरु कुरुष्वद्यापि पूज्यते ।
स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः ॥

1.128.8

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥

1.128.9

एवं तृष्णा तु नारीणां पुरुषं पुरुषं प्रति ।
अगम्यागमनं स्त्रीणां नास्ति नित्यं शुचिस्मिते ॥

1.128.10

पुत्रं वा किल पौत्रं वा कासाञ्चिद्धातरं तथा ।
रहसीह नरं दृष्ट्वा योनिरुत्क्लिद्यते तदा ॥

1.128.11

एतत्स्वाभाविकं स्त्रीणां न निमित्तकृतं शुभे । अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते ॥

1.128.12

स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु ।
बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् ॥

1.128.13

श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः ।
मर्यादेयं कृता तेन धर्म्या वै श्वेतकेतुना ॥

1.128.14

कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे ॥

1.128.15

श्वेतकेतोः पिता देवि तप उग्रं समास्थितः ।
ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वाकाशगोऽभवत् ॥

1.128.16

शिशैरे सलिलस्थायी सह पत्न्या महातपाः ।
उद्दालकं तपस्यन्तं नियमेन समाहितम् ॥

1.128.17

तस्य पुत्रः श्वेतकेतुः परिचर्यां चकार ह ।
अभ्यागच्छद्द्विजः कश्चिद्वलीपलितसन्ततः ॥

1.128.18

तं दृष्ट्वैव मुनिः प्रीतः पूजयामास शास्त्रतः ।
स्वागतेन च पाद्येन मृदुवाक्यैश्च भारत ॥

1.128.19

शाकमूलफलाद्यैश्च वन्यैरन्यैरपूजयत् ।
क्षुत्पिपासाश्रमेण्णार्तः पूजितश्च महर्षिणा ॥

1.128.20

विश्रान्तो मुनिमासाद्य पर्यपृच्छद्द्विजस्तदा ।
उद्दालक महर्षे त्वं सत्यं मे ब्रूहि माऽनृतम् ॥

1.128.21

ऋषिपुत्रः कुमारोऽयं दर्शनीयो विशेषतः ।
तव पुत्रमिमं मन्ये कृतकृत्योऽसि तद्वद ॥
उद्दालक उवाच ।

1.128.22

मम पत्नी महाप्राज्ञ कुशिकस्य सुता मता ।
मामेवानुगता पत्नी मम नित्यमनुव्रता ॥

1.128.23

अरुन्धतीव पत्नीनां तपसा कर्शितस्तनी ।
अस्यां जातः श्वेतकेतुर्मम पुत्रो महातपाः ॥

1.128.24

वेदवेदाङ्गविद्विप्र मच्छासनपरायणः ।
लोकज्ञः सर्वलोकेषु विश्रुतः सत्यवाग्घृणी ॥
ब्राह्मण उवाच ।

1.128.25

अपुत्री भार्यया चार्थी वृद्धोऽहं मन्दचाक्षुषः ।
पित्र्यादृणादनिर्मुक्तः पूर्वमेवाकृतस्त्रियः ॥

1.128.26

प्रजारणिस्तु पत्नी ते कुलशीलसमन्विता ।
सदृशी मम गोत्रेण वहाम्येनां क्षमस्व मे ॥
पाण्डुरुवाच ।

1.128.27

इत्युक्त्वा मृगशावाक्षीं चीरकृष्णाजिनाम्बराम् ।
यष्ट्याधारः स्रस्तगात्रो मन्दचक्षुरबुद्धिमान् ॥

1.128.28

स्वव्यापाराक्षमां श्रेष्ठमचित्तामात्मनि द्विजः । श्वेतकेतोः किल पुरा समक्षं मातरं पितुः ॥

1.128.29

जग्राह ब्राह्मणः पापौ गच्छाव इति चाब्रवीत् ।
ऋषिपुत्रस्तदा कोपं चकारामर्षितस्तदा ॥

1.128.30

मातरं तां तथा दृष्ट्वा नीयमानां बलादिव ।
तपसा दीप्तवीर्यो हि श्वेतकेतुर्न चक्षमे ॥

1.128.31

सन्गृह्य मातरं हस्ते श्वेतकेतुरभाषत ।
दुर्ब्राह्मण विमुञ्च त्वं मातरं मे पतिव्रताम् ॥

1.128.32

स्वयं पिता मे ब्रह्मर्षिः क्षमावान्ब्रह्मवित्तमः ।
शापानुग्रहयोः शक्तः तूष्णीम्भूतो महाव्रतः ॥

1.128.33

तस्य पत्नी दमोपेता मम माता विशेषतः ।
पतिव्रतां तपोवृद्धां साध्वाचारैरलङ्कृताम् ॥

1.128.34

अप्रमादेन ते ब्रह्मन्मातृभूतां विमुञ्च वै ॥

1.128.35

एवमुक्त्वा तु याचन्तं विमुञ्चेति मुहुर्मुहुः ।
प्रत्यवोचद्द्विजो राजन्नप्रगल्भमिदं वचः ॥
ब्राह्मण उवाच ।

1.128.36

अपत्यार्थी श्वेतकेतो वृद्धोऽहं मन्दचाक्षुषः ।
पिता ते ऋणनिर्मुक्तस्त्वया पुत्रेण काश्यप ॥

1.128.37

ऋणादहमनिर्मुक्तो वृद्धोऽहं विगतस्पृहः ।
मम को दास्यति सुतां कन्यां सम्प्राप्तयौवनाम् ॥

1.128.38

प्रजारणिमिमां पत्नीं विमुञ्च त्वं महातपः ।
एकया प्रजया प्रीतो मातरं ते ददाम्यहम् ॥

1.128.39

एवमुक्तः श्वेतकेतुर्लज्जया क्रोधमेयिवान् । क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह ॥

1.128.40

मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः ।
अनावृता हि सर्वेषां वर्णानामङ्गना भुवि ॥

1.128.41

यथा गावः स्थिताः पुत्र स्वेस्वे वर्णे तथा प्रजाः ।
तथैव च कुटुम्बेषु न प्रमाद्यन्ति कर्हिचित् ॥

1.128.42

ऋतुकाले तु सम्प्राप्ते भर्तारं न जहुस्तदा । ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे ॥

1.128.43

चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि ।
मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु ॥

1.128.44

तदाप्रभृति मर्यादा स्थितेयमिति नः श्रुतम् ।
व्युच्चरन्त्याः पतिं नार्या अद्यप्रभृति पातकम् ॥

1.128.45

भ्रूणहत्यासमं घोरं भविष्यत्यसुखावहम् ।
अद्याप्यनुविधीयन्ते कामक्रोधविवर्जिताः ॥

1.128.46

उत्तरेषु महाभागे कुरुष्वेवं यशस्विनि । पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः ॥

1.128.47

भार्यां तथा व्युच्चरतः कौमारब्रह्मचारिणीम् ।
पतिव्रतामेतदेव भविता पातकं भुवि ॥

1.128.48

नियुक्ता पतिना भार्या यद्यपत्यस्य कारणात् । न कुर्यात्तत्तथा भीरु सैनः सुमहदाप्नुयात् ।
इति तेन पुरा भीरु मर्यादा स्थापिता बलात् ॥

1.128.49

उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना ।
सौदासेन च रम्भोरु नियुक्ता पुत्रजन्मनि ॥

1.128.50

मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम् ।
तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी ॥

1.128.51

एवं कृतवती सापि भर्तुः प्रियचिकीर्षया ।
अस्माकमपि ते जन्म विदितं कमलेक्षणे ॥

1.128.52

कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये ।
अत एतानि सर्वाणि कारणानि समीक्ष्य वै ॥

1.128.53

ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते ।
ऋतावृतौ राजपुत्रि स्त्रिया भर्ता पतिव्रते ॥

1.128.54

नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः ।
शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति ॥

1.128.55

धर्ममेवं जनाः सन्तः पुराणं परिचक्षते ।
भर्ता भार्यां राजपुत्रि धर्म्यं वाऽधर्म्यमेव वा ॥

1.128.56

यद्ब्रूयात्तत्तथा कार्यमिति वेदविदो विदुः ।
विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम् ॥

1.128.57

यथाऽहमनवद्याङ्गि पुत्रदर्शनलालसः ।
अयं रक्ताङ्गुलिनखः पद्मपत्रनिभः शुभे ॥

1.128.58

प्रसादनार्थं सुश्रोणि शिरस्यभ्युद्यतोऽञ्जलिः ।
मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाऽधिकात् ॥

1.128.59

पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि ।
त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् ॥
वैशम्पायन उवाच ।

1.128.60

एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम् ।
प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता ॥

1.128.61

अधर्मः सुमहानेषु स्त्रीणां भरतसत्तम । यत्प्रसादयते भर्ता प्रसाद्यः क्षत्रियर्षभ ।
शृणु चेदं महाबाहो मम प्रीतिकरं चः ॥

1.128.62

पितृवेश्मन्यहं बाला नियुक्ताऽतिथिपूजने ।
उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् ॥

1.128.63

निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः ।
तमहं संशितात्मानं सर्वयत्नैरतोषयम् ॥

1.128.64

स मेऽभिचारसंयुक्तमाचष्ट भगवान्वरम् ।
मन्त्रं त्विमं च मे प्रादादब्रवीच्चैव मामिदम् ॥

1.128.65

यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि ।
अकामो वा सकामो वा वशं ते समुपैष्यति ॥

1.128.66

तस्य तस्य प्रसादात्ते राज्ञि पुत्रो भविष्यति ।
इत्युक्ताऽहं तदा तेन पितृवेश्मनि भारत ॥

1.128.67

ब्राह्मणस्य वचस्तथ्यं तस्य कालोऽयमागतः ।
अनुज्ञाता त्वया देवमाह्वयेयमहं नृप ॥

1.128.68

यां मे विद्यां महाराज अददात्स महायशाः । तयाऽहूतः सुरः पुत्रं प्रदास्यति सुरोपमम् ।
अनपत्यकृतं यस्ते शोकं वीर विनेष्यति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc