मध्यमकशास्त्र · अध्याय 8
8 कर्मकारकपरीक्षा अष्टमं प्रकरणम् ।
सद्भूतः कारकः कर्म सद्भूतं न करोत्ययम् ।
कारको नाप्यसद्भूतः कर्मासद्भूतमीहते
सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम् ।
सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः
करोति यद्यसद्भूतो ऽसद्भूतं कर्म कारकः ।
अहेतुकं भवेत्कर्म कर्ता चाहेतुको भवेत्
हेतावसति कार्यं च कारणं च न विद्यते ।
तदभावे क्रिया कर्ता करणं च न विद्यते
धर्माधर्मौ न विद्येते क्रियादीनामसंभवे ।
धर्मे चासत्यधर्मे च फलं तज्जं न विद्यते
फले ऽसति न मोक्षाय न स्वर्गायोपपद्यते ।
मार्गः सर्वक्रियाणां च नैरर्थक्यं प्रसज्यते
कारकः सदसद्भूतः सदसत्कुरुते न तत् ।
परस्परविरुद्धं हि सच्चासच्चैकतः कुतः
सता च क्रियते नासन्नासता क्रियते च सत् ।
कर्त्रा सर्वे प्रसज्यन्ते दोषास्तत्र त एव हि
नासद्भूतं न सद्भूतः सदसद्भूतमेव वा ।
करोति कारकः कर्म पूर्वोक्तैरेव हेतुभिः
नासद्भूतो ऽपि सद्भूतं सदसद्भूतमेव वा ।
करोति कारकः कर्म पुर्वोक्तैरेव हेतुभिः
करोति सदसद्भूतो न सन्नासच्च कारकः ।
कर्म तत्तु विजानीयात्पूर्वोक्तैरेव हेतुभिः
प्रतीत्य कारकः कर्म तं प्रतीत्य च कारकम् ।
कर्म प्रवर्तते, नान्यत्पश्यामः सिद्धिकारणम्
एवं विद्यादुपादानं व्युत्सर्गादिति कर्मणः ।
कर्तुश्च कर्मकर्तृभ्यां शेषान् भावान् विभावयेत्
मूल पाठ: Madhyamakaśāstra · Edition: P. L. Vaidya: Madhyamakaśāstra of Nāgārjuna. Darbhanga: Mithila Institute, 1960. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0