भाषा

ENहिગુ
ग्रंथ पाठ

मध्यान्तविभागकारिका · अध्याय 4

4.1

निमित्तात् प्रशमात् सार्थात् पश्चिमं समुदाहृतम् ॥
॥ इति तत्त्वपरिच्छेदस्तृतीयः ॥
प्रतिपक्षभावनावस्थाफलपरिच्छेदश्चतुर्थः
दौष्ठुल्यात् तर्षहेतुत्वाद् वस्तुत्वादविमोहतः ।
चतुस्सत्यावताराय स्मृत्युपस्थानभावना

4.2

परिज्ञाते विपक्षे च प्रतिपक्षे च सर्वथा ।
तदपायाय वीर्यं हि चतुर्धा सम्प्रवर्तते

4.3

कर्मण्यता स्थितेस्तत्र सर्वार्थानां समृद्धये ।
पञ्चदोषप्रहाणाष्टसंस्कारासेवनान्वया

4.4

कौसीद्यमववादस्य सम्मोषो लय उद्धवः ।
असंस्कारो ऽथ संस्कारः पञ्च दोषा इमे मताः

4.5

आश्रयो ऽथाश्रितस्तस्य निमित्तं फलमेव च ।
आलम्बने ऽसम्मोषो लयौद्धत्यानुबुद्ध्यना

4.6

तदपायाभिसंस्कारः शान्तौ प्रशठवाहिता ।
रोपिते मोक्षभागीये च्छन्दयोगाधिपत्यतः

4.7

आलम्बने ऽसम्मोषाविसारविचयस्य च ।
विपक्षस्य हि संलेखात् पूर्वस्य फलमुत्तरम्

4.8

द्वौ द्वौ निर्वेधभागीयाविन्द्रियाणि बलानि च ।
आश्रयाङ्गं स्वभावाङ्गं निर्याणाङ्गं तृतीयकम्

4.9

चतुर्थमनुशंसाङ्गं निःक्लेशाङ्गं त्रिधा मतम् ।
निदानेनाश्रयेणेह स्वभावेन च देशितम्

4.10

परिच्छेदो ऽथ सम्प्राप्तिः परसम्भावना त्रिधा ।
विपक्षप्रतिपक्षश्च मार्गस्याङ्गं तदष्टधा

4.11

दृष्टौ शीले ऽथ संलेखे परविज्ञप्तिरिष्यते ।
क्लेशोपक्लेशवैभुत्वविपक्षप्रतिपक्षता

4.12

अनुकूला विपर्यस्ता सानुबन्धा विपर्यया ।
अविपर्यस्तविपर्यासाननुबन्ध च भावना

4.13

आलम्बनमनस्कारप्राप्तितस्तद् विशिष्टता ।
हेत्ववस्थावताराख्या प्रयोगफलसंज्ञिता

4.14

कार्याकार्यविशिष्टा च उत्तरानुत्तरा च सा ।
अधिमुक्तौ प्रवेशे च निर्याणे व्याकृतावपि

4.15

कथिकत्वे ऽभिषेके च सम्प्राप्तावनुशंसने ।
कृत्यानुष्ठान उद्दिष्टा धर्माधातौ त्रिधा पुनः

4.16

अशुद्धाशुद्धशुद्धा च विशुद्धा च यथार्थतः ।
पुद्गलानां व्यवस्थानं यथायोगमतो मतम्

4.17

भाजनत्वं विपाकाख्यं बलन्तस्याधिपत्यतः ।
रुचिर्वृद्धिर्विशुद्धिश्च फलमेतद् यथाक्रमम्

4.18

उत्तरोत्तरमाद्यञ्च तदभ्यासत् समाप्तितः ।
आनुकूल्याद् विपक्षाच्च विसंयोगाद् विशेषतः

मूल पाठ: Madhyāntavibhāgakārikā · Edition: Ramchandra Pandeya: Madhyantavibhagashastram. Delhi : Motilal Banarsidass, 1971. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc