भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.130

1.130.1

धृतराष्ट्रस्य पुत्राणामादितः कथितं त्वया ।
ऋषेः प्रसादात्तु शतं न च कन्या प्रकीर्तिता ॥

1.130.2

वैश्यापुत्रो युयुत्सुश्च कन्या चैका शताधिका ।
गान्धारराजदुहिता शतपुत्रेति चानघ ॥

1.130.3

उक्ता महर्षिणा तेन व्यासेनामिततेजसा ।
कथं त्विदानीं भगवन्कन्यां त्वं तु ब्रवीषि मे ॥

1.130.4

यदि भागशतं पेशी कृता तेन महर्षिणा ।
न प्रजास्यति चेद्भूयः सौबलेयी कथञ्चन ॥

1.130.5

कथं तु सम्भवस्तस्या दुःशलाया वदस्व मे ।
यथावदिह विप्रर्षे परं मेऽत्र कुतूहलम् ॥
वैशम्पायन उवाच ।

1.130.6

साध्वयं प्रश्न उद्दिष्टः पाण्डवेय ब्रवीमि ते ।
तां मांसपेशीं भगवान्स्वयमेव महातपाः ॥

1.130.7

शीताभिरद्भिरासिच्य भागं भागमकल्पयत् ।
यो यथा कल्पितो भागस्तन्त धात्र्या तथा नृप ॥

1.130.8

घृतपूर्णेषु कुण्डेषु एकैकं प्राक्षिपत्तदा ।
एतस्मिन्नन्तरे साध्वी गान्धारी सुदृढव्रता ॥

1.130.9

दुहितुः स्नेहसंयोगमनुध्याय वराङ्गना । नाब्रवीत्तमृषिं किञ्चिद्गौरवाच्च यशस्विनी ।
मनसा चिन्तयद्देवी एतत्पुत्रशतं मम ॥

1.130.10

भविष्यति न सन्देहो न ब्रवीत्यन्यथा मुनिः ।
ममेयं परमा तुष्टिर्दुहिता मे भवेद्यदि ॥

1.130.11

एका शताधिका बाला भविष्यति कनीयसी ।
ततो दौहित्रजाल्लोकादबाह्योऽसौ पतिर्मम ॥

1.130.12

अधिका किल नारीणां प्रीतिर्जामातृजा भवेत् ।
यदि नाम ममापि स्याद्दुहितैका शताधिका ॥

1.130.13

कृतकृत्या भवेयं वै पुत्रदौहित्रसंवृता ।
यदि सत्यं तपस्तप्तं दत्तं वाऽप्यथवा हुतम् ॥

1.130.14

गुरवस्तोषिता वापि तथाऽस्तु दुहिता मम ।
एतस्मिन्नेव काले तु कृष्णद्वैपायनः स्वयम् ॥

1.130.15

व्यभजत्स तदा पेशीं भगवानृषिसत्तमः ।
गण्यमानेषु कुण्डेषु शते पूर्णे महात्मना ॥

1.130.16

अभवच्चापरं खण्डं वामहस्ते तदा किल । गणयित्वा शतं पूर्णमंशानामाह सौबलीम् ॥
व्यास उवाच ।

1.130.17

पूर्णं पुत्रशतं त्वेतन्न मिथ्या वागुदाहृता ।
दैवयोगाच्च भागैकः परिशिष्टः शतात्परः ॥

1.130.18

एषा ते सुभगा कन्या भविष्यति यतेप्सिता ।
वैशम्पायन उवाच ।
ततोऽन्यं घृतकुम्भं च समानाय्य महातपाः ॥

1.130.19

तं चापि प्राक्षिपत्तत्र कन्याभागं तपोधनः ।
सम्भूता चैव कालेन सर्वेषां च यवीयसी ॥

1.130.20

ऐतत्ते कथितं राजन्दुःशलाजन्म भारत ।
ब्रूहि राजेन्द्र किं भूयो वर्तयिष्यामि तेऽनघ ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc