भाषा

ENहिગુ
ग्रंथ पाठ

मध्यमकावतार · अध्याय 5

5.1

अस्यां भूमौ तस्य आत्मदृष्टिक्षयो ऽपि भवति- तथा- "जिनपुत्रा, बोधिसत्त्वस्य अस्यामर्चिष्मत्यां बोधिसत्त्वभूमौ स्थितस्य यानीमानि सत्कायदृष्टिपूर्वङ्गमानि आत्मसत्त्वजीवपोष (पुरुष) पुदलस्कन्धधात्वायतनाभिनिवेशसमुच्छ्रितानि उन्मर्ज्जितानि निमज्जितानि विचिन्तितानि वितर्कितानि केलायितानि ममायितानि धनायितानि निकेतस्थानानि, तानि सर्वाणि विगतानि भवन्ति स्म ।" इत्युक्तम् ।
इति मध्यमकावतारभाष्ये ऽर्चिष्मती नाम चतुर्थश्चित्तोत्पादः ।
5. पञ्चमश्चित्तोत्पादः
सम्प्रति पञ्चमचित्तोत्पादाधिकारः-
स दुर्जयाभूमिगतो महात्मा क्षमो न जेतुं ह्यपि सर्वमारैः ।
पञ्चमबोधिसत्त्वभूमौ स्थितो बोधिसत्त्वस्तु सर्वलोकधातुस्थितैर्देवपुत्रमारैरपि जेतुं न क्षमः तत्परेषां मारकिङ्करादीनां कः पुनर्वादः? अत एव अस्या भूमेर्नाम सुदुर्जयेति । बोधिसत्त्वस्तु-
ध्याने विशिष्टे सुमतेश्च सत्यसूक्ष्मस्वभावाधिगमे ऽतिदक्षः

मूल पाठ: Madhyamakāvatāra 1-5 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc