भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.93

1.93.1

अन्धको नाम दैत्येन्द्रो मन्दरे चारुकन्दरे
दमितस्तु कथं लेभे गाणपत्यं महेश्वरात् ॥

1.93.2

वक्तुमर्हसि चास्माकं यथावृत्तं यथाश्रुतम्
अन्धकानुग्रहं चैव मन्दरे शोषणं तथा ॥

1.93.3

वरलाभमशेषं च प्रवदामि समासतः
हिरण्याक्षस्य तनयो हिरण्यनयनोपमः ॥

1.93.4

पुरान्धक इति ख्यातस् तपसा लब्धविक्रमः
प्रसादाद्ब्रह्मणः साक्षाद् अवध्यत्वमवाप्य च ॥

1.93.5

त्रैलोक्यमखिलं भुक्त्वा जित्वा चेन्द्रपुरं पुरा
लीलया चाप्रयत्नेन त्रासयामास वासवम् ॥

1.93.6

बाधितास्ताडिता बद्धाः पातितास्तेन ते सुराः
विविशुर्मन्दरं भीता नारायणपुरोगमाः ॥

1.93.7

एवं संपीड्य वै देवान् अन्धको ऽपि महासुरः
यदृच्छया गिरिं प्राप्तो मन्दरं चारुकन्दरम् ॥

1.93.8

ततस्ते समस्ताः सुरेन्द्राः ससाध्याः सुरेशं महेशं पुरेत्याहुरेवम्
द्रुतं चाल्पवीर्यप्रभिन्नाङ्गभिन्ना वयं दैत्यराजस्य शस्त्रैर्निकृत्ताः ॥

1.93.9

इतीदमखिलं श्रुत्वा दैत्यागमम् अनौपमम्
गणेश्वरैश् च भगवान् अन्धकाभिमुखं ययौ ॥

1.93.10

जयेति वाचा भगवन्तम् ऊचुः किरीटबद्धाञ्जलयः समन्तात् ॥

1.93.11

अथाशेषासुरांस्तस्य कोटिकोटिशतैस् ततः
भस्मीकृत्य महादेवो निर्बिभेदान्धकं तदा ॥

1.93.12

शूलेन शूलिना प्रोतं दग्धकल्मषकञ्चुकम्
दृष्ट्वान्धकं ननादेशं प्रणम्य स पितामहः ॥

1.93.13

तन्नादश्रवणान्नेदुर् देवा देवं प्रणम्य तम्
ननृतुर्मुनयः सर्वे मुमुदुर्गणपुङ्गवाः ॥

1.93.14

ससृजुः पुष्पवर्षाणि देवाः शंभोस्तदोपरि
त्रैलोक्यमखिलं हर्षान् ननन्द च ननाद च ॥

1.93.15

दग्धो ऽग्निना च शूलेन प्रोतः प्रेत इवान्धकः
सात्त्विकं भावमास्थाय चिन्तयामास चेतसा ॥

1.93.16

जन्मान्तरे ऽपि देवेन दग्धो यस्माच्छिवेन वै
आराधितो मया शंभुः पुरा साक्षान्महेश्वरः ॥

1.93.17

तस्मादेतन्मया लब्धम् अन्यथा नोपपद्यते
यः स्मरेन्मनसा रुद्रं प्राणान्ते सकृदेव वा ॥

1.93.18

स याति शिवसायुज्यं किं पुनर्बहुशः स्मरन्
ब्रह्मा च भगवान्विष्णुः सर्वे देवाः सवासवाः ॥

1.93.19

शरणं प्राप्य तिष्ठन्ति तमेव शरणं व्रजेत्
एवं संचिन्त्य तुष्टात्मा सो ऽन्धकश् चान्धकार्दनम् ॥

1.93.20

सगणं शिवमीशानम् अस्तुवत्पुण्यगौरवात्
प्रार्थितस्तेन भगवान् परमार्तिहरो हरः ॥

1.93.21

हिरण्यनेत्रतनयं शूलाग्रस्थं सुरेश्वरः
प्रोवाच दानवं प्रेक्ष्य घृणया नीललोहितः ॥

1.93.22

तुष्टो ऽस्मि वत्स भद्रं ते कामं किं करवाणि ते
वरान्वरय दैत्येन्द्र वरदो ऽहं तवान्धक ॥

1.93.23

श्रुत्वा वाक्यं तदा शंभोर् हिरण्यनयनात्मजः
हर्षगद्गदया वाचा प्रोवाचेदं महेश्वरम् ॥

1.93.24

भगवन्देवदेवेश भक्तार्तिहर शङ्कर
त्वयि भक्तिः प्रसीदेश यदि देयो वरश् च मे ॥

1.93.25

श्रुत्वा भवो ऽपि वचनम् अन्धकस्य महात्मनः
प्रददौ दुर्लभां श्रद्धां दैत्येन्द्राय महाद्युतिः ॥

1.93.26

गाणपत्यं च दैत्याय प्रददौ चावरोप्य तम्
प्रणेमुस्तं सुरेन्द्राद्या गाणपत्ये प्रतिष्ठितम् ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc