मध्यमकावतार · अध्याय 4
स तु दोषान्धकाराणां प्रतिबन्धकानां नाशनेन सूर्यवद् अतितीक्ष्णतावतारे ऽपि दोषयुक्तजनेभ्यो न क्रुध्यति । क्षान्तेरतिविशिष्टाभ्यासात् करुणया सन्ततेः स्निग्धत्वाच्च ।
मध्यमकावतारभाष्ये तृतीयश्चित्तोत्पादः ।
4. चतुर्थश्चित्तोत्पादः
सम्प्रति दानशीलक्षान्तिपारमिताभ्यो वीर्यपारमिताया अतिरेकदेशनाद्वारेण चतुर्थचित्तोत्पादमधिकृत्य आख्यायते-
गुणा अशेषा अनुगम्य वीर्यं द्वयोस्तु हेतुर्मतिपुण्यराश्योः ।
यतो भवेत् प्रोज्ज्वलमेव वीर्यम् अर्चिष्मती भूः खलु सा चतुर्थी
कुशलकर्मानुत्साहमये तु सर्वथा दानादाप्रवृत्तेः सर्वगुणोत्पादो ऽसंभवः । पूर्वोक्तगुणसञ्चयसमुत्सुके तु प्राप्ताप्राप्तयोर्वृद्धिप्राप्तिसंभवाद् यस्य कस्यचिद् गुणस्य हेतुस्तु वीर्यमेव अस्ति । सम्भारद्वयहेतुस्तु पूर्वत आख्यातः । तद् वीर्यं स्वगुणपरिशुद्धिद्वारा यस्यां भूमावधिज्वलति सा तु चतुर्थी बोधिसत्वभूमिः अर्चिष्मतीति स्यात् । अपि च, कस्य हेतोरर्चिष्मतीति आख्यायते-नामावतारहेतुदेशनार्थम्-
सम्बोधिपक्षस्य विभावनातो जातो ऽवभासः सुगतस्य पुत्रे ।
ताम्रप्रभाया अधिकं विभाति
इत्युक्तम् । एवम् अस्यां भूमौ बोधिसत्त्वे सप्तत्रिंशद् बोधिपाक्षिकधर्मभावनेन पूर्वाख्यातताम्रप्रभाया विशिष्टो ऽवभास उपपद्यते । तस्मात् सम्यग्ज्ञानाग्निप्रभोपपादेन सा बोधिसत्त्वभूमिरर्चिष्मतीत्याख्यायते । सप्तत्रिंशद् बोधिपाक्षिका धर्मस्तु एवम्- चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि आर्याष्टाङ्गमार्गश्चेत्युक्ताः । तत्र चत्वारि स्मृत्युपस्थानानि- "जिनपुत्रा, बोधिसत्त्वो ऽस्यामर्चिष्मत्यां बोधिसत्त्वभूमौ प्रतिष्ठितो ऽध्यात्मं काये कायानुदर्शी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोको ऽभिध्यादौर्मनस्ये । बहिर्धा काये (कायानुदर्शी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये) अध्यात्मं बहिर्धा काये । एवमेवाध्यात्मं वेदनासु बहिर्धा वेदनासु अध्यात्मं बहिर्धा वेदनासु । एवमध्यात्मं चित्ते बहिर्धा चित्ते ऽध्यात्मं बहिर्धा चित्ते । अध्यात्मं धर्मेषु धर्मानुदर्शी (विहरति आतापी संप्रजानन् स्मृतिमान्) बहिर्धा धर्मेषु धर्मानुदर्शी ... एवमध्यात्मं बहिर्धा धर्मेषु... ।" इति विस्तृतनिर्देशवत् ।
चत्वारि सम्यक्प्रहाणानि यथा- "सो ऽनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय च्छन्दं जनयति व्यायच्छते वीर्यमारभते चित्तं प्रगृह्णाति सम्यक्प्रणिदधाति । उत्पन्नानां पापकानामकुशलानां धर्माणां
प्रहाणाय[इतिपूर्ववत्] । अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय [इतिपूर्ववत्] । उत्पन्नानां कुशलानां धर्माणां स्थितये ऽसंप्रमोषाय वैपुल्याय भूयोभावाय (भावनाय) परिपूरये [च्छन्दं जनयति, व्यायच्छते- तु पूर्ववत्] ।"
चत्वारो ऋद्धिपादाः "छन्दसमाधिप्रहाणसंस्कारसमन्वागतं ऋद्धिपादं भावयति विवेकनिश्चितं विरागनिश्चितं निरोधनिश्चितं व्यवसर्गपरिणतं [तद्वत्] वीर्य [समाधिप्रहाणसंस्कारसमन्वागतं ऋद्धिपादं] भावयति चित्त [समाधिप्रहाणसंस्कारसमन्वागतं ऋद्धिपादं] भावयति मीमांसा [समाधिप्रहाणसंस्कारसमन्वागतं ऋद्धिपादं] भावयतीत्यादि पूर्ववत् ।"
पञ्चेन्द्रियाणि तद्यथा- "स श्रद्धेन्द्रियं भावयति [इति तद्वत्] विवेकनिश्चितं...वीर्येन्द्रियं....स्मृतीन्द्रियं....समाधीन्द्रियं...प्रज्ञेन्द्रियं...स । "भावयति विरागनिश्चितं इत्यादि । पञ्चबलानि तु तान्येवासपक्षपराजितानि पूर्ववत् ।
सप्त बोध्यङ्गानि- तद्यथा- "(स) स्मृति-संबोध्यङ्गं भावयति, [इत्यादि] धर्मप्रविचय [बोध्यङ्गं] वीर्य [संबोध्यङ्गं] प्रीति [संबोध्यङ्गं] प्रस्त्रब्धि-[संबोध्यङ्गं] समाधि [संबोध्यङ्गं] उपेक्षा [संबोध्यङ्गं भावयति इत्यादि पूर्ववत्] ।"
आर्याष्टाङ्गमार्गस्तु यथा- "सम्यक्दृष्टिं भावयति [विरागनिश्चितं निरोध- निश्चितं व्यवसर्गपरिणतं] सम्यक्सङ्कल्पं [अपि पूर्ववत्] सम्यग्वाचं........ सम्यक्कर्मान्तं......सम्यगाजीवं......सम्यग्व्यायामं.....सम्यक्स्मृतिं...सम्यक्समाधिं ।" [भावयति इत्यादि पूर्ववत् ।] अस्यां भूमौ न केवलं बोधिपाक्षिकभावनोत्पादो ऽपितु-
संक्षीयते चात्मदृशो ऽनुषङ्गः
मूल पाठ: Madhyamakāvatāra 1-5 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0