भाषा

ENहिગુ
ग्रंथ पाठ

मध्यान्तविभागकारिका · अध्याय 3

3.1

॥ इत्यावरणपरिच्छेदो द्वितीयः ॥
तत्त्वपरिच्छेदस्तृतीयः
मूललक्षणतत्त्वमविपर्यासलक्षणम् ।
फलहेतुमयं तत्त्वं सूक्ष्मौदारिकमेव च

3.2

प्रसिद्धं शुद्धिविषयं सङ्ग्राह्यं भेदलक्षणम् ।
कौशल्यतत्त्वं दशधा आत्मदृष्टिविपक्षतः

3.3

स्वभावस्त्रिविधो ऽसच्च नित्यं सच्चाप्यतत्त्वतः ।
सदसत्तत्त्वतश्चेति स्वभावत्रयमिष्यते

3.4

समारोपापवादस्य धर्मपुद्गलयोरिह ।
ग्राह्यग्राहकयोश्चापि भावाभावे च दर्शनम्

3.5

यज्ज्ञानान्न प्रवर्तेत तद्धि तत्त्वस्य लक्षणम् ।
असदर्थो ह्यनित्यार्थ उत्पाददव्ययलक्षणः

3.6

समलामलभावेन मूलतत्त्वे यथाक्रमम् ।
दुःखमादानलक्ष्माख्यं सम्बन्धेनापरं मतम्

3.7

अभावश्चाप्यतद्भावः प्रकृतिः शून्यता मता ।
अलक्षणञ्च नैरात्म्यं तद्विलक्षणमेव च

3.8

स्वलक्षणञ्च निर्दिष्टं दुःखसत्यमतो मतम् ।
वासनाथ समुत्थानमविसंयोग एव च

3.9

स्वभावद्वयनोत्पत्तिर्मलशान्तिद्वयं मतम् ।
परिज्ञायां प्रहाणे च प्राप्तिसाक्षात्कृतावयम्

3.10

मार्गसत्यं समाख्यातं प्रज्ञप्तिप्रतिपत्तितः ।
तथोद्भावनयौदारं परमार्थन्तु एकतः

3.11

अर्थप्राप्तिप्रपत्त्या हि परमार्थस्त्रिधा मतः ।
निर्विकाराविपर्यासपरिनिष्पत्तितो द्वयम्

3.12

लोकप्रसिद्धमेकस्मात् त्रयाद् युक्तिप्रसिद्धकम् ।
विशुद्धगोचरं द्वेधा एकस्मादेव कीर्तितम्

3.13

निमित्तस्य विकल्पस्य नाम्नश्च द्वयसङ्ग्रहः ।
सम्यग्ज्ञानसतत्त्वस्य एकेनैव च सङ्ग्रहः

3.14

प्रवृत्तितत्त्वं द्विविधं सन्निवेशकुपन्नता ।
एकं लक्षणविज्ञप्तिशुद्धिसम्यक्प्रपन्नता

3.15

एकहेतुत्वभोक्तृत्वकर्तृत्ववशवर्तने ।
आधिपत्यार्थनित्यत्वे क्लेशशुद्ध्याश्रये ऽपि च

3.16

योगित्वामुक्तमुक्तत्वे आत्मदर्शनमेषु हि ।
परिकल्पविकल्पार्थधर्मतार्थेन तेषु ते

3.17

अनेकत्वाभिसङ्क्षेपपरिच्छेदार्थ आदितः ।
ग्राहकग्राह्यतद्ग्राहबीजार्थश्चापरो मतः

3.18

वेदितार्थपरिच्छेदभोगायद्वारतो ऽपरम् ।
पुनर्हेतुफलायासानारोपानपवादतः

3.19

अनिष्टेष्टविशुद्धीनां समोत्पत्त्याधिपत्ययोः ।
सम्प्राप्तिसमुदाचारपारतन्त्र्यार्थतो ऽपरम्

3.20

ग्रहणस्थानसन्धानभोगशुद्धिद्वयार्थतः ।
फलहेतूपयोगार्थनोपयोगात्तथापरम्

3.21

वेदनासनिमित्तार्थतन्निमित्तप्रपत्तितः ।
तच्छमप्रतिपक्षार्थयोगादपरमिष्यते

3.22

गुणदोषाविकल्पेन ज्ञानेन परतः स्वयम् ।
निर्याणादपरं ज्ञेयं सप्रज्ञप्तिसहेतुकात्

मूल पाठ: Madhyāntavibhāgakārikā · Edition: Ramchandra Pandeya: Madhyantavibhagashastram. Delhi : Motilal Banarsidass, 1971. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc