मध्यमकशास्त्र · अध्याय 7
7 संस्कृतपरीक्षा सप्तमं प्रकरणम् ।
यदि संस्कृत उत्पादस्तत्र युक्ता त्रिलक्षणी ।
अथासंस्कृत उत्पादः कथं संस्कृतलक्षणम्
उत्पादाद्यास्त्रयो व्यस्ता नालं लक्षणकर्मणि ।
संस्कृतस्य समस्ताः स्युरेकत्र कथमेकदा
उत्पादस्थितिभङ्गानामन्यत्संस्कृतलक्षणम् ।
अस्ति चेदनवस्थैवं नास्ति चेत्ते न संस्कृताः
उत्पादोत्पाद उत्पादो मूलोत्पादस्य केवलम् ।
उत्पादोत्पादमुत्पादो मौलो जनयते पुनः
उत्पादोत्पाद उत्पादो मूलोत्पादस्य ते यदि ।
मौलेनाजनितस्तं ते स कथं जनयिष्यति
स ते मौलेन जनितो मौलं जनयते यदि ।
मौलः स तेनाजनितस्तमुत्पादयते कथम्
अयमुत्पद्यमानस्ते काममुत्पादयेदिमम् ।
यदीममुत्पादयितुमजातः शक्नुयादयम्
प्रदीपः स्वपरात्मानौ संप्रकाशयिता यथा ।
उत्पादः स्वपरात्मानावुभावुत्पादयेत्तथा
प्रदीपे नान्धकारो ऽस्ति यत्र चासौ प्रतिष्ठितः ।
किं प्रकाशयति दीपः प्रकाशो हि तमोवधः
कथमुत्पद्यमानेन प्रदीपेन तमो हतम् ।
नोत्पद्यमानो हि तमः प्रदीपः प्राप्नुते यदा
अप्राप्यैव प्रदीपेन यदि वा निहतं तमः ।
इहस्थः सर्वलोकस्थं स तमो निहनिष्यति
प्रदीपः स्वपरात्मानौ संप्रकाशयते यदि ।
तमो ऽपि स्वपरात्मानौ छादयिष्यत्यसंशयम्
अनुत्पन्नो ऽयमुत्पादः स्वात्मानं जनयेत्कथम् ।
अथोत्पन्नो जनयते जाते किं जन्यते पुनः
नोत्पद्यमानं नोत्पन्नं नानुत्पन्नं कथंचन ।
उत्पद्यते तथाख्यातं गम्यमानगतागतैः
उत्पद्यमानमुत्पत्ताविदं न क्रमते यदा ।
कथमुत्पद्यमानं तु प्रतीत्योत्पत्तिमुच्यते
प्रतीत्य यद्यद्भवति तत्तच्छान्तं स्वभावतः ।
तस्मादुत्पद्यमानं च शान्तमुत्पत्तिरेव च
यदि कश्चिदनुत्पन्नो भावः संविद्यते क्वचित् ।
उत्पद्येत स किं तस्मिन् भाव उत्पद्यते ऽसति
उत्पद्यमानमुत्पादो यदि चोत्पादयत्ययम् ।
उत्पादयेत्तमुत्पादमुत्पादः कतमः पुनः
अन्य उत्पादत्येनं यद्युत्पादो ऽनवस्थितिः ।
अथानुत्पाद उत्पन्नः सर्वमुत्पद्यते तथा
सतश्च तावदुत्पत्तिरसतश्च न युज्यते ।
न सतश्चासतश्चेति पूर्वमेवोपपादितम्
निरुध्यमानस्योत्पत्तिर्न भावस्योपपद्यते ।
यश्चानिरुध्यमानस्तु स भावो नोपपद्यते
न स्थितभावस्तिष्ठत्यस्थितभावो न तिष्ठति ।
न तिष्ठति तिष्ठमानः को ऽनुत्पन्नश्च तिष्ठति
स्थितिर्निरुध्यमानस्य न भावस्योपपद्यते ।
यश्चानिरुध्यमानस्तु स भावो नोपपद्यते
जरामरणधर्मेषु सर्वभावेषु सर्वदा ।
तिष्ठन्ति कतमे भावा ये जरामरणं विना
स्थित्यान्यया स्थितेः स्थानं तयैव च न युज्यते ।
उत्पादस्य यथोत्पादो नात्मना न परात्मना
निरुध्यते नानिरुद्धं न निरुद्धं निरुध्यते ।
तथापि निरुध्यमानं किमजातं निरुध्यते
स्थितस्य तावद्भावस्य निरोधो नोपपद्यते ।
नास्थितस्यापि भावस्य निरोध उपपद्यते
तयैवावस्थयावस्था न हि सैव निरुध्यते ।
अन्ययावस्थयावस्था न चान्यैव निरुध्यते
यदैवं सर्वधर्माणामुत्पादो नोपपद्यते ।
तदैवं सर्वधर्माणां निरोधो नोपपद्यते
सतश्च तावद्भावस्य निरोधो नोपपद्यते ।
एकत्वे न हि भावश्च नाभावश्चोपपद्यते
असतो ऽपि न भावस्य निरोध उपपद्यते ।
न द्वितीयस्य शिरसच्छेदनं विद्यते यथा
न स्वात्मना निरोधो ऽस्ति निरोधो न परात्मना ।
उत्पादस्य यथोत्पादो नात्मना न परात्मना
उत्पादस्थितिभङ्गानामसिद्धेर्नास्ति संस्कृतम् ।
संस्कृतस्याप्रसिद्धौ च कथं सेत्स्यत्यसंस्कृतम्
यथा माया यथा स्वप्नो गन्धर्वनगरं यथा ।
तथोत्पादस्तथा स्थानं तथा भङ्ग उदाहृतम्
मूल पाठ: Madhyamakaśāstra · Edition: P. L. Vaidya: Madhyamakaśāstra of Nāgārjuna. Darbhanga: Mithila Institute, 1960. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0