भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.95

1.95.1

नृसिंहेन हतः पूर्वं हिरण्याक्षाग्रजः श्रुतम्
कथं निषूदितस्तेन हिरण्यकशिपुर्वद ॥

1.95.2

हिरण्यकशिपोः पुत्रः प्रह्राद इति विश्रुतः
धर्मज्ञः सत्यसम्पन्नस् तपस्वी चाभवत्सुधीः ॥

1.95.3

जन्मप्रभृति देवेशं पूजयामास चाव्ययम्
सर्वज्ञं सर्वगं विष्णुं सर्वदेवभवोद्भवम् ॥

1.95.4

तमादिपुरुषं भक्त्या परब्रह्मस्वरूपिणम्
ब्रह्मणो ऽधिपतिं सृष्टि स्थितिसंहारकारणम् ॥

1.95.5

सो ऽपि विष्णोस्तथाभूतं दृष्ट्वा पुत्रं समाहितम्
नमो नारायणायेति गोविन्देति मुहुर्मुहुः ॥

1.95.6

स्तुवन्तं प्राह देवारिः प्रदहन्निव पापधीः
न मां जानासि दुर्बुद्धे सर्वदैत्यामरेश्वरम् ॥

1.95.7

प्रह्राद वीर दुष्पुत्र द्विजदेवार्तिकारणम्
को विष्णुः पद्मजो वापि शक्रश् च वरुणो ऽथवा ॥

1.95.8

वायुः सोमस्तथेशानः पावको मम यः समः
मामेवार्चय भक्त्या च स्वल्पं नारायणं सदा ॥

1.95.9

प्रह्राद जीविते वाञ्छा तवैषा शृणु चास्ति चेत्
श्रुत्वापि तस्य वचनं हिरण्यकशिपोः सुधीः ॥

1.95.10

प्रह्रादः पूजयामास नमो नारायणेति च
नमो नारायणायेति सर्वदैत्यकुमारकान् ॥

1.95.11

अध्यापयामास च तां ब्रह्मविद्यां सुशोभनाम्
दुर्लङ्घ्यां चात्मनो दृष्ट्वा शक्रादिभिर् अपि स्वयम् ॥

1.95.12

पुत्रेण लङ्घितामाज्ञां हिरण्यः प्राह दानवान्
एतं नानाविधैर्वध्यं दुष्पुत्रं हन्तुमर्हथ ॥

1.95.13

एवमुक्तास्तदा तेन दैत्येन सुदुरात्मना
निजघ्नुर्देवदेवस्य भृत्यं प्रह्रादमव्ययम् ॥

1.95.14

तत्र तत्प्रतिकृतं तदा सुरैर् दैत्यराजतनयं द्विजोत्तमाः
क्षीरवारिनिधिशायिनः प्रभोर् निष्फलं त्वथ बभूव तेजसा ॥

1.95.15

तदाथ गर्वभिन्नस्य हिरण्यकशिपोः प्रभुः
तत्रैवाविरभूद्धन्तुं नृसिंहाकृतिमास्थितः ॥

1.95.16

जघान च सुतं प्रेक्ष्य पितरं दानवाधमम्
बिभेद तत्क्षणादेव करजैर् निशितैः शतैः ॥

1.95.17

ततो निहत्य तं दैत्यं सबान्धवमघापहः
पीडयामास दैत्येन्द्रं युगान्ताग्निरिवापरः ॥

1.95.18

नादैस्तस्य नृसिंहस्य घोरैर्वित्रासितं जगत्
आ ब्रह्मभुवनाद् विप्राः प्रचचाल च सुव्रताः ॥

1.95.19

दृष्ट्वा सुरासुरमहोरगसिद्धसाध्यास् तस्मिन् क्षणे हरिविरिञ्चिमुखा नृसिंहम्
धैर्यं बलं च समवाप्य ययुर्विसृज्य आ दिङ्मुखान्तम् असुरक्षणतत्पराश् च ॥

1.95.20

ततस्तैर्गतैः सैष देवो नृसिंहः सहस्राकृतिः सर्वपात् सर्वबाहुः
सहस्रेक्षणः सोमसूर्याग्निनेत्रस् तदा संस्थितः सर्वमावृत्य मायी ॥

1.95.21

तं तुष्टुवुः सुरश्रेष्ठा लोका लोकाचले स्थिताः
सब्रह्मकाः ससाध्याश् च सयमाः समरुद्गणाः ॥

1.95.22

परात्परतरं ब्रह्म तत्त्वात् तत्त्वतमं भवान्
ज्योतिषां तु परं ज्योतिः परमात्मा जगन्मयः ॥

1.95.23

स्थूलं सूक्ष्मं सुसूक्ष्मं च शब्दब्रह्ममयः शुभः
वागतीतो निरालंबो निर्द्वन्द्वो निरुपप्लवः ॥

1.95.24

यज्ञभुग्यज्ञमूर्तिस्त्वं यज्ञिनां फलदः प्रभुः
भवान्मत्स्याकृतिः कौर्मम् आस्थाय जगति स्थितः ॥

1.95.25

वाराहीं चैव तां सैंहीम् आस्थायेहव्यवस्थितः
देवानां देवरक्षार्थं निहत्य दितिजेश्वरम् ॥

1.95.26

द्विजशापच्छलेनैवम् अवतीर्णो ऽसि लीलया
न दृष्टं यत्त्वदन्यं हि भवान् सर्वं चराचरम् ॥

1.95.27

भवान्विष्णुर्भवान् रुद्रो भवानेव पितामहः
भवानादिर्भवानन्तो भवानेव वयं विभो ॥

1.95.28

भवानेव जगत्सर्वं प्रलापेन किमीश्वर
मायया बहुधा संस्थम् अद्वितीयमयं प्रभो ॥

1.95.29

स्तोष्यामस्त्वां कथं भासि देवदेव मृगाधिप
स्तुतो ऽपि विविधैः स्तुत्यैर् भावैर्नानाविधैः प्रभुः ॥

1.95.30

न जगाम द्विजाः शान्तिं मानयन्योनिमात्मनः
यो नृसिंहस्तवं भक्त्या पठेद्वार्थं विचारयेत् ॥

1.95.31

श्रावयेद्वा द्विजान्सर्वान् विष्णुलोके महीयते
तदन्तरे शिवं देवाः सेन्द्राः सब्रह्मकाः प्रभुम् ॥

1.95.32

सम्प्राप्य तुष्टुवुः सर्वं विज्ञाप्य मृगरूपिणः
ततो ब्रह्मादयस्तूर्णं संस्तूय परमेश्वरम् ॥

1.95.33

आत्मत्राणाय शरणं जग्मुः परमकारणम्
मन्दरस्थं महादेवं क्रीडमानं सहोमया ॥

1.95.34

सेवितं गणगन्धर्वैः सिद्धैरप्सरसां गणैः
देवताभिः सह ब्रह्मा भीतभीतः सगद्गदम्
प्रणम्य दण्डवद्भूमौ तुष्टाव परमेश्वरम् ॥

1.95.35

नमस्ते कालकालाय नमस्ते रुद्र मन्यवे
नमः शिवाय रुद्राय शङ्कराय शिवाय ते ॥

1.95.36

उग्रो ऽसि सर्वभूतानां नियन्तासि शिवो ऽसि नः
नमः शिवाय शर्वाय शङ्करायार्त्तिहारिणे ॥

1.95.37

मयस्कराय विश्वाय विष्णवे ब्रह्मणे नमः
अन्तकाय नमस्तुभ्यम् उमायाः पतये नमः ॥

1.95.38

हिरण्यबाहवे साक्षाद् धिरण्यपतये नमः
शर्वाय सर्वरूपाय पुरुषाय नमोनमः ॥

1.95.39

सदसद्व्यक्तिहीनाय महतः कारणाय ते
नित्याय विश्वरूपाय जायमानाय ते नमः ॥

1.95.40

जाताय बहुधा लोके प्रभूताय नमोनमः
रुद्राय नीलरुद्राय कद्रुद्राय प्रचेतसे ॥

1.95.41

कालाय कालरूपाय नमः कालाङ्गहारिणे
मीढुष्टमाय देवाय शितिकण्ठाय ते नमः ॥

1.95.42

महीयसे नमस्तुभ्यं हन्त्रे देवारिणां सदा
ताराय च सुताराय तारणाय नमोनमः ॥

1.95.43

हरिकेशाय देवाय शंभवे परमात्मने
देवानां शंभवे तुभ्यं भूतानां शंभवे नमः ॥

1.95.44

शम्भवे हैमवत्याश् च मन्यवे रुद्ररूपिणे
कपर्दिने नमस्तुभ्यं कालकण्ठाय ते नमः ॥

1.95.45

हिरण्याय महेशाय श्रीकण्ठाय नमोनमः
भस्मदिग्धशरीराय दण्डमुण्डीश्वराय च ॥

1.95.46

नमो ह्रस्वाय दीर्घाय वामनाय नमोनमः
नम उग्रत्रिशूलाय उग्राय च नमो नमः ॥

1.95.47

भीमाय भीमरूपाय भीमकर्मरताय ते
अग्रेवधाय वै भूत्वा नमो दूरेवधाय च ॥

1.95.48

धन्विने शूलिने तुभ्यं गदिने हलिने नमः
चक्रिणे वर्मिणे नित्यं दैत्यानां कर्मभेदिने ॥

1.95.49

सद्याय सद्यरूपाय सद्योजाताय ते नमः
वामाय वामरूपाय वामनेत्राय ते नमः ॥

1.95.50

पुरुषरूपाय पुरुषैकतत्पुरुषाय वै नमः ॥

1.95.51

पुरुषार्थप्रदानाय पतये परमेष्ठिने
ईशानाय नमस्तुभ्यम् ईश्वराय नमोनमः ॥

1.95.52

ब्रह्मणे ब्रह्मरूपाय नमः साक्षाच्छिवाय ते
सर्वविष्णुर्नृसिंहस्य रूपमास्थाय विश्वकृत् ॥

1.95.53

हिरण्यकशिपुं हत्वा करजैर्निशितैः स्वयम्
दैत्येन्द्रैर्बहुभिः सार्धं हितार्थं जगतां प्रभुः ॥

1.95.54

सैंहीं समानयन्योनिं बाधते निखिलं जगत्
यत्कृत्यमत्र देवेश तत्कुरुष्व भवानिह ॥

1.95.55

उग्रो ऽसि सर्वदुष्टानां नियन्तासि शिवो ऽसि नः
कालकूटादिवपुषा त्राहि नः शरणागतान् ॥

1.95.56

शुक्रं तु वृत्तं विश्वेश क्रीडा वै केवलं वयम्
तवोन्मेषनिमेषाभ्याम् अस्माकं प्रलयोदयौ ॥

1.95.57

उन्मीलयेत् त्वयि ब्रह्मन् विनाशो ऽस्ति न ते शिव
संतप्तास्मो वयं देव हरिणामिततेजसा ॥

1.95.58

सर्वलोकहितायैनं तत्त्वं संहर्तुमिच्छसि
विज्ञापितस् तथा देवः प्रहसन्प्राह तान् सुरान् ॥

1.95.59

अभयं च ददौ तेषां हनिष्यामीति तं प्रभुः
सो ऽपि शक्रः सुरैः सार्धं प्रणिपत्य यथागतम् ॥

1.95.60

जगाम भगवान् ब्रह्मा तथान्ये च सुरोत्तमाः
अथोत्थाय महादेवः शारभं रूपमास्थितः ॥

1.95.61

ययौ प्रान्ते नृसिंहस्य गर्वितस्य मृगाशिनः
अपहृत्य तदा प्राणान् शरभः सुरपूजितः ॥

1.95.62

सिंहात्ततो नरो भूत्वा जगाम च यथाक्रमम्
एवं स्तुतस्तदा देवैर् जगाम स यथाक्रमम् ॥

1.95.63

यः पठेच्छृणुयाद्वापि संस्तवं शार्वमुत्तमम्
रुद्रलोकमनुप्राप्य रुद्रेण सह मोदते ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc