मध्यान्तविभागकारिका · अध्याय 5
उत्तरानुत्तरत्वाच्च फलमन्यत् समासतः ।
॥ इति प्रतिपक्षभावनादिपरिच्छेदश्चतुर्थः ॥
5 यानानुत्तर्यपरिच्छेदः पञ्चमः
आनुत्तर्यंप्रपत्तौ हि पुनरालम्बने मतम् ।
समुदागम उद्दिष्टं प्रतिपत्तिस्तु षड् विधा
परमाथ मनस्कारे अनुधर्मे ऽन्तवर्जने ।
विशिष्टा चाविशिष्टा च परमा द्वादशात्मिका
औदार्यमायतत्वञ्च अधिकरो ऽक्षयात्मता ।
नैरन्तर्यमकृच्छ्रत्वं वित्तत्वञ्च परिग्रहः
आरम्भप्राप्तिनिष्यन्दनिष्पत्तिः परमा मता ।
ततश्च परमार्थेन दश पारमिता मताः
दानं शीलं क्षमा वीर्यं ध्यानं प्रज्ञा उपायता ।
प्रणिधानं बलं ज्ञानमेताः पारमिता दश
अनुग्रहो ऽविघातश्च कर्म तस्य च मर्षणम् ।
गुणवृद्धिश्च सामर्थ्यमवतारविमोचने
अक्षयत्वं सदा वृत्तिर्नियतं भोगपाचने ।
यथाप्रज्ञप्तितो धर्ममहायानमनस्क्रिया
बोधिसत्त्वस्य सततं प्रज्ञया त्रिप्रकारया ।
धातुपुष्टयैप्रवेशाय चार्थसिद्ध्यै भवत्यसौ
संयुक्ता धर्मचरितैः सा ज्ञेया दशभिः पुनः ।
लेखना पूजना दानं श्रवणं वाचनोद् ग्रहः
प्रकाशनाथ स्वाध्यायश्चिन्तना भावना च तत् ।
अमेयपुण्यस्कन्धं हि चरितं तद् दशात्मकम्
विशेषादक्षयत्वाच्च परानुग्रहतो ऽशमात् ।
अविक्षिप्ताविपर्यासप्रणता चानुधार्मिकी
व्युत्थानं विषये सारस्तथास्वादलयोद्धवः ।
सम्भावनाभिसन्धिश्च मनस्कारे ऽप्यहंकृतिः
हीनचित्तञ्च विक्षेपः परिज्ञेयो हि धीमता ।
व्यञ्जनार्थमनस्कारे ऽविसारे लक्षणद्वये
अशुद्धशुद्धावागन्तुकत्वे ऽत्रासितानुन्नतौ ।
संयोगात् संस्तवाच्चैव वियोगादप्यसंस्तवात्
अर्थसत्त्वमसत्त्वञ्च व्यञ्जने सो ऽविपर्ययः ।
द्वयेन प्रतिभासत्वं तथा चाविद्यमानता
अर्थे स चाविपर्यासः सदसत्त्वेन वर्जितः ।
तज्जल्पभावितो जल्पमनस्कारस्तदाश्रयः
मनस्कारे ऽविपर्यासो द्वयप्रख्यानकारणे ।
मायादिवदसत्त्वञ्च सत्त्वञ्चार्थस्य तन्मतम्
सो ऽविसारे ऽविपर्यासो भावाभावाविसारतः ।
सर्वस्य नाममात्रत्वं सर्वकल्पाप्रवृत्तये
स्वलक्षणे ऽविपर्यासः परमार्थे स्वलक्षणे ।
धर्मधातुविनिर्मुक्तो यस्माद् धर्मो न विद्यते
सामान्यलक्षणन्तस्मात् स च तत्राविपर्ययः ।
विपर्यस्तमनस्काराविहानिपरिहाणितः
तदशुद्धिर्विशुद्धिश्च स च तत्राविपर्ययः ।
धर्मधातोर्विशुद्धत्वात् प्रकृत्या व्योमवत्पुनः
द्वयस्यागन्तुकत्वं हि स च तत्राविपर्ययः ।
संक्लेशश्च विशुद्धिश्च धर्मपुद्गलयोर्न हि
असत्त्वात् त्रासतामानौ नातः सो ऽत्राविपर्ययः ।
पृथक्त्वैकत्वमन्तश्च तीर्थ्यश्रावकयोरपि
समारोपापवादान्तो द्विधा पुद्गलधर्मयोः ।
विपक्षप्रतिपक्षान्तः शाश्वतोच्छेदसंज्ञितः
ग्राह्यग्राहकसंक्लेशव्यवदाने द्विधा त्रिधा ।
विकल्पद्वयतान्तश्च स च सप्तविधो मतः
भावाभावे प्रशाम्ये ऽथ शमने त्रास्यतद्भये ।
ग्राह्यग्राहे ऽथ सम्यक्त्वमिथ्यात्वे व्यापृतौ न च
अजन्मसमकालत्वे स विकल्पद्वयान्तता ।
विशिष्टा चाविशिष्टा च ज्ञेया दशसु भूमिषु
व्यवस्थानन्ततो धातुः साध्यसाधनधारणा ।
अवधारप्रधारा च प्रतिवेधः प्रतानता
प्रगमः प्रशठत्वञ्च प्रकर्षालम्बनम्मतम् ।
अवैकल्याप्रतिक्षेपो ऽविक्षेपश्च प्रपूरणा
समुत्पादो निरूढिश्च कर्मण्यत्वाप्रतिष्ठिता ।
निरावरणता तस्याप्रश्रब्धिसमुदागमः
शास्त्रं मध्यविभागं हि गूढसारार्थमेव च ।
महार्थञ्चैव सर्वार्थं सर्वानर्थप्रणोदनम्
मूल पाठ: Madhyāntavibhāgakārikā · Edition: Ramchandra Pandeya: Madhyantavibhagashastram. Delhi : Motilal Banarsidass, 1971. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0