मध्यमकशास्त्र · अध्याय 9
9 पूर्वपरीक्षा नवमं प्रकरणम् ।
दर्शनश्रवणादीनि वेदनादीनि चाप्यथ ।
भवन्ति यस्य प्रागेभ्यः सो ऽस्तीत्येके वदन्त्युत
कथं ह्यविद्यमानस्य दर्शनादि भविष्यति ।
भावस्य तस्मात्प्रागेभ्यः सो ऽस्ति भावो व्यवस्थितः
दर्शनश्रवणादिभ्यो वेदनादिभ्य एव च ।
यः प्राग्व्यवस्थितो भावः केन प्रज्ञप्यते ऽथ सः
विनापि दर्शनादीनि यदि चासौ व्यवस्थितः ।
अमून्यपि भविष्यन्ति विना तेन न संशयः
अज्यते केनचित्कश्चित् किंचित्केनचिदज्यते ।
कुतः किंचिद्विना कश्चित् किंचित्कंचिद्विना कुतः
सर्वेभ्यो दर्शनादिभ्यः कश्चित्पूर्वो न विद्यते ।
अज्यते दर्शनादीनामन्येन पुनरन्यदा
सर्वेभ्यो दर्शनादिभ्यो यदि पूर्वो न विद्यते ।
एकैकस्मात्कथं पूर्वो दर्शनादेः स विद्यते
द्रष्टा स एव स श्रोता स एव यदि वेदकः ।
एकैकस्माद्भवेत्पूर्वं एवं चैतन्न युज्यते
द्रष्टान्य एव श्रोतान्यो वेदको ऽन्यः पुनर्यदि ।
सति स्याद् द्रष्टरि श्रोता बहुत्वं चात्मनां भवेत्
दर्शनश्रवणादीनि वेदनादीनि चाप्यथ ।
भवन्ति येभ्यस्तेष्वेष भूतेष्वपि न विद्यते
दर्शनश्रवणादीनि वेदनादीनि चाप्यथ ।
न विद्यते चेद्यस्य स न विद्यन्त इमान्यपि
प्राक् च यो दर्शनादिभ्यः सांप्रतं चोर्ध्वमेव च ।
न विद्यते ऽस्ति नास्तीति निवृत्तास्तत्र कल्पनाः
मूल पाठ: Madhyamakaśāstra · Edition: P. L. Vaidya: Madhyamakaśāstra of Nāgārjuna. Darbhanga: Mithila Institute, 1960. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0