मध्यान्तविभागकारिका · अध्याय 2
॥ इति लक्षणपरिच्छेदः प्रथमः ॥
आवरणपरिच्छेदो द्वितीयः
व्यापि प्रादेशिकोद्रिक्तसमादानविवर्जनम् ।
द्वयावरणमाख्यातं नवधा क्लेशलक्षणम्
संयोजनान्यावरणमुद्वेगसमुपेक्षयोः ।
तत्त्वदृष्टेश्च सत्कायदृष्टेस्तद्वस्तुनो ऽपि च
निरोधमार्गरत्नेषु लाभसत्कार एव च ।
सङ्क्लेशस्य परिज्ञाने शुभादौ दशधापरम्
अप्रयोगो ऽनायतने ऽयोगविहितश्च यः ।
नोत्पत्तिरमनस्कारः सम्भारस्याप्रपूर्णता
गोत्रमित्रस्य वैधुर्यं चित्तस्य परिखेदिता ।
प्रतिपत्तेश्च वैधुर्यं कुदुष्टजनवासता
दौष्ठुल्यमवशिष्टत्वं त्रयात् प्रज्ञाविपक्वता ।
प्रकृत्या चैव दौष्ठुल्यं कौसीद्यं च प्रमादिता
सक्तिर्भवे च भोगे च लीनचित्तत्वमेव च ।
अश्रद्धानधिमुक्तिश्च यथारुतविचारणा
सद्धर्मे ऽगौरवं लाभे गुरुताकृपता तथा ।
श्रुतव्यसनमल्पत्वं समाध्यपरिकर्मिता
शुभं बोधिः समादानं धीमत्त्वाभ्रान्त्यनावृती ।
नृत्यत्रासो ऽमत्सरित्वं वशित्वञ्च शुभादयः
त्रीणि त्रीणि च एतेषां ज्ञेयान्यावरणानि हि ।
पक्ष्यपारमिताभूमिष्वन्यदावरणं पुनः
वस्त्वकौशलकौसीद्यं समाधेर्द्वयहीनता ।
अरोपणाथ दौर्बल्यं दृष्टिदौष्ठुल्यदुष्टता
ऐश्वर्यस्याथ सुगतेः सत्त्वात्यागस्य चावृतिः ।
हानिवृद्ध्योश्च दोषाणां गुणानामवतारणे
विमोचने ऽक्षयत्वे च नैरन्तर्ये शुभस्य च ।
नियतीकरणे धर्मसम्भोगपरिपाचने
सर्वत्रगार्थे अग्रार्थे निष्यन्दाग्रार्थ एव च ।
निष्परिग्रहतार्थ च सन्तानाभेद एव च
निस्सङ्क्लेशविशुद्ध्यर्थे ऽनानात्वार्थ एव च ।
अहीनानधिकार्थे च चतुर्धावशिताश्रये
धर्मधातावविद्येयमक्लिष्टा दशधावृतिः ।
दशभूमिविपक्षेण प्रतिपक्षास्तु भूमयः
क्लेशावरणमाख्यातं ज्ञेयावरणमेव च ।
सर्वाण्यावरणानीह यत्क्षयान्मुक्तिरिष्यते
मूल पाठ: Madhyāntavibhāgakārikā · Edition: Ramchandra Pandeya: Madhyantavibhagashastram. Delhi : Motilal Banarsidass, 1971. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0