लिङ्गपुराण · अध्याय 1.97
जलन्धरं जटामौलिः पुरा जम्भारिविक्रमम्
कथं जघान भगवान् भगनेत्रहरो हरः ॥
वक्तुमर्हसि चास्माकं रोमहर्षण सुव्रत
जलन्धर इति ख्यातो जलमण्डलसंभवः ॥
आसीदन्तकसंकाशस् तपसा लब्धविक्रमः
तेन देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ॥
निर्जिताः समरे सर्वे ब्रह्मा च भगवानजः
जित्वैव देवसंघातं ब्रह्माणं वै जलन्धरः ॥
जगाम देवदेवेशं विष्णुं विश्वहरं गुरुम्
तयोः समभवद्युद्धं दिवारात्रम् अविश्रमम् ॥
जलन्धरेशयोस्तेन निर्जितो मधुसूदनः
जलन्धरो ऽपि तं जित्वा देवदेवं जनार्दनम् ॥
प्रोवाचेदं दितेः पुत्रान् न्यायधीर्जेतुमीश्वरम्
सर्वे जिता मया युद्धे शङ्करो ह्यजितो रणे ॥
तं जित्वा सर्वमीशानं गणपैर् नन्दिना क्षणात्
अहमेव भवत्वं च ब्रह्मत्वं वैष्णवं तथा ॥
वासवत्वं च युष्माकं दास्ये दानवपुङ्गवाः
जलन्धरवचः श्रुत्वा सर्वे ते दानवाधमाः ॥
जगर्जुरुच्चैः पापिष्ठा मृत्युदर्शनतत्पराः
दैत्यैरेतैस्तथान्यैश् च रथनागतुरङ्गमैः ॥
संनद्धैः सह संनह्य शर्वं प्रति ययौ बली
भवो ऽपि दृष्ट्वा दैत्येन्द्रं मेरुकूटमिव स्थितम् ॥
अवध्यत्वम् अपि श्रुत्वा तथान्यैर् भगनेत्रहा
ब्रह्मणो वचनं रक्षन् रक्षको जगतां प्रभुः ॥
सांबः सनन्दी सगणः प्रोवाच प्रहसन्निव
किं कृत्यमसुरेशान युद्धेनानेन सांप्रतम् ॥
मद्बाणैर्भिन्नसर्वाङ्गो मर्तुमभ्युद्यते मुदा
जलन्धरो ऽपि तद्वाक्यं श्रुत्वा श्रोत्रविदारणम् ॥
सुरेश्वरमुवाचेदं सुरेतरबलेश्वरः
वाक्येनालं महाबाहो देवदेव वृषध्वज ॥
चन्द्रांशुसन्निभैः शस्त्रैर् हर योद्धुमिहागतः
निशम्यास्य वचः शूली पादाङ्गुष्ठेन लीलया
महांभसि चकाराशु रथाङ्गं रौद्रमायुधम् ॥
कृत्वार्णवांभसि सितं भगवान् रथाङ्गं स्मृत्वा जगत्त्रयमनेन हताः सुराश् च
दक्षान्धकान्तकपुरत्रययज्ञहर्ता लोकत्रयान्तककरः प्रहसंतदाह ॥
पादेन निर्मितं दैत्य जलन्धर महार्णवे
बलवान् यदि चोद्धर्तुं तिष्ठ योद्धुं न चान्यथा ॥
तस्य तद्वचनं श्रुत्वा क्रोधेनादीप्तलोचनः
प्रदहन्निव नेत्राभ्यां प्राहालोक्य जगत्त्रयम् ॥
गदामुद्धृत्य हत्वा च नन्दिनं त्वां च शङ्कर
हत्वा लोकान्सुरैः सार्धं डुण्डुभान् गरुडो यथा ॥
हन्तुं चराचरं सर्वं समर्थो ऽहं सवासवम्
को महेश्वर मद्बाणैर् अच्छेद्यो भुवनत्रये ॥
बालभावे च भगवान् तपसैव विनिर्जितः
ब्रह्मा बली यौवने वै मुनयः सुरपुङ्गवैः ॥
दग्धं क्षणेन सकलं त्रैलोक्यं सचराचरम्
तपसा किं त्वया रुद्र निर्जितो भगवानपि ॥
इन्द्राग्नियमवित्तेश वायुवारीश्वरादयः
न सेहिरे यथा नागा गन्धं पक्षिपतेरिव ॥
न लब्ध्वा दिवि भूमौ च बाहवो मम शङ्कर
समस्तान्पर्वतान्प्राप्य घर्षिताश् च गणेश्वर ॥
गिरीन्द्रो मन्दरः श्रीमान् नीलो मेरुः सुशोभनः
घर्षितो बाहुदण्डेन कण्डूनोदार्थम् आपतत् ॥
गङ्गा निरुद्धा बाहुभ्यां लीलार्थं हिमवद्गिरौ
नारीणां मम भृत्यैश् च वज्रो बद्धो दिवौकसाम् ॥
वडवाया मुखं भग्नं गृहीत्वा वै करेण तु
तत्क्षणादेव सकलं चैकार्णवमभूदिदम् ॥
ऐरावतादयो नागाः क्षिप्ताः सिन्धुजलोपरि
सरथो भगवानिन्द्रः क्षिप्तश् च शतयोजनम् ॥
गरुडो ऽपि मया बद्धो नागपाशेन विष्णुना
उर्वश्याद्या मया नीता नार्यः कारागृहान्तरम् ॥
कथंचिल्लब्धवान् शक्रः शचीमेकां प्रणम्य माम्
मां न जानासि दैत्येन्द्रं जलन्धरमुमापते ॥
एवमुक्तो महादेवः प्रादहद्वै रथं तदा
तस्य नेत्राग्निभागैक कलार्धार्धेन चाकुलम् ॥
दैत्यानामतुलबलैर्हयैश् च नागैर् दैत्येन्द्रास् त्रिपुररिपोर् निरीक्षणेन
नागाद् वैशसम् अनुसंवृतश् च नागैर् देवेशं वचनमुवाच चाल्पबुद्धिः ॥
किं कार्यं मम युधि देवदैत्यसंघैर् हन्तुं यत्सकलमिदं क्षणात्समर्थः
यत्तस्माद्भयमिहनास्ति योद्धुम् ईश वाञ्छैषा विपुलतरा न संशयो ऽत्र ॥
तस्मात्त्वं मम मदनारिदक्षशत्रो यज्ञारे त्रिपुररिपो ममैव वीरैः
भूतेन्द्रैर्हरिवदनेन देवसंघैर् योद्धुं ते बलमिह चास्ति चेद्धि तिष्ठ ॥
इत्युक्त्वाथ महादेवं महादेवारिनन्दनः
न चचाल न सस्मार निहतान्बान्धवान्युधि ॥
दुर्मदेनाविनीतात्मा दोर्भ्यामास्फोट्य दोर्बलात्
सुदर्शनाख्यं यच्चक्रं तेन हन्तुं समुद्यतः ॥
दुर्धरेण रथाङ्गेन कृच्छ्रेणापि द्विजोत्तमाः
स्थापयामास वै स्कन्धे द्विधाभूतश् च तेन वै ॥
कुलिशेन यथा छिन्नो द्विधा गिरिवरो द्विजाः
पपात दैत्यो बलवान् अञ्जनाद्रिरिवापरः ॥
तस्य रक्तेन रौद्रेण सम्पूर्णम् अभवत्क्षणात्
तद्रक्तमखिलं रुद्र नियोगान्मांसमेव च ॥
महारौरवमासाद्य रक्तकुण्डमभूदहो
जलन्धरं हतं दृष्ट्वा देवगन्धर्वपार्षदाः ॥
सिंहनादं महत्कृत्वा साधु देवेति चाब्रुवन्
यः पठेच्छृणुयाद्वापि जलन्धरविमर्दनम् ॥
श्रावयेद्वा यथान्यायं गाणपत्यमवाप्नुयात् ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0