मध्यमकावतार · अध्याय 3
विमलेति दशकुशलकर्ममार्गविमलत्वाद् द्वितीयबोधिसत्त्वभूमेरन्वर्थं नाम । यथा निर्मला शरच्चन्द्रप्रभा जनसंतापम् अपाकरोति तथा जिनपुत्रेन्दूद्गतेयं विमलापि दुःशीलोत्पन्नं मनःसंतापं निवर्तयति । अस्या असंसारान्तर्गतत्वाद् न भवो ऽपितु भवश्रीः, सर्वगुणसम्पदां तदनुगतत्वात्, चतुर्द्वीपैश्वर्यसम्पधेतुत्वाच्च ।
इति मध्यमकावतारभाष्ये द्वितीयश्चित्तोत्पादः ।
3. तृतीयश्चित्तोत्पादः
सम्प्रति तृतीयचित्तोत्पादम् अधिकृत्योत्तच्यते-
अशेषज्ञेयेन्धनदाहकाग्निप्रभोद्भवाद् भूमिरियं तृतीया ।
प्रभाकरी ................ प्रभाकरीति तु तृतीयबोधिसत्त्वभूमिनाम । पुनरियं कस्मात् प्रभाकरीति चेद् अन्वर्थमेव । तत्समये अशेषज्ञेयेन्धनदाहकज्ञानाग्नेः शान्त्यात्मकप्रभोद्भवाद् भूमिरियं प्रभाकरीत्युच्यते । तृतीयचित्तोत्पादस्य
............... तं सुगतस्य पुत्रं तदा रविस्ताम्र इवाविभाति
यथा सूर्यौदयावस्थायाः पूर्वं ताम्र इव अवभासते तथा बोधिसत्त्वे ऽपि तत्र ज्ञानम् आभासते । तादृग्ज्ञानाभासप्राप्तस्य तस्य बोधिसत्त्वस्य क्षान्तिपारमिताविशेषतादेशनार्थमुक्तम्-
अकोपपात्रस्य हि तस्य कायात् सहास्थिमांसं यदि को ऽपि कृन्तात् ।
पलं पलं दीर्घनिकृन्तने ऽपि निकृन्तके क्षान्तिरतीव तस्य
बोधिसत्त्वः परचित्तानुरक्षणार्थत्वात् तादृग्ज्ञानवत्वाच्च येन परद्वेषचित्ताधारत्वत्रिकालनिरर्थकत्वं संदेहास्पदत्वञ्च न स्युः तादृक्स्वभावकायवाक्चित्तावतारसाक्षी नास्ति । अकोपपात्रस्य यदि को ऽपि विशेषणम् । यदि तादृक्प्राणिना तस्य बोधिसत्त्वस्य कायतो सास्थिमांसं प्रतिपलं विरम्य विरम्य चिरं निकृन्तिते ऽपि तादृक्कृन्तकाय न केवलं चित्तव्यारोषो न भवति अपितु, तदकुशलकर्मप्रत्ययं नरकदुःखादिविशेषम् अवलम्ब्य बोधिसत्त्वे ऽतिविशिष्टा क्षान्तिरेव जायते । अपि च-
यतः स धर्मान् प्रतिबिम्बरूपान् निरात्मदृक् पश्यति बोधिसत्त्वः ।
ततः कथं केन किमस्ति छिन्नं कदापि वा क्षान्तिमुपेति चासो
तदकुशलकर्मप्रत्ययं नरकादिदुःखविशेषम् अवलम्ब्य न केवलं विशेषेण क्षान्तो ऽपितु यतः स सर्वधर्मान् अपि प्रतिबिम्बवत् पश्यन् आत्मात्मीयसंज्ञानिवृत्तः तस्माद् अपि क्षान्ततर एव । अपि शब्दस्तु क्षान्तिहेतुसंग्रहार्थम् । क्षान्तिरियं न केवलं बोधिसत्त्वानुरूपो धर्मो ऽपितु तदितरसकलगुणरक्षाहेतुभूतत्वाद् अक्षान्तवत् क्रोधव्यावृत्तिरपि युक्ता व्याख्याता-
प्रकुप्यते यद्यपकारिणे ऽत्र किमत्र कोपो विनिवर्तितः स्यात् ।
अतो ऽत्र कोपो हि निरर्थको ऽस्मिन् परत्र लोके ऽपि विरुद्ध एव
सम्प्रति दत्तरोषावसरो ऽयं परस्मै अपकारिणे क्रुध्यति चेत् तदानीन्तनापकाराविनिवृत्तेः, तदालम्बनः प्रतिकोपो निरर्थक एव, कृतकार्यत्वात् । अस्मै कोपो न केवलं वर्तमाने निष्प्रयोजनः, अपितु परलोको ऽपि विरुद्धो भवति, क्रोधोत्पादे सति अमनापपरिपाकाक्षेपः । यो दुश्चरितकर्मफलविशेषोपभोगवान् मोहात् परेणाहं प्रपीडित इति परिकल्पयन् अपकारिणे क्रोधमुत्पादयन् प्रत्यपकारेण तत्पीडनं पराजेतुकामश्चासौ । तस्यापि व्यावर्तनार्थमाह-
पुराकृतस्याकुशलस्य कर्मफलं तु यो नष्टतया विवक्षुः ।
पराहितक्रोधत एव दुःखं कथं हि तद्बीजतयोपनीतम्
यत् शस्त्रधारपातेन तत्काये साधिष्ठमपकारदुःखं शत्रुणोपसाधितम्, तदन्त्यफलभूतं पूर्वकृतप्राणातिपातकर्मणः प्राणिनां नरकतिर्यग्योनियमलोकादि परिपाकफलं घोरम् अनुभूयमानं निष्यन्दफलं यच्चावशिष्टक्लेशाशेषाप्रियफलनिवर्तनहेतुः । तत्कथं पुनः र्विपरिणाम्यैव, औषधस्य अन्तिममात्राया आभ्यन्तरे-व्याधिप्रतीकारहेतुत्वाद् व्यारोषपरापकाराभ्याम् अतीतामनापफलादपि अतिविशिष्टापकारफलसम्भावनाहेतुत्वेन आनीयते? अतस्तद् वैद्यस्य व्याधिचिकित्साहेतुभूततीक्ष्णशल्यकर्मक्रियावत् फलदुःखोत्पादहेतोरतिक्षान्तिर्युक्ता । अक्षान्तिस्तु न केवलम् अमनापपरिपाकातिक्षेपहेतुरपितु दीर्घसंगृहीतपुण्यसम्भारक्षयहेतुरप्यस्तीति देशनार्थमुक्तम्-
दानेन शीलेन समुद्गतं यत् पुण्यं चितं कल्पशतेन नश्येत् ।
क्षणेन कोपाज्जिनपुत्रकेषु तस्मान् न कोपादपरं हि पापम्
यदि बोधिसत्त्वो महात्मा सः पुद्गले विशिष्टे ऽविशिष्टे वापि क्लेशाभ्यासवशप्रवेशत्वाद् बोधिचित्तोत्पान्नेषु सत्यभूतम् असत्यभूतश्च दोषम् अधिकं प्रज्ञाप्य क्षणमात्रमपि क्रोधचित्तोत्पादे ऽपि तन्मात्रेणैव पूर्वोक्तदानशीलपारमिताभ्यासोत्पन्नशतकल्पसंचितपुण्यसंभारो नश्यति, अबोधिसत्त्वेन बोधिसत्त्वेभ्य उत्पादिते तु पुनः किं वक्तव्यम्? तस्मात् महासागरजलप्रमाणं कर्षगणनया निश्चेतुमशक्यं तथा तत्र परिपाकसीमा निश्चेतुमशक्यः । अत एवं सति अमनापफलाक्षेपं पुण्यक्षयकरञ्च पापम् अक्षान्तेः परम् अपरं नास्ति । "मञ्जुश्रीः, क्रोधः क्रोध इति शतकल्पसंभृतपुण्योपक्षयकरः, तस्मात् क्रोधः क्रोध इत्याख्यातः ।" पुनश्च अक्षान्ताः परापकारासमर्थास्तु आत्मानमेव नाशयन्ति, समर्था निष्करुणाश्च स्वपरनाशकाः । अनेन तु जन्मत एव-
कुदर्शनो ऽसज्जननीयमानो नयानयज्ञानविवेकहीनः । परस्मिन् काले निकायसभागं त्यक्त्वा सकोपनो दुर्गतिमेति शीघ्रम् ।
यद्येते ऽक्षान्तिदोषाः, तदा के वै तद्विपरीतक्षान्तिगुणा इति-
गुणा विरुद्धाः कथिता ह्यकोपात्
सुदर्शता सज्जनतागतिश्च नयानयज्ञानपटुत्वमस्ति ।
अनन्तरं देवमनुष्यजन्म क्षयं ह्यकोपादुपयाति पापम्
ये ऽक्षान्तिदोषा उक्तास्तद्विरुद्धास्ते गुणाः क्षान्तेर्ज्ञेयाः । तद्यथा-
पृथग्जनो जिनपुत्रश्च दोषान् गुणान् समालोक्य च कोपक्षान्त्योः ।
अपास्य कोपं तरसैव क्षान्तिं सदा श्रयेच्चार्यजनप्रशस्ताम्
कोपक्षान्ती तु कोपक्षान्त्यैव । दोषगुणौ चापि दोषगुणौ । क्रोधक्षान्त्योर्दोषगुणाविति शब्दविनियोगः । क्रोधदोषस्तु यथोक्तः, विपर्ययेण क्षान्तिगुणम् अवगम्य अक्षान्तिं त्यक्त्वा सर्वकालं क्षान्तिरेव आश्रयणीया । अधुना क्षान्तिपारमिताप्रभेददेशनार्थम्-
सम्बुद्धबौध्यै परिणामनापि त्रिष्वाश्रिता चेत् खलु लौकिकीयम् ।
बुद्धत्वाय परिणामनायामपि का क्षान्तिः, केन क्षान्तिः, केषु प्राणिषु क्षान्तिरेतत्त्रिष्वाश्रयेषु सत्सु इयं क्षान्तिपारमिता लौकिकीति ।
अनाश्रिता स्यात् खलु सैव बुद्धैरलौकिकी पारमितेति दिष्टा
तस्यां भूमौ बोधिसत्त्वस्य क्षान्तिपारमिता यथा विशुद्धयति तथैव-
अभिज्ञतां ध्यानमितो ऽत्र भूमौ जिनस्य पुत्रो हतरागवैरः ।
भवत्यसौ लौकिककामरागौ निहन्तुमत्यन्ततया च शक्तः
ध्यानमिति ध्यानशब्दस्तु उपलक्षणार्थः, समापत्त्यप्रमाणानामपि ग्रहणं भवति । यथातृतीयबोधिसत्त्वभूमावुक्तवत्- "सो ऽस्यां प्रभाकर्यां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वो धर्मानुधर्मप्रतिपत्तिहेतो र्विविक्तं कामैर्विविक्तं पापकैरकुशलधर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति । स वितर्कविचाराणां व्युपशमादध्यात्मसंप्रसादाच्चेतस एकोतीभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयध्यानमुपसंपद्य विहरति । स प्रीतेर्विरागादुपेक्षको विहरति स्मृतिमान् संप्रजानन् । सुखं न कायेन प्रतिसंवेदयति यत्तदार्या आचक्षन्ते- उपेक्षकः स्मृतिमान् । सुखविहारी निष्प्रीतिकं तृतीयं ध्यानमुसंपद्य विहरति । स सुखस्य च प्रहाणाद्दुःखस्य च प्रहाणात्पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्तंगमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरति ।" इति, एतानि चत्वारि ध्यानानि । चतस्त्र आरूप्यसमापत्तयस्तु- तद्यथा- "स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानामस्तंगमान्नानात्वसंज्ञानाममनसिकारादनन्तकमाकाशमित्याकाशानन्त्यायतनमुपसंपद्य विहरति । स सर्वश आकाशानन्त्यायतनसमतिक्रमादनन्तं विज्ञानमिति विज्ञानानन्त्यायतनमुपसंपद्य विहरति । स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान्नास्ति किंचिदित्याकिंचन्यायतनमुपसंपद्य विहरति । स सर्वश आकिंचन्यायतनसमतिक्रमान्नैव संज्ञा नासंज्ञापि इति संज्ञानासंज्ञायतनमुपसंपद्य विहरति ।" इमाश्चतस्त्र आरूप्यसमापत्तयः । चत्वारो ऽप्रमाणास्तु एवम्- "स मैत्रीसहगतेन चित्तेन विपुलेन महदतेनाद्वयेनाप्रमाणेनावैरेणासपत्नेनानावरणेनाव्याबाधेन सर्वत्रानुगतेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं लोकं स्फरित्वोपसंपद्य विहरति । एवं करुणासहगतेन चित्तेन । मुदितासहगतेन चित्तेन । उपेक्षासहगेतन चित्तेन विहरति ।"
पञ्चाभिज्ञास्तु, तद्यथा- "सो ऽनेकविधां ऋद्धिविधिं प्रत्यनुभवति । पृथिवीमपि कम्पयति । एको ऽपि भूत्वा बहुधा भवति । बहुधापि भूत्वैको भवति । आविर्भावं तिरोभावमपि प्रत्यनुभवति । तिरः कुडयं तिरःप्राकारं पर्वतमप्यसज्जन् गच्छति तद्यथापि नाम आकाशे । आकाशे ऽपि पर्यङ्केन क्रामति तद्यथापि नाम पक्षिशकुनिः । पृथिव्यामप्युन्मज्जननिमज्जनं करोति तद्यथापि नाम उदके । उदके ऽप्यमज्जन् गच्छति तद्यथापि पृथिव्याम् । धूमयति प्रज्वलति, तद्यथापि नाम महानग्निस्कन्धः । स्वकायादपि महावारिधारा उत्सृजति तद्यथापि नाम महामेघः । याभिर्वारिधाराभिरयं त्रिसाहस्त्रमहासाहस्रो लोकधातुरादीप्तः प्रदीप्तः संप्रज्वलितो ऽग्निना एकज्वालीभूतो निर्वाप्यते । इमावपि चन्द्रसूर्यावेवंमहर्द्धिको एवंमहानुभावो पाणिना परामृशति परिमार्ष्टि यावद् ब्रह्मलोकमपि कायेन वशं वर्तयति ।" इत्येते ऋद्धयभिज्ञाः ।
"स दिव्येन श्रोत्रधातुना [विशुद्धेना] तिक्रान्तमानुष्यकेन उभयान् शब्दान् शृणोति दिव्यान् मानुष्यकान्, सूक्ष्मानौदारिकांश्च । ये दूरे ऽन्तिके वा अन्तशो दंशमशककीटमक्षिकाणामपि शब्दान् शृणोति । [एषा दिव्या श्रोत्राभिज्ञा] ॥"
"स परसत्त्वानां परपुद्गलानां चेतसैव चित्तं यथाभूतं प्रजानाति । सरागं चित्तं सरागचित्तमिति यथाभूतं प्रजानाति । विरागं चित्तं विरागचित्तमिति प्रजानाति । सदोषं, विगतदोषं, समोहं, विगतमोहं, सक्लेशं, निःक्लेशं, परीत्तं, विपुलं, महदतं, अप्रमाणं, संक्षिप्तं, [विस्तीर्णं], समाहितं, असमाहितं, विमुक्तं, अविमुक्तं, साङ्गनम्, अनङ्गनम्, औदारिकं चित्तमौदारिकचित्तमिति यथाभूतं प्रजानाति । अनौदारिकं चित्तमनौदारिकं चित्तमिति यथाभूतं प्रजानाति । इति परसत्त्वानां परपुद्गलानां चेतसैव चित्तं यथाभूतं प्रजानाति । [इत्येषा परचित्तज्ञानाभिज्ञा] ॥"
"सो ऽनेकविधं पूर्वनिवासमनुस्मरति । एकामपि जातिमनुस्मरति । द्वे तिस्त्रञ्चतस्त्रः पञ्च दश विंशतिः त्रिंशतं चत्वारिंशतं पञ्चाशतं जातिशत[सहस्त्र]मनुस्मरति । अनेकान्यपि जातिशतानि । [अनेकान्यपि जातिसहस्त्राणि] अनेकान्यपि जातिशतसहस्त्राणि । संवर्तकल्पमपि विवर्तकल्पमपि । अनेकानपि संवर्तविवर्तकल्पानप्यनुस्मरति । कल्पशतमपि कल्पसहस्त्रमपि कल्पशतसहस्त्रमपि कल्पकोटीमपि कल्पकोटीशतमपि कल्पकोटीसहस्त्रमपि कल्पकोटीशतसहस्रमपि यावदनेकान्यपि कल्पकोटीनियुतशतसहस्राण्यनुस्मरति-अमुन्नाहमासं एवंनामा । एवंगोत्रः एवंजातिः एवमाहार एवमायुःप्रमाणः एवंचिरस्थितिकः एवं सुखदुःखप्रतिसंवेदी । सो ऽहं ततश्च्युतो ऽत्रोपपन्नः । ततश्च्युत इहोपपन्नः । इति साकारं सोद्देशं सनिमित्तमनेकविधं पूर्वनिवासमनुस्मरित । [एषा पूर्वनिवासानुस्मृत्यभिज्ञा] ॥"
"स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्त्वान् पश्यति च्यवमानानुपपद्यमानान् सुवर्णान् दुर्वर्णान् सुगतान् दुर्गतान् प्रणीतान् हीनान् । यथाकर्मोपगान् सत्त्वान् यथाभूतं प्रजानाति- इमे भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागता वाग्दुश्चरितेन समन्वागता मनोदुश्चरितेन समन्वागताः आर्याणामपवादका मिथ्यादृष्टयः मिथ्यादृष्टिकर्मसमादानहेतोस्तद्धेतुं तत्प्रत्ययं कायस्य भेदात्परं मरणादपायदुर्गतिविनिपातनिरयेषूपपद्यन्ते । इमे पुनर्भवन्तः सत्त्वाः कायसुचरितेन समन्वागता वाक्सुचरितेन समन्वागता मनःसुचरितेन समन्वागता आर्याणामनपवादकाः । सम्यग्दृष्टिकर्मसमादानहेतोस्तद्धेतुं तत्प्रत्ययं कायस्य भेदात् परं मरणात्सुगतौ स्वर्गे देवलोकेषूपपद्यन्त इति [प्रजानाति । एवं] दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमनुष्येण (च्यवमानानुपपद्यमानान्) साकारं सोद्देशं सनिमित्तं सत्त्वान् पश्यति । यथाकर्मोपगतान् सत्त्वान् यथाभूतान् प्रजानाति । स इमानि ध्यानानि विमोक्षान् समाधीन् समापत्तीश्च समापद्यते, व्युत्तिष्ठते । न च तेषां वशेनोपपद्यते ऽन्यत्र यत्र बोध्यङ्गपरिपूरिं पश्यति तत्र संचिन्त्य प्रणिधानवशेनोपपद्यते । तत्कस्य हेतो? तथा हि तस्य बोधिसत्त्वस्योपायकौशल्याभिनिर्हता चित्तसंततिः ॥"
अत एव अस्यां भूमौ बोधिसत्त्वे ध्यानम् अभिज्ञाश्च सम्भवन्ति कथं सदा लौकिकरागद्वेषपरिक्षयः? चपदं तु अनुक्तसङ्ग्रहार्थम्, इति तस्य मोहस्यापि परिक्षयो भवति- कथम् इति, इदमपि यथा सूत्रे- "स सर्वधर्माणामसंक्रान्तितां च अविनाशितां च प्रतीत्य प्रत्ययतया व्यवलोकयति ॥ तस्य भूयस्या मात्रया सर्वाणि कामबन्धनानि तनूनि भवन्ति । सर्वाणि रूपबन्धनानि सर्वाणि भवबन्धनानि सर्वाण्यविद्याबन्धनानि तनूनि भवन्ति । दृष्टिकृतबन्धनानि च पूर्वमेव प्रहीणानि भवन्ति । तस्य अस्य प्रभाकर्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य अनेकान् कल्पान् यावदनेकानि कल्पकोटिनियुतशतसहस्त्राणि ....पेयालं.....अनुपचयं मिथ्यारागः प्रहाणं गच्छति, अनुपचयं मिथ्यादोषः प्रहाणं गच्छति, अनुपचयं मिथ्यामोहः प्रहाणं गच्छति ।" इत्युक्तम् । अतस्तस्य रागो द्वेषो मोहश्च परिक्षीणो भवति । कथं हि ते सदा लौकिककामरागात् उपहन्तुं समर्था भविष्यन्तीति यथा- "इयं भवन्तो जिनपुत्रा बोधिसत्त्वस्य प्रभाकरी नाम तृतीया बोधिसत्त्वभूमिः समासनिर्देशतः, यस्यां प्रतिष्ठितो बोधिसत्त्वो भूयस्त्वेन इन्द्रो भवति देवराजस्त्रिदशाधिपतिः कृती प्रभुः सत्त्वानां कामरागविनिवर्तनोपायोपसंहाराय कुशलः सत्त्वान् कामपङ्कादभ्युद्धर्तुम्", इत्युक्तम् । अतः स जिनपुत्रो लौकिककामरागान् उपहन्तुं समर्थो भविष्यति । एवम् अस्य बोधिसत्त्वस्य तृतीयबोधिसत्त्वभूमौ विशुद्धक्षान्तिपारमिताध्यानापरिमाणसमापत्यभिज्ञा रागादिपरिक्षयस्य च निश्चितप्राप्तिर्भविष्यतीत्युक्त्वा अधुना तु क्षान्तिपारमितापर्यन्तं पारमितात्रयाश्रयविशेषं सम्भारस्वभावं फलपरिसिद्धिव्यवस्थां च प्रकाशयितुम् आख्यायते-
इमे हि दानादिमयाः त्रिधर्मा गृहिभ्य उक्ताः सुगतैस्तु भूयः ।
त एव पुण्येत्यपि संभृता हि सम्बुद्धरूपात्मककायहेतुः
बोधिसत्त्वा एव यथोक्तदानाद्याश्रयाः सन्ति, तथापि गृहस्थप्रव्रजितभेदेन तत्र द्वयोः संभवं विचिन्त्य तथोक्तम् । तत्र गृहस्थेषु प्रायेण दानादयस्त्रयो धर्माः सुसाध्याः, परिव्राजकेषु च वीर्यं, ध्यानं तथा प्रज्ञा । न चेतरेतरासंभावना । बुद्धत्वहेतुसम्भारौ तु द्वौ स्तः, स चासौ पुण्यसंभारो ज्ञानसंभारश्च । तत्र पुण्यसम्भारस्तु तास्तिस्त्रः पारमिताः सन्ति, ज्ञानसम्भारश्च ध्यानं प्रज्ञा च । वीर्यं तूभयहेतुरिति व्यवस्था । तत्र यः पुण्यसम्भारः स संबुद्धानां भगवतां शतपुण्यलक्षणस्य अदभुतस्य अचिन्त्यस्य विश्वरूपमयस्य रूपकायस्य हेतुः । धर्मस्वभावकायस्य अनुत्पादलक्षणस्य हेतुस्तु ज्ञानसम्भारः । सम्प्रति आश्रयादिमाहात्म्येन स्वमहत्वम् उक्त्वा तृतीयबोधिसत्त्वभूम्यवस्था समाख्यायते-
प्रभाकरीयं जिनपुत्रसूर्ये तमः स्वकं पूर्वतरं विनाश्य ।
समीहते लोकतमो विहन्तुं ।
सुगतपुत्रसूर्यस्थितेयं प्रभाकरीभूमिः स्वाश्रिताम् अविद्यां आत्मोद्भवविघ्नभूतां जायमानावस्थायामेव विनाश्य तत्प्रकारोपदेशेन तद्भिन्नानां तृतीयभूम्युद्भवविघ्नान्धकारं विहन्तुं समीहते । स बोधिसत्त्वः-
न चात्र कोपो भुवि तीक्ष्णभूते
मूल पाठ: Madhyamakāvatāra 1-5 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0