लिङ्गपुराण · अध्याय 1.92
एवं वाराणसी पुण्या यदि सूत महामते
वक्तुमर्हसि चास्माकं तत्प्रभावं हि सांप्रतम् ॥
क्षेत्रस्यास्य च माहात्म्यम् अविमुक्तस्य शोभनम्
विस्तरेण यथान्यायं श्रोतुं कौतूहलं हि नः ॥
वक्ष्ये संक्षेपतः सम्यक् वाराणस्याः सुशोभनम्
अविमुक्तस्य माहात्म्यं यथाह भगवान् भवः ॥
विस्तरेण मया वक्तुं ब्रह्मणा च महात्मना
शक्यते नैव विप्रेन्द्रा वर्षकोटिशतैरपि ॥
देवः पुरा कृतोद्वाहः शङ्करो नीललोहितः
हिमवच्छिखराद्देव्या हैमवत्या गणेश्वरैः ॥
वाराणसीमनुप्राप्य दर्शयामास शङ्करः
अविमुक्तेश्वरं लिङ्गं वासं तत्र चकार सः ॥
वाराणसीकुरुक्षेत्र श्रीपर्वतमहालये
तुङ्गेश्वरे च केदारे तत्स्थाने यो यतिर्भवेत् ॥
योगे पाशुपते सम्यक् दिनमेकं यतिर्भवेत्
तस्मात्सर्वं परित्यज्य चरेत् पाशुपतं व्रतम् ॥
देवोद्याने वसेत्तत्र शर्वोद्यानमनुत्तमम्
मनसा निर्ममे रुद्रो विमानं च सुशोभनम् ॥
दर्शयामास च तदा देवोद्यानमनुत्तमम्
हैमवत्याः स्वयं देवः सनन्दी परमेश्वरः ॥
क्षेत्रस्यास्य च माहात्म्यम् अविमुक्तस्य शङ्करः
उक्तवान्परमेशानः पार्वत्याः प्रीतये भवः ॥
प्रफुल्लनानाविधगुल्मशोभितं लताप्रतानादिमनोहरं बहिः
विरूढपुष्पैः परितः प्रियङ्गुभिः सुपुष्पितैः कण्टकितैश् च केतकैः ॥
तमालगुल्मैर्निचितं सुगन्धिभिर् निकामपुष्पैर्वकुलैश् च सर्वतः
अशोकपुन्नागशतैः सुपुष्पितैर् द्विरेफमालाकुलपुष्पसंचयैः ॥
क्वचित् प्रफुल्लाम्बुजरेणुभूषितैर् विहङ्गमैश् चानुकलप्रणादिभिः
विनादितं सारसचक्रवाकैः प्रमत्तदात्यूहवरैश् च सर्वतः ॥
क्वचिच्च केकारुतनादितं शुभं क्वचिच्च कारण्डवनादनादितम्
क्वचिच्च मत्तालिकुलाकुलीकृतं मदाकुलाभिर् भ्रमराङ्गनादिभिः ॥
निषेवितं चारुसुगन्धिपुष्पकैः क्वचित् सुपुष्पैः सहकारवृक्षैः
लतोपगूढैस्तिलकैश् च गूढं प्रगीतविद्याधरसिद्धचारणम् ॥
प्रवृत्तनृत्तानुगताप्सरोगणं प्रहृष्टनानाविधपक्षिसेवितम्
प्रनृत्तहारीतकुलोपनादितं मृगेन्द्रनादाकुलमत्तमानसैः ॥
क्वचित् क्वचिद् गन्धकदम्बकैर् मृगैर् विलूनदर्भाङ्कुरपुष्पसंचयम्
प्रफुल्लनानाविधचारुपङ्कजैः सरस्तडागैरुपशोभितं क्वचित् ॥
विटपनिचयलीनं नीलकण्ठाभिरामं मदमुदितविहङ्गं प्राप्तनादाभिरामम्
कुसुमिततरुशाखालीनमत्तद्विरेफं नवकिसलयशोभाशोभितं प्रांशुशाखम् ॥
क्वचिद्विलासालसगामिनीभिर् निषेवितं किंपुरुषाङ्गनाभिः ॥
पारावतध्वनिविकूजितचारुशृङ्गैर् अभ्रङ्कषैः सितमनोहरचारुरूपैः
आकीर्णपुष्पनिकरप्रविभक्तहंसैर् विभ्राजितं त्रिदशदिव्यकुलैरनेकैः ॥
फुल्लोत्पलांबुजवितानसहस्रयुक्तं तोयाशयैः समनुशोभितदेवमार्गम्
मार्गान्तराकलितपुष्पविचित्रपङ्क्ति सम्बद्धगुल्मविटपैर् विविधैरुपेतम् ॥
तुङ्गाग्रैर् नीलपुष्पस्तबकभरनतप्रांशुशाखैर् अशोकैर् दोलाप्रान्तान्तनीलश्रुतिसुखजनकैर् भासितान्तं मनोज्ञैः
रात्रौ चन्द्रस्य भासा कुसुमिततिलकैरेकतां सम्प्रयातं छायासुप्तप्रबुद्धस्थितहरिणकुलालुप्तदूर्वाङ्कुराग्रम् ॥
हंसानां पक्षवातप्रचलितकमलस्वच्छविस्तीर्णतोयं तोयानां तीरजातप्रचकितकदलीचाटुनृत्यन्मयूरम्
मायूरैः पक्षचन्द्रैः क्वचिदवनिगतै रञ्जितक्ष्माप्रदेशं देशे देशे विलीनप्रमुदितविलसन्मत्तहारीतवृन्दम् ॥
सारङ्गैः क्वचिदुपशोभितप्रदेशं प्रच्छन्नं कुसुमचयैः क्वचिद्विचित्रैः
हृष्टाभिः क्वचिदपि किन्नराङ्गनाभिर् वीणाभिः सुमधुरगीतनृत्तकण्ठम् ॥
संसृष्टैः क्वचिदुपलिप्तकीर्णपुष्पैर् आवासैः परिवृतपादपं मुनीनाम्
आ मूलात् फलनिचितैः क्वचिद्विशालैर् उत्तुङ्गैः पनसमहीरुहैरुपेतम् ॥
रम्यं प्रियङ्गुतरुमञ्जरिसक्तभृङ्गं भृङ्गावलीकवलिताम्रकदम्बपुष्पम् ॥
पुष्पोत्करानिलविघूर्णितवारिरम्यं रम्यद्विरेफविनिपातितमञ्जुगुल्मम्
गुल्मान्तरप्रसभभीतमृगीसमूहं वातेरितं तनुभृतामपवर्गदातृ ॥
चन्द्रांशुजालशबलैस् तिलकैर् मनोज्ञैः सिन्दूरकुङ्कुमकुसुम्भनिभैर् अशोकैः
चामीकरद्युतिसमैरथ कर्णिकारैः पुष्पोत्करैरुपचितं सुविशालशाखैः ॥
क्वचिदञ्जनचूर्णाभैः क्वचिद् विद्रुमसन्निभैः
क्वचित्काञ्चनसंकाशैः पुष्पैर् आचितभूतलम् ॥
पुन्नागेषु द्विजशतविरुतं रक्ताशोकस्तबकभरनतम्
रम्योपान्तक्लमहारभवनं फुल्लाब्जेषु भ्रमरविलसितम् ॥
सकलभुवनभर्ता लोकनाथस्तदानीं तुहिनशिखरपुत्र्या सार्धमिष्टैर्गणेशैः
विविधतरुविशालं मत्तहृष्टान्नपुष्टैर् उपवनम् अतिरम्यं दर्शयामास देव्याः ॥
पुष्पैर्वन्यैः शुभशुभतमैः कल्पितैर्दिव्यभूषैर् देवीं दिव्यामुपवनगतां भूषयामास शर्वः
सा चाप्येनं तुहिनगिरिसुता शङ्करं देवदेवं पुष्पैर्दिव्यैः शुभतरतमैर् भूषयामास भक्त्या ॥
सम्पूज्य पूज्यं त्रिदशेश्वराणां सम्प्रेक्ष्य चोद्यानम् अतीव रम्यम्
गणेश्वरैर् नन्दिमुखैश् च सार्धम् उवाच देवं प्रणिपत्य देवी ॥
उद्यानं दर्शितं देव प्रभया परया युतम्
क्षेत्रस्य च गुणान्सर्वान् पुनर्मे वक्तुमर्हसि ॥
अस्य क्षेत्रस्य माहात्म्यम् अविमुक्तस्य सर्वथा
वक्तुमर्हसि देवेश देवदेव वृषध्वज ॥
देव्यास्तद्वचनं श्रुत्वा देवदेवो वरप्रभुः
आघ्राय वदनाम्भोजं तदाह गिरिजां हसन् ॥
इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम
सर्वेषामेव जन्तूनां हेतुर्मोक्षस्य सर्वदा ॥
अस्मिन्सिद्धाः सदा देवि मदीयं व्रतमास्थिताः
नानालिङ्गधरा नित्यं मम लोकाभिकाङ्क्षिणः ॥
अभ्यस्यन्ति परं योगं युक्तात्मानो जितेन्द्रियाः
नानावृक्षसमाकीर्णे नानाविहगशोभिते ॥
कमलोत्पलपुष्पाढ्यैः सरोभिः समलंकृते
अप्सरोगणगन्धर्वैः सदा संसेविते शुभे ॥
रोचते मे सदा वासो येन कार्येण तच्छृणु
मन्मना मम भक्तश् च मयि नित्यार्पितक्रियः ॥
यथा मोक्षमवाप्नोति अन्यत्र न तथा क्वचित्
कामं ह्यत्र मृतो देवि जन्तुर्मोक्षाय कल्पते ॥
एतन्मम पुरं दिव्यं गुह्याद्गुह्यतमं महत्
ब्रह्मादयो विजानन्ति ये च सिद्धा मुमुक्षवः ॥
अतः परमिदं क्षेत्रं परा चेयं गतिर्मम
विमुक्तं न मया यस्मान् मोक्ष्यते वा कदाचन ॥
मम क्षेत्रमिदं तस्माद् अविमुक्तमिति स्मृतम्
नैमिषे च कुरुक्षेत्रे गङ्गाद्वारे च पुष्करे ॥
स्नानात्संसेवनाद्वापि न मोक्षः प्राप्यते यतः
इह सम्प्राप्यते येन तत एतद्विशिष्यते ॥
प्रयागे वा भवेन्मोक्ष इह वा मत्परिग्रहात्
प्रयागादपि तीर्थाग्र्याद् अविमुक्तमिदं शुभम् ॥
धर्मस्योपनिषत् सत्यं मोक्षस्योपनिषच् छमः
क्षेत्रतीर्थोपनिषदं न विदुर्बुधसत्तमाः ॥
कामं भुञ्जन् स्वपन् क्रीडन् कुर्वन् हि विविधाः क्रियाः
अविमुक्ते त्यजेत्प्राणान् जन्तुर्मोक्षाय कल्पते ॥
कृत्वा पापसहस्राणि पिशाचत्वं वरं नृणाम्
न तु शक्रसहस्रत्वं स्वर्गे काशीपुरीं विना ॥
तस्मात्संसेवनीयं हि अविमुक्तं हि मुक्तये
जैगीषव्यः परां सिद्धिं गतो यत्र महातपाः ॥
अस्य क्षेत्रस्य माहात्म्याद् भक्त्या च मम भावितः
जैगीषव्यगुहा श्रेष्ठा योगिनां स्थानमिष्यते ॥
ध्यायन्तस्तत्र मां नित्यं योगाग्निर्दीप्यते भृशम्
कैवल्यं परमं याति देवानामपि दुर्लभम् ॥
अव्यक्तलिङ्गैर्मुनिभिः सर्वसिद्धान्तवेदिभिः
इह सम्प्राप्यते मोक्षो दुर्लभो ऽन्यत्र कर्हिचित् ॥
तेभ्यश्चाहं प्रवक्ष्यामि योगैश्वर्यमनुत्तमम्
आत्मनश्चैव सायुज्यम् ईप्सितं स्थानमेव च ॥
कुबेरो ऽत्र मम क्षेत्रे मयि सर्वार्पितक्रियः
क्षेत्रसंसेवनादेव गणेशत्वमवाप ह ॥
संवर्तो भविता यश् च सो ऽपि भक्तो ममैव तु
इहैवाराध्य मां देवि सिद्धिं यास्यत्यनुत्तमाम् ॥
पराशरसुतौ योगी ऋषिर्व्यासो महातपाः
मम भक्तो भविष्यश् च वेदसंस्थाप्रवर्तकः ॥
रंस्यते सो ऽपि पद्माक्षि क्षेत्रे ऽस्मिन्मुनिपुङ्गवः
ब्रह्मा देवर्षिभिः सार्द्धं विष्णुर्वापि दिवाकरः ॥
देवराजस्तथा शक्रो ये ऽपि चान्ये दिवौकसः
उपासते महात्मानः सर्वे मामिह सुव्रते ॥
अन्ये ऽपि योगिनो दिव्याश् छन्नरूपा महात्मनः
अनन्यमनसो भूत्वा मामिहोपासते सदा ॥
विषयासक्तचित्तो ऽपि त्यक्तधर्मरतिर्नरः
इह क्षेत्रे मृतः सो ऽपि संसारे न पुनर्भवेत् ॥
ये पुनर्निर्ममा धीराः सत्त्वस्था विजितेन्द्रियाः
व्रतिनश् च निरारम्भाः सर्वे ते मयि भाविताः ॥
देवदेवं समासाद्य धीमन्तः संगवर्जिताः
गता इह परं मोक्षं प्रसादान्मम सुव्रते ॥
जन्मान्तरसहस्रेषु यं न योगी समाप्नुयात्
तमिहैव परं मोक्षं प्रसादान्मम सुव्रते ॥
गोप्रेक्षकम् इदं क्षेत्रं ब्रह्मणा स्थापितं पुरा
कैलासभवनं चात्र पश्य दिव्यं वरानने ॥
गोप्रेक्षकम् अथागम्य दृष्ट्वा मामत्र मानवः
न दुर्गतिमवाप्नोति कल्मषैश् च विमुच्यते ॥
कपिलाह्रदम् इत्येवं तथा वै ब्रह्मणा कृतम्
गवां स्तन्यजतोयेन तीर्थं पुण्यतमं महत् ॥
अत्रापि स्वयमेवाहं वृषध्वज इति स्मृतः
सान्निध्यं कृतवान् देवि सदाहं दृश्यते त्वया ॥
भद्रतोयं च पश्येह ब्रह्मणा च कृतं ह्रदम्
सर्वैर्देवैरहं देवि अस्मिन्देशे प्रसादितः ॥
गच्छोपशमम् ईशेति उपशान्तः शिवस् तथा
अत्राहं ब्रह्मणानीय स्थापितः परमेष्ठिना ॥
ब्रह्मणा चापि संगृह्य विष्णुना स्थापितः पुनः
ब्रह्मणापि ततो विष्णुः प्रोक्तः संविग्नचेतसा ॥
मयानीतमिदं लिङ्गं कस्मात् स्थापितवान् असि
तमुवाच पुनर् विष्णुर् ब्रह्माणं कुपिताननम् ॥
रुद्रे देवे ममात्यन्तं परा भक्तिर्महत्तरा
मयैव स्थापितं लिङ्गं तव नाम्ना भविष्यति ॥
हिरण्यगर्भ इत्येवं ततो ऽत्राहं समास्थितः
दृष्ट्वैनमपि देवेशं मम लोकं व्रजेन्नरः ॥
ततः पुनरपि ब्रह्मा मम लिङ्गमिदं शुभम्
स्थापयामास विधिवद् भक्त्या परमया युतः ॥
स्वर्लीनेश्वर इत्येवम् अत्राहं स्वयमागतः
प्राणान् इह नरस्त्यक्त्वा न पुनर्जायते क्वचित् ॥
अनन्या सा गतिस्तस्य योगिनां चैव या स्मृता
अस्मिन्नपि मया देशे दैत्यो दैवतकण्टकः ॥
व्याघ्ररूपं समास्थाय निहतो दर्पितो बली
व्याघ्रेश्वर इति ख्यातो नित्यमत्राहमास्थितः ॥
न पुनर्दुर्गतिं याति दृष्ट्वैनं व्याघ्रमीश्वरम्
उत्पलो विदलश्चैव यौ दैत्यौ ब्रह्मणा पुरा ॥
स्त्रीवध्यौ दर्पितौ दृष्ट्वा त्वयैव निहतौ रणे
सावज्ञं कन्दुकेनात्र तस्येदं देहमास्थितम् ॥
आदावत्राहमागम्य प्रस्थितो गणपैः सह
ज्येष्ठस्थानमिदं तस्माद् एतन्मे पुण्यदर्शनम् ॥
देवैः समन्ताद् एतानि लिङ्गानि स्थापितान्यतः
दृष्ट्वापि नियतो मर्त्यो देहभेदे गणो भवेत् ॥
पित्रा ते शैलराजेन पुरा हिमवता स्वयम्
मम प्रियहितं स्थानं ज्ञात्वा लिङ्गं प्रतिष्ठितम् ॥
शैलेश्वरमिति ख्यातं दृश्यतामिह चादरात्
दृष्ट्वैतन्मनुजो देवि न दुर्गतिमतो व्रजेत् ॥
नद्येषा वरुणा देवि पुण्या पापप्रमोचनी
क्षेत्रमेतद् अलंकृत्य जाह्नव्या सह संगता ॥
स्थापितं ब्रह्मणा चापि संगमे लिङ्गमुत्तमम्
संगमेश्वरम् इत्येवं ख्यातं जगति दृश्यताम् ॥
संगमे देवनद्या हि यः स्नात्वा मनुजः शुचिः
अर्चयेत् संगमेश्वरं तस्य जन्मभयं कुतः ॥
इदं मन्ये महाक्षेत्रं निवासो योगिनां परम्
क्षेत्रमध्ये च यत्राहं स्वयं भूत्वाग्रमास्थितः ॥
मध्यमेश्वरमित्येवं ख्यातः सर्वसुरासुरैः
सिद्धानां स्थानमेतद्धि मदीयव्रतधारिणाम् ॥
योगिनां मोक्षलिप्सूनां ज्ञानयोगरतात्मनाम्
दृष्ट्वैनं मध्यमेशानं जन्म प्रति न शोचति ॥
स्थापितं लिङ्गमेतत्तु शुक्रेण भृगुसूनुना
नाम्ना शुक्रेश्वरं नाम सर्वसिद्धामरार्चितम् ॥
दृष्ट्वैनं नियतः सद्यो मुच्यते सर्वकिल्बिषैः
मृतश् च न पुनर्जन्तुः संसारी तु भवेन्नरः ॥
पुरा जम्बूकरूपेण असुरो देवकण्टकः
ब्रह्मणो हि वरं लब्ध्वा गोमायुर्बन्धशङ्कितः ॥
निहतो हिमवत्पुत्रि जम्बूकेशस्ततो ह्यहम्
अद्यापि जगति ख्यातं सुरासुरनमस्कृतम् ॥
दृष्ट्वैनमपि देवेशं सर्वान्कामानवाप्नुयात्
ग्रहैः शुक्रपुरोगैश् च एतानि स्थापितानि ह ॥
पश्य पुण्यानि लिङ्गानि सर्वकामप्रदानि तु
एवमेतानि पुण्यानि मन्निवासानि पार्वति ॥
कथितानि मम क्षेत्रे गुह्यं चान्यदिदं शृणु
चतुःक्रोशं चतुर्दिक्षु क्षेत्रमेतत्प्रकीर्तितम् ॥
योजनं विद्धि चार्वङ्गि मृत्युकाले ऽमृतप्रदम्
महालयगिरिस्थं मां केदारे च व्यवस्थितम् ॥
गणत्वं लभते दृष्ट्वा ह्य् अस्मिन्मोक्षो ह्यवाप्यते
गाणपत्यं लभेद्यस्माद् यतः सा मुक्तिरुत्तमा ॥
ततो महालयात् तस्मात् केदारान्मध्यमादपि
स्मृतं पुण्यतमं क्षेत्रम् अविमुक्तं वरानने ॥
केदारं मध्यमं क्षेत्रं स्थानं चैव महालयम्
मम पुण्यानि भूर्लोके तेभ्यः श्रेष्ठतमं त्विदम् ॥
यतः सृष्टास्त्विमे लोकास् ततः क्षेत्रमिदं शुभम्
कदाचिन्न मया मुक्तम् अविमुक्तं ततो ऽभवत् ॥
अविमुक्तेश्वरं लिङ्गं मम दृष्ट्वेह मानवः
सद्यः पापविनिर्मुक्तः पशुपाशैर्विमुच्यते ॥
शैलेशं संगमेशं च स्वर्लीनं मध्यमेश्वरम्
हिरण्यगर्भम् ईशानं गोप्रेक्षं वृषभध्वजम् ॥
उपशान्तं शिवं चैव ज्येष्ठस्थाननिवासिनम्
शुक्रेश्वरं च विख्यातं व्याघ्रेशं जम्बुकेश्वरम् ॥
दृष्ट्वा न जायते मर्त्यः संसारे दुःखसागरे
एवम् उक्त्वा महादेवो दिशः सर्वा व्यलोकयत् ॥
विलोक्य संस्थिते पश्चाद् देवदेवे महेश्वरे
अकस्मादभवत्सर्वः स देशोज्ज्वलितो यथा ॥
ततः पाशुपताः सिद्धा भस्माभ्यङ्गसितप्रभाः
माहेश्वरा महात्मानस् तथा वै नियतव्रताः ॥
बहवः शतशो ऽभ्येत्य नमश्चक्रुर्महेश्वरम्
पुनर्निरीक्ष्य योगेशं ध्यानयोगं च कृत्स्नशः ॥
तस्थुरात्मानमास्थाय लीयमाना इवेश्वरे
स्थितानां स तदा तेषां देवदेव उमापतिः ॥
स बिभ्रत्परमां मूर्तिं बभूव पुरुषः प्रभुः
कृत्स्नं जगदिहैकस्थं कर्तुम् अन्त इव स्थितः ॥
तस्य तां परमां मूर्तिम् आस्थितस्य जगत्प्रभोः
न शशाक पुनर्द्रष्टुं हृष्टरोमा गिरीन्द्रजा ॥
ततस्त्वदृष्टमाकारं बुद्ध्वा सा प्रकृतिस्थितम्
प्रकृतेर्मूर्तिमास्थाय योगेन परमेश्वरी ॥
तं शशाक पुनर्द्रष्टुं हरस्य च महात्मनः
ततस्ते लयमाधाय योगिनः पुरुषस्य तु ॥
विविशुर्हृदयं सर्वे दग्धसंसारबीजिनः
पञ्चाक्षरस्य वै बीजं संस्मरन्तः सुशोभनम् ॥
सर्वपापहरं दिव्यं पुरा चैव प्रकाशितम्
नीललोहितमूर्तिस्थं पुनश्चक्रे वपुः शुभम् ॥
तं दृष्ट्वा शैलजा प्राह हृष्टसर्वतनूरुहा
स्तुवती चरणौ नत्वा क इमे भगवन्निति ॥
तामुवाच सुरश्रेष्ठस् तदा देवीं गिरीन्द्रजाम्
मदीयं व्रतमाश्रित्य भक्तिमद्भिर् द्विजोत्तमैः ॥
यैर्यैर्योगा इहाभ्यस्तास् तेषाम् एकेन जन्मना
क्षेत्रस्यास्य प्रभावेन भक्त्या च मम भामिनि ॥
अनुग्रहो मया ह्येवं क्रियते मूर्तितः स्वयम्
तस्माद् एतन् महत् क्षेत्रं ब्रह्माद्यैः सेवितं तथा ॥
श्रुतिमद्भिश् च विप्रेन्द्रैः संसिद्धैश् च तपस्विभिः
प्रतिमासं तथाष्टम्यां प्रतिमासं चतुर्दशीम् ॥
उभयोः पक्षयोर्देवि वाराणस्यामुपास्यते
शशिभानूपरागे च कार्तिक्यां च विशेषतः ॥
सर्वपर्वसु पुण्येषु विषुवेष्वयनेषु च
पृथिव्यां सर्वतीर्थानि वाराणस्यां तु जाह्नवीम् ॥
उत्तरप्रवहां पुण्यां मम मौलिविनिःसृताम्
पितुस्ते गिरिराजस्य शुभां हिमवतः सुताम् ॥
पुण्यस्थानस्थितां पुण्यां पुण्यदिक्प्रवहां सदा
भजन्ते सर्वतो ऽभ्येत्य ये ताञ्छृणु वरानने ॥
संनिहत्य कुरुक्षेत्रं सार्धं तीर्थशतैस् तथा
पुष्करं निमिषं चैव प्रयागं च पृथूदकम् ॥
द्रुमक्षेत्रं कुरुक्षेत्रं नैमिषं तीर्थसंयुतम्
क्षेत्राणि सर्वतो देवि देवता ऋषयस् तथा ॥
संध्या च ऋतवश्चैव सर्वा नद्यः सरांसि च
समुद्राः सप्त चैवात्र देवतीर्थानि कृत्स्नशः ॥
भागीरथीं समेष्यन्ति सर्वपर्वसु सुव्रते
अविमुक्तेश्वरं दृष्ट्वा दृष्ट्वा चैव त्रिविष्टपम् ॥
कालभैरवमासाद्य धूतपापानि सर्वशः
भवन्ति हि सुरेशानि सर्वपर्वसु पर्वसु ॥
पृथिव्यां यानि पुण्यानि महान्त्यायतनानि च
प्रविशन्ति सदाभ्येत्य पुण्यं पर्वसु पर्वसु
अविमुक्तं क्षेत्रवरं महापापनिबर्हणम् ॥
केदारे चैव यल्लिङ्गं यच्च लिङ्गं महालये ॥
मध्यमेश्वरसंज्ञं च तथा पाशुपतेश्वरम्
शङ्कुकर्णेश्वरं चैव गोकर्णौ च तथा ह्युभौ ॥
द्रुमचण्डेश्वरं नाम भद्रेश्वरम् अनुत्तमम्
स्थानेश्वरं तथैकाग्रं कालेश्वरम् अजेश्वरम् ॥
भैरवेश्वरम् ईशानं तथौंकारकसंज्ञितम्
अमरेशं महाकालं ज्योतिषं भस्मगात्रकम् ॥
यानि चान्यानि पुण्यानि स्थानानि मम भूतले
अष्टषष्टिसमाख्यानि रूढान्यन्यानि कृत्स्नशः ॥
तानि सर्वाण्यशेषाणि वाराणस्यां विशन्ति माम्
सर्वपर्वसु पुण्येषु गुह्यं चैतदुदाहृतम् ॥
तेनेह लभते जन्तुर् मृतो दिव्यामृतं पदम्
स्नातस्य चैव गङ्गायां दृष्टेन च मया शुभे ॥
सर्वयज्ञफलैस्तुल्यम् इष्टैः शतसहस्रशः
सद्य एव समाप्नोति किं ततः परमाद्भुतम् ॥
सर्वायतनमुख्यानि दिवि भूमौ गिरिष्व् अपि
परात्परतरं देवी बुध्यस्वेति मयोदितम् ॥
अविशब्देन पापस्तु वेदोक्तः कथ्यते द्विजैः
तेन मुक्तं मया जुष्टम् अविमुक्तम् अत उच्यते ॥
इत्युक्त्वा भगवान् रुद्रः सर्वलोकमहेश्वरः
सुदृष्टं कुरु देवेशि अविमुक्तं गृहं मम ॥
इत्युक्त्वा भगवान् देवस् तया सार्धम् उमापतिः
दर्शयामास भगवान् श्रीपर्वतमनुत्तमम् ॥
अविमुक्तेश्वरे नित्यम् अवसच्च सदा तया
सर्वगत्वाच्च सर्वत्वात् सर्वात्मा सदसन्मयः ॥
श्रीपर्वतमनुप्राप्य देव्या देवेश्वरो हरः
क्षेत्राणि दर्शयामास सर्वभूतपतिर्भवः ॥
कुण्डीप्रभं च परमं दिव्यं वैश्रवणेश्वरम्
आशालिङ्गं च देवेशं दिव्यं यच्च बिलेश्वरम् ॥
रामेश्वरं च परमं विष्णुना यत्प्रतिष्ठितम्
दक्षिणद्वारपार्श्वे तु कुण्डलेश्वरमीश्वरम् ॥
पूर्वद्वारसमीपस्थं त्रिपुरान्तकमुत्तमम्
विवृद्धं गिरिणा सार्धं देवदेवनमस्कृतम् ॥
मध्यमेश्वरमित्युक्तं त्रिषु लोकेषु विश्रुतम्
अमरेश्वरं च वरदं देवैः पूर्वं प्रतिष्ठितम् ॥
गोचर्मेश्वरम् ईशानं तथेन्द्रेश्वरम् अद्भुतम्
कर्मेश्वरं च विपुलं कार्यार्थं ब्रह्मणा कृतम् ॥
श्रीमत्सिद्धवटं चैव सदावासो ममाव्यये
अजेन निर्मितं दिव्यं साक्षादजबिलं शुभम् ॥
तत्रैव पादुके दिव्ये मदीये च बिलेश्वरे
तत्र शृङ्गाटकाकारं शृङ्गाटाचलमध्यमे ॥
शृङ्गाटकेश्वरं नाम श्रीदेव्या तु प्रतिष्ठितम्
मल्लिकार्जुनकं चैव मम वासमिदं शुभम् ॥
रजेश्वरं च पर्याये रजसा सुप्रतिष्ठितम्
गजेश्वरं च वैशाखं कपोतेश्वरमव्ययम् ॥
कोटीश्वरं महातीर्थं रुद्रकोटिगणैः पुरा
सेवितं देवि पश्याद्य सर्वस्मादधिकं शुभम् ॥
द्विदेवकुलसंज्ञं च ब्रह्मणा दक्षिणे शुभम्
उत्तरे स्थापितं चैव विष्णुना चैव शैलजम् ॥
महाप्रमाणलिङ्गं च मया पूर्वं प्रतिष्ठितम्
पश्चिमे पर्वते पश्य ब्रह्मेश्वरमलेश्वरम् ॥
अलंकृतं त्वया ब्रह्मन् पुरस्तान् मुनिभिः सह
इत्युक्त्वा तद्गृहे तिष्ठद् अलंगृहमिति स्मृतम् ॥
तत्रापि तीर्थं तीर्थज्ञे व्योमलिङ्गं च पश्य मे
कदम्बेश्वरम् एतद्धि स्कन्देनैव प्रतिष्ठितम् ॥
गोमण्डलेश्वरं चैव नन्दाद्यैः सुप्रतिष्ठितम्
देवैः सर्वैस्तु शक्राद्यैः स्थापितानि वरानने ॥
श्रीमद्देवह्रदप्रान्ते स्थानानीमानि पश्य मे
तथा हारपुरे देवि तव हारे निपातिते ॥
त्वया हिताय जगतां हारकुण्डमिदं कृतम्
शिवरुद्रपुरे चैव तत्कायोपरि सुव्रते ॥
तत्र पित्रा सुशैलेन स्थापितं त्वचलेश्वरम्
अलंकृतं मया ब्रह्म पुरस्तान् मुनिभिः सह ॥
चण्डिकेश्वरकं देवि चण्डिकेशा तवात्मजा
चण्डिकानिर्मितं स्थानम् अंबिकातीर्थम् उत्तमम् ॥
रुचिकेश्वरकं चैव धारैषा कपिला शुभा
एतेषु देवि स्थानेषु तीर्थेषु विविधेषु च ॥
पूजयेन्मां सदा भक्त्या मया सार्धं हि मोदते
श्रीशैले संत्यजेद् देहं ब्राह्मणो दग्धकिल्बिषः ॥
मुच्यते नात्र संदेहो ह्य् अविमुक्ते यथा शुभम्
महास्नानं च यः कुर्याद् घृतेन विधिनैव तु ॥
स याति मम सायुज्यं स्थानेष्वेतेषु सुव्रते
स्नानं पलशतं ज्ञेयम् अभ्यङ्गं पञ्चविंशति ॥
पलानां द्वे सहस्रे तु महास्नानं प्रकीर्तितम्
स्नाप्य लिङ्गं मदीयं तु गव्येनैव घृतेन च ॥
विशोध्य सर्वद्रव्यैस्तु वारिभिर् अभिषिञ्चति
संमार्ज्य शतयज्ञानां स्नानेन प्रयुतं तथा ॥
पूजया शतसाहस्रम् अनन्तं गीतवादिनाम्
महास्नाने प्रसक्तं तु स्नानमष्टगुणं स्मृतम् ॥
जलेन केवलेनैव गन्धतोयेन भक्तितः
अनुलेपनं तु तत् सर्वं पञ्चविंशत्पलेन वै ॥
शमीपुष्पं च विधिना बिल्वपत्रं च पङ्कजम्
अन्यान्यपि च पुष्पाणि बिल्वपत्रं न संत्यजेत् ॥
चतुर्द्रोणैर् महादेवम् अष्टद्रोणैरथापि वा
दशद्रोणैस् तु नैवेद्यम् अष्टद्रोणैरथापि वा ॥
शतद्रोणसमं पुण्यम् आढके ऽपि विधीयते
वित्तहीनस्य विप्रस्य नात्र कार्या विचारणा ॥
भेरीमृदङ्गमुरज तिमिरापटहादिभिः
वादित्रैर्विविधैश्चान्यैर् निनादैर्विविधैरपि ॥
जागरं कारयेद्यस्तु प्रार्थयेच्च यथाक्रमम्
स भृत्यपुत्रदारैश् च तथा संबन्धिबान्धवैः ॥
सार्धं प्रदक्षिणं कृत्वा प्रार्थयेल्लिङ्गम् उत्तमम्
द्रव्यहीनं क्रियाहीनं श्रद्धाहीनं सुरेश्वर ॥
कृतं वा न कृतं वापि क्षन्तुमर्हसि शङ्कर
इत्युक्त्वा वै जपेद्रुद्रं त्वरितं शान्तिमेव च ॥
जपित्वैवं महाबीजं तथा पञ्चाक्षरस्य वै
स एवं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् ॥
तत्फलं समवाप्नोति वाराणस्यां यथा मृतः
तथैव मम सायुज्यं लभते नात्र संशयः ॥
मत्प्रियार्थमिदं कार्यं मद्भक्तैर्विधिपूर्वकम्
ये न कुर्वन्ति ते भक्ता न भवन्ति न संशयः ॥
निशम्य वचनं देवी गत्वा वाराणसीं पुरीम्
अविमुक्तेश्वरं लिङ्गं पयसा च घृतेन च ॥
अर्चयामास देवेशं रुद्रं भुवननायकम्
अविमुक्ते च तपसा मन्दरस्य महात्मनः ॥
कल्पयामास वै क्षेत्रं मन्दरे चारुकन्दरे
तत्रान्धकं महादैत्यं हिरण्याक्षसुतं प्रभुः ॥
अनुगृह्य गणत्वं च प्रापयामास लीलया
एतद्वः कथितं सर्वं कथासर्वस्वमादरात् ॥
यः पठेच्छृणुयाद्वापि क्षेत्रमाहात्म्यमुत्तमम्
सर्वक्षेत्रेषु यत्पुण्यं तत्सर्वं सहसा लभेत् ॥
श्रावयेद्वा द्विजान्सर्वान् कृतशौचान् जितेन्द्रियान्
स एव सर्वयज्ञस्य फलं प्राप्नोति मानवः ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0