लिङ्गपुराण · अध्याय 1.96
कथं देवो महादेवो विश्वसंहारकारकः
शरभाख्यं महाघोरं विकृतं रूपमास्थितः ॥
किं किं धैर्यं कृतं तेन ब्रूहि सर्वम् अशेषतः
एवमभ्यर्थितो देवैर् मतिं चक्रे कृपालयः ॥
यत्तेजस्तु नृसिंहाख्यं संहर्तुं परमेश्वरः
तदर्थं स्मृतवान् रुद्रो वीरभद्रं महाबलम् ॥
आत्मनो भैरवं रूपं महाप्रलयकारकम्
आजगाम पुरा सद्यो गणानामग्रतो हसन् ॥
साट्टहासैर् गणवरैर् उत्पतद्भिर् इतस्ततः
नृसिंहरूपैरत्युग्रैः कोटिभिः परिवारितः ॥
तावद्भिर् अभितो वीरैर् नृत्यद्भिश् च मुदान्वितैः
क्रीडद्भिश् च महाधीरैर् ब्रह्माद्यैः कन्दुकैरिव ॥
अदृष्टपूर्वैरन्यैश् च वेष्टितो वीरवन्दितः
कल्पान्तज्वलनज्वालो विलसल्लोचनत्रयः ॥
आत्तशस्त्रो जटाजूटे ज्वलद्बालेन्दुमण्डितः
बालेन्दुद्वितयाकार तीक्ष्णदंष्ट्राङ्कुरद्वयः ॥
आखण्डलधनुःखण्ड संनिभभ्रूलतायुतः
महाप्रचण्डहुङ्कार बधिरीकृतदिङ्मुखः ॥
नीलमेघाञ्जनाकार भीषणश्मश्रुरद्भुतः
वादखण्डम् अखण्डाभ्यां भ्रामयंस्त्रिशिखं मुहुः ॥
वीरभद्रो ऽपि भगवान् वीरशक्तिविजृम्भितः
स्वयं विज्ञापयामास किमत्र स्मृतिकारणम् ॥
आज्ञापय जगत्स्वामिन् प्रसादः क्रियतां मयि
अकाले भयमुत्पन्नं देवानामपि भैरव ॥
ज्वलितः स नृसिंहाग्निः शमयैनं दुरासदम्
सान्त्वयन् बोधयादौ तं तेन किं नोपशाम्यति ॥
ततो मत्परमं भावं भैरवं संप्रदर्शय
सूक्ष्मं सूक्ष्मेण संहृत्य स्थूलं स्थूलेन तेजसा ॥
वक्त्रमानय कृत्तिं च वीरभद्र ममाज्ञया
इत्यादिष्टो गणाध्यक्षः प्रशान्तवपुरास्थितः ॥
जगाम रंहसा तत्र यत्रास्ते नरकेसरी
ततस्तं बोधयामास वीरभद्रो हरो हरिम् ॥
उवाच वाक्यमीशानः पिता पुत्रमिवौरसम्
जगत्सुखाय भगवन्न् अवतीर्णो ऽसि माधव ॥
स्थित्यर्थेन च युक्तो ऽसि परेण परमेष्ठिना
जन्तुचक्रं भगवता रक्षितं मत्स्यरूपिणा ॥
पुच्छेनैव समाबध्य भ्रमन्नेकार्णवे पुरा
बिभर्षि कूर्मरूपेण वाराहेणोद्धृता मही ॥
अनेन हरिरूपेण हिरण्यकशिपुर्हतः
वामनेन बलिर्बद्धस् त्वया विक्रमता पुनः ॥
त्वम् एव सर्वभूतानां प्रभावः प्रभुर् अव्ययः
यदा यदा हि लोकस्य दुःखं किंचित् प्रजायते ॥
तदा तदावतीर्णस्त्वं करिष्यसि निरामयम्
नाधिकस्त्वत्समो ऽप्यस्ति हरे शिवपरायण ॥
त्वया धर्माश् च वेदाश् च शुभे मार्गे प्रतिष्ठिताः
यदर्थम् अवतारो ऽयं निहतः सो ऽपि केशव ॥
अत्यन्तघोरं भगवन् नरसिंह वपुस्तव
उपसंहर विश्वात्मंस् त्वमेव मम संनिधौ ॥
इत्युक्तो वीरभद्रेण नृसिंहः शान्तया गिरा
ततो ऽधिकं महाघोरं कोपं प्रज्वालयद्धरिः ॥
आगतो ऽसि यतस्तत्र गच्छ त्वं मा हितं वद
इदानीं संहरिष्यामि जगदेतच्चराचरम् ॥
संहर्तुर् न हि संहारः स्वतो वा परतो ऽपि वा
शासितं मम सर्वत्र शास्ता को ऽपि न विद्यते ॥
मत्प्रसादेन सकलं समर्यादं प्रवर्तते
अहं हि सर्वशक्तीनां प्रवर्तकनिवर्तकः ॥
यद् यद् विभूतिमत् सत्त्वं श्रीमदूर्जितमेव वा
तत्तद्विद्धि गणाध्यक्ष मम तेजोविजृम्भितम् ॥
देवतापरमार्थज्ञा ममैव परमं विदुः
मदंशाः शक्तिसम्पन्ना ब्रह्मशक्रादयः सुराः ॥
मन्नाभिपङ्कजाज्जातः पुरा ब्रह्मा चतुर्मुखः
तल्ललाटसमुत्पन्नो भगवान्वृषभध्वजः ॥
रजसाधिष्ठितः स्रष्टा रुद्रस्तामस उच्यते
अहं नियन्ता सर्वस्य मत्परं नास्ति दैवतम् ॥
विश्वाधिकः स्वतन्त्रश् च कर्ता हर्ताखिलेश्वरः
इदं तु मत्परं तेजः कः पुनः श्रोतुमिच्छति ॥
अतो मां शरणं प्राप्य गच्छ त्वं विगतज्वरः
अवेहि परमं भावम् इदं भूतमहेश्वरः ॥
कालो ऽस्म्यहं कालविनाशहेतुर् लोकान् समाहर्तुम् अहं प्रवृत्तः
मृत्योर्मृत्युं विद्धि मां वीरभद्र जीवन्त्येते मत्प्रसादेन देवाः ॥
साहङ्कारमिदं श्रुत्वा हरेर् अमितविक्रमः
विहस्योवाच सावज्ञं ततो विस्फुरिताधरः ॥
किं न जानासि विश्वेशं संहर्तारं पिनाकिनम्
असद्वादो विवादश् च विनाशस्त्वयि केवलः ॥
तवान्योन्यावताराणि कानि शेषाणि सांप्रतम्
कृतानि येन केनापि कथाशेषो भविष्यति ॥
दोषं त्वं पश्य एतत्त्वम् अवस्थामीदृशीं गतः
तेन संहारदक्षेण क्षणात्संक्षयमेष्यसि ॥
प्रकृतिस्त्वं पुमान् रुद्रस् त्वयि वीर्यं समाहितम्
त्वन्नाभिपङ्कजाज्जातः पञ्चवक्त्रः पितामहः ॥
सृष्ट्यर्थेन जगत्पूर्वं शङ्करं नीललोहितम्
ललाटे चिन्तयामास तपस्युग्रे व्यवस्थितः ॥
तल्ललाटादभूच्छंभोः सृष्ट्यर्थं तन्न दूषणम्
अंशो ऽहं देवदेवस्य महाभैरवरूपिणः ॥
त्वत्संहारे नियुक्तो ऽस्मि विनयेन बलेन च
एवं रक्षो विदार्यैव त्वं शक्तिकलया युतः ॥
अहङ्कारावलेपेन गर्जसि त्वमतन्द्रितः
उपकारो ह्यसाधूनाम् अपकाराय केवलम् ॥
यदि सिंह महेशानं स्वपुनर्भूत मन्यसे
न त्वं स्रष्टा न संहर्ता न स्वतन्त्रो हि कुत्रचित् ॥
कुलालचक्रवच्छक्त्या प्रेरितो ऽसि पिनाकिना
अद्यापि तव निक्षिप्तं कपालं कूर्मरूपिणः ॥
हरहारलतामध्ये मुग्ध कस्मान्न बुध्यसे
विस्मृतं किं तदंशेन दंष्ट्रोत्पातनपीडितः ॥
वाराहविग्रहस्ते ऽद्य साक्रोशं तारकारिणा
दग्धो ऽसि यस्य शूलाग्रे विष्वक्सेनच्छलाद्भवान् ॥
दक्षयज्ञे शिरश्छिन्नं मया ते यज्ञरूपिणः
अद्यापि तव पुत्रस्य ब्रह्मणः पञ्चमं शिरः ॥
छिन्नं तमेनाभिसंधं तदंशं तस्य तद्बलम्
निर्जितस्त्वं दधीचेन संग्रामे समरुद्गणः ॥
कण्डूयमाने शिरसि कथं तद्विस्मृतं त्वया
चक्रं विक्रमतो यस्य चक्रपाणे तव प्रियम् ॥
कुतः प्राप्तं कृतं केन त्वया तदपि विस्मृतम्
ते मया सकला लोका गृहीतास्त्वं पयोनिधौ ॥
निद्रापरवशः शेषे स कथं सात्त्विको भवान्
त्वदादिस्तम्बपर्यन्तं रुद्रशक्तिविजृम्भितम् ॥
शक्तिमानभितस्त्वं च ह्य् अनलस्त्वं च मोहितः
तत्तेजसो ऽपि माहात्म्यं युवां द्रष्टुं न हि क्षमौ ॥
स्थूला ये हि प्रपश्यन्ति तद्विष्णोः परमं पदम्
द्यावापृथिव्या इन्द्राग्नि यमस्य वरुणस्य च ॥
ध्वान्तोदरे शशाङ्कस्य जनित्वा परमेश्वरः
कालो ऽसि त्वं महाकालः कालकालो महेश्वरः ॥
अतस्त्वमुग्रकलया मृत्योर्मृत्युर्भविष्यसि
स्थिरधन्वा क्षयो वीरो वीरो विश्वाधिकः प्रभुः ॥
उपहस्ता ज्वरं भीमो मृगपक्षिहिरण्मयः
शास्ताशेषस्य जगतो न त्वं नैवचतुर्मुखः ॥
इत्थं सर्वं समालोक्य संहरात्मानम् आत्मना
नो चेदिदानीं क्रोधस्य महाभैरवरूपिणः ॥
वज्राशनिरिव स्थाणोस् त्व् एवं मृत्युः पतिष्यति
इत्युक्तो वीरभद्रेण नृसिंहः क्रोधविह्वलः ॥
ननाद तनुवेगेन तं गृहीतुं प्रचक्रमे
अत्रान्तरे महाघोरं विपक्षभयकारणम् ॥
गगनव्यापि दुर्धर्ष शैवतेजःसमुद्भवम्
वीरभद्रस्य तद्रूपं तत्क्षणादेव दृश्यते ॥
न तद्धिरण्मयं सौम्यं न सौरं नाग्निसंभवम्
न तडिच्चन्द्रसदृशम् अनौपम्यं महेश्वरम् ॥
तदा तेजांसि सर्वाणि तस्मिन् लीनानि शाङ्करे
ततो व्यक्तो महातेजा व्यक्ते संभवतस्ततः ॥
रुद्रसाधारणं चैव चिह्नितं विकृताकृति
ततः संहाररूपेण सुव्यक्तः परमेश्वरः ॥
पश्यतां सर्वदेवानां जयशब्दादिमङ्गलैः
सहस्रबाहुर् जटिलश् चन्द्रार्धकृतशेखरः ॥
स मृगार्धशरीरेण पक्षाभ्यां चञ्चुना द्विजाः
अतितीक्ष्णमहादंष्ट्रो वज्रतुल्यनखायुधः ॥
कण्ठे कालो महाबाहुश् चतुष्पाद् वह्निसंभवः
युगान्तोद्यतजीमूत भीमगंभीरनिःस्वनः ॥
समं कुपितवृत्ताग्नि व्यावृत्तनयनत्रयः
स्पष्टदंष्ट्रो ऽधरोष्ठश् च हुङ्कारेण युतो हरः ॥
हरिस्तद्दर्शनादेव विनष्टबलविक्रमः
बिभ्रद् और्म्यं सहस्रांशोर् अधः खद्योतविभ्रमम् ॥
अथ विभ्रम्य पक्षाभ्यां नाभिपादे ऽभ्युदारयन्
पादावाबध्य पुच्छेन बाहुभ्यां बाहुमण्डलम् ॥
भिन्दन्नुरसि बाहुभ्यां निजग्राह हरो हरिम्
ततो जगाम गगनं देवैः सह महर्षिभिः ॥
सहसैव भयाद्विष्णुं विहगश् च यथोरगम्
उत्क्षिप्योत्क्षिप्य संगृह्य निपात्य च निपात्य च ॥
उड्डीयोड्डीय भगवान् पक्षाघातविमोहितम्
हरिं हरन्तं वृषभं विश्वेशानं तमीश्वरम् ॥
अनुयान्ति सुराः सर्वे नमोवाक्येन तुष्टुवुः
नीयमानः परवशो दीनवक्त्रः कृताञ्जलिः ॥
तुष्टाव परमेशानं हरिस्तं ललिताक्षरैः
नमो रुद्राय शर्वाय महाग्रासाय विष्णवे ॥
नम उग्राय भीमाय नमः क्रोधाय मन्यवे
नमो भवाय शर्वाय शङ्कराय शिवाय ते ॥
कालकालाय कालाय महाकालाय मृत्यवे
वीराय वीरभद्राय क्षयद्वीराय शूलिने ॥
महादेवाय महते पशूनां पतये नमः
एकाय नीलकण्ठाय श्रीकण्ठाय पिनाकिने ॥
नमो ऽनन्ताय सूक्ष्माय नमस्ते मृत्युमन्यवे
पराय परमेशाय परात्परतराय ते ॥
परात्पराय विश्वाय नमस्ते विश्वमूर्त्तये
नमो विष्णुकलत्राय विष्णुक्षेत्राय भानवे ॥
कैवर्ताय किराताय महाव्याधाय शाश्वते
भैरवाय शरण्याय महाभैरवरूपिणे ॥
नमो नृसिंहसंहर्त्रे कामकालपुरारये
महापाशौघसंहर्त्रे विष्णुमायान्तकारिणे ॥
त्र्यंबकाय त्र्यक्षराय शिपिविष्टाय मीढुषे
मृत्युञ्जयाय शर्वाय सर्वज्ञाय मखारये ॥
मखेशाय वरेण्याय नमस्ते वह्निरूपिणे
महाघ्राणाय जिह्वाय प्राणापानप्रवर्तिने ॥
त्रिगुणाय त्रिशूलाय गुणातीताय योगिने
संसाराय प्रवाहाय महायन्त्रप्रवर्तिने ॥
नमश्चन्द्राग्निसूर्याय मुक्तिवैचित्र्यहेतवे
वरदायावताराय सर्वकारणहेतवे ॥
कपालिने करालाय पतये पुण्यकीर्त्तये
अमोघायाग्निनेत्राय लकुलीशाय शंभवे ॥
भिषक्तमाय मुण्डाय दण्डिने योगरूपिणे
मेघवाहाय देवाय पार्वतीपतये नमः ॥
अव्यक्ताय विशोकाय स्थिराय स्थिरधन्विने
स्थाणवे कृत्तिवासाय नमः पञ्चार्थहेतवे ॥
वरदायैकपादाय नमश्चन्द्रार्धमौलिने
नमस्ते ऽध्वरराजाय वयसां पतये नमः ॥
योगीश्वराय नित्याय सत्याय परमेष्ठिने
सर्वात्मने नमस्तुभ्यं नमः सर्वेश्वराय ते ॥
एकद्वित्रिचतुःपञ्च कृत्वस् ते ऽस्तु नमोनमः
दशकृत्वस्तु साहस्र कृत्वस्ते च नमोनमः ॥
नमो ऽपरिमितं कृत्वा -नन्तकृत्वो नमोनमः
नमोनमो नमो भूयः पुनर्भूयो नमोनमः ॥
नाम्नामष्टशतेनैवं स्तुत्वामृतमयेन तु
पुनस्तु प्रार्थयामास नृसिंहः शरभेश्वरम् ॥
यदा यदा ममाज्ञानम् अत्यहङ्कारदूषितम्
तदा तदापनेतव्यं त्वयैव परमेश्वर ॥
एवं विज्ञापयन्प्रीतः शङ्करं नरकेसरी
नन्वशक्तो भवान् विष्णो जीवितान्तं पराजितः ॥
तद्वक्त्रशेषमात्रान्तं कृत्वा सर्वस्य विग्रहम्
शुक्तिशित्यं तदा मङ्गं वीरभद्रः क्षणात्ततः ॥
अथ ब्रह्मादयः सर्वे वीरभद्र त्वया दृशा
जीविताः स्मो वयं देवाः पर्जन्येनेव पादपाः ॥
यस्य भीषा दहत्यग्निर् उदेति च रविः स्वयम्
वातो वाति च सो ऽसि त्वं मृत्युर्धावति पञ्चमः ॥
यदव्यक्तं परं व्योम कलातीतं सदाशिवम्
भगवंस्त्वामेव भवं वदन्ति ब्रह्मवादिनः ॥
के वयमेव धातुक्ये वेदने परमेश्वरः
न विद्धि परमं धाम रूपलावण्यवर्णने ॥
उपसर्गेषु सर्वेषु त्रायस्वास्मान् गणाधिप
एकादशात्मन् भगवान् वर्तते रूपवान् हरः ॥
ईदृशान् ते ऽवताराणि दृष्ट्वा शिव बहूंस्तमः
कदाचित् संदिहेन् नास्मांस् त्वच्चिन्तास्तमया तथा ॥
गुञ्जागिरिवरतटा -मितरूपाणि सर्वशः
अभ्यसंहर गम्यं ते न नीतव्यं परापरा ॥
द्वे तनू तव रुद्रस्य वेदज्ञा ब्राह्मणा विदुः
घोराप्यन्या शिवाप्यन्या ते प्रत्येकमनेकधा ॥
इहास्मान्पाहि भगवन् नित्याहतमहाबलः
भवता हि जगत्सर्वं व्याप्तं स्वेनैव तेजसा ॥
ब्रह्मविष्ण्विन्द्रचन्द्रादि वयं च प्रमुखाः सुराः
सुरासुराः सम्प्रसूतास् त्वत्तः सर्वे महेश्वर ॥
ब्रह्मा च इन्द्रो विष्णुश् च यमाद्या न सुरासुरान्
ततो निगृह्य च हरिं सिंह इत्य् उपचेतसम् ॥
यतो बिभर्षि सकलं विभज्य तनुमष्टधा
अतो ऽस्मान् पाहि भगवन् सुरान् दानैर् अभीप्सितैः ॥
उवाच तान् सुरान्देवो महर्षींश् च पुरातनान्
यथा जले जलं क्षिप्तं क्षीरं क्षीरे घृतं घृते ॥
एक एव तदा विष्णुः शिवलीनो न चान्यथा
एष एव नृसिंहात्मा सदर्पश् च महाबलः ॥
जगत्संहारकारेण प्रवृत्तो नरकेसरी
याजनीयो नमस्तस्मै मद्भक्तिसिद्धिकाङ्क्षिभिः ॥
एतावदुक्त्वा भगवान् वीरभद्रो महाबलः
अपश्यन् सर्वभूतानां तत्रैवान्तरधीयत ॥
नृसिंहकृत्तिवसनस् तदाप्रभृति शङ्करः
वक्त्रं तन्मुण्डमालायां नायकत्वेन कल्पितम् ॥
ततो देवा निरातङ्काः कीर्तयन्तः कथामिमाम्
विस्मयोत्फुल्लनयना जग्मुः सर्वे यथागतम् ॥
य इदं परमाख्यानं पुण्यं वेदैः समन्वितम्
पठित्वा शृणुते चैव सर्वदुःखविनाशनम् ॥
धन्यं यशस्यम् आयुष्यम् आरोग्यं पुष्टिवर्धनम्
सर्वविघ्नप्रशमनं सर्वव्याधिविनाशनम् ॥
अपमृत्युप्रशमनं महाशान्तिकरं शुभम्
अरिचक्रप्रशमनं सर्वाधिप्रविनाशनम् ॥
ततो दुःस्वप्नशमनं सर्वभूतनिवारणम्
विषग्रहक्षयकरं पुत्रपौत्रादिवर्धनम् ॥
योगसिद्धिप्रदं सम्यक् शिवज्ञानप्रकाशकम्
शेषलोकस्य सोपानं वाञ्छितार्थैकसाधनम् ॥
विष्णुमायानिरसनं देवतापरमार्थदम्
वाञ्छासिद्धिप्रदं चैव ऋद्धिप्रज्ञादिसाधनम् ॥
इदं तु शरभाकारं परं रूपं पिनाकिनः
प्रकाशितव्यं भक्तेषु चिरेषूद्यमितेषु च ॥
तैरेव पठितव्यं च श्रोतव्यं च शिवात्मभिः
शिवोत्सवेषु सर्वेषु चतुर्दश्यष्टमीषु च ॥
पठेत्प्रतिष्ठाकालेषु शिवसन्निधिकारणम्
चोरव्याघ्राहिसिंहान्त कृतो राजभयेषु च ॥
अत्रान्योत्पातभूकम्प दवाग्निपांसुवृष्टिषु
उल्कापाते महावाते विना वृष्ट्यातिवृष्टिषु ॥
अतस्तत्र पठेद्विद्वाञ् छिवभक्तो दृढव्रतः
यः पठेच्छृणुयाद्वापि स्तवं सर्वमनुत्तमम् ॥
स रुद्रत्वं समासाद्य रुद्रस्यानुचरो भवेत् ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0