भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.94

1.94.1

कथमस्य पिता दैत्यो हिरण्याक्षः सुदारुणः
विष्णुना सूदितो विष्णुर् वाराहत्वं कथं गतः ॥

1.94.2

तस्य शृङ्गं महेशस्य भूषणत्वं कथं गतम्
एतत्सर्वं विशेषेण सूत वक्तुमिहार्हसि ॥

1.94.3

हिरण्यकशिपोर्भ्राता हिरण्याक्ष इति स्मृतः
पुरान्धकासुरेशस्य पिता कालान्तकोपमः ॥

1.94.4

देवाञ्जित्वाथ दैत्येन्द्रो बद्ध्वा च धरणीमिमाम्
नीत्वा रसातलं चक्रे वन्दीम् इन्दीवरप्रभाम् ॥

1.94.5

ततः सब्रह्मका देवाः परिम्लानमुखश्रियः
बाधितास्ताडिता बद्ध्वा हिरण्याक्षेण तेन वै ॥

1.94.6

बलिना दैत्यमुख्येन क्रूरेण सुदुरात्मना
प्रणम्य शिरसा विष्णुं दैत्यकोटिविमर्दनम् ॥

1.94.7

सर्वे विज्ञापयामासुर् धरणीबन्धनं हरेः
श्रुत्वैतद्भगवान् विष्णुर् धरणीबन्धनं हरिः ॥

1.94.8

भूत्वा यज्ञवराहो ऽसौ यथा लिङ्गोद्भवे तथा
दैत्यैश् च सार्धं दैत्येन्द्रं हिरण्याक्षं महाबलम् ॥

1.94.9

दंष्ट्राग्रकोट्या हत्वैनं रेजे दैत्यान्तकृत्प्रभुः
कल्पादिषु यथापूर्वं प्रविश्य च रसातलम् ॥

1.94.10

आनीय वसुधां देवीम् अङ्कस्थामकरोद्बहिः
ततस् तुष्टाव देवेशं देवदेवः पितामहः ॥

1.94.11

शक्राद्यैः सहितो भूत्वा हर्षगद्गदया गिरा
शाश्वताय वराहाय दंष्ट्रिणे दण्डिने नमः ॥

1.94.12

नारायणाय सर्वाय ब्रह्मणे परमात्मने
कर्त्रे धर्त्रे धरायास्तु हर्त्रे देवारिणां स्वयम्
कर्त्रे नेत्रे सुरेन्द्राणां शास्त्रे च सकलस्य च ॥

1.94.13

त्वमष्टमूर्तिस्त्वमनन्तमूर्तिस् त्वमादिदेवस्त्वमनन्तवेदितः
त्वया कृतं सर्वमिदं प्रसीद सुरेश लोकेश वराह विष्णो ॥

1.94.14

तथैकदंष्ट्राग्रमुखाग्रकोटि भागैकभागार्धतमेन विष्णो
हताः क्षणात् कामद दैत्यमुख्याः स्वदंष्ट्रकोट्या सह पुत्रभृत्यैः ॥

1.94.15

त्वयोद्धृता देव धरा धरेश धराधराकार धृताग्रदंष्ट्रे
धराधरैः सर्वजनैः समुद्रैः सुरासुरैः सेवितचन्द्रवक्त्र ॥

1.94.16

त्वयैव देवेश विभो कृतश् च जयः सुराणामसुरेश्वराणाम्
अहो प्रदत्तस्तु वरः प्रसीद वाग्देवता वारिजसंभवाय ॥

1.94.17

निहिता रसातलगता वसुंधरा तव पृष्ठतः सकलतारकादयः ॥

1.94.18

जगतां हिताय भवता वसुंधरा भगवन् रसातलपुटं गता तदा
अबलोद्धृता च भगवंस्तवैव सकलं त्वयैव हि धृतं जगद्गुरो ॥

1.94.19

इति वाक्पतिर्बहुविधैस्तवार्चनैः प्रणिपत्य विष्णुममरैः प्रजापतिः
विविधान्वरान् हरिमुखात्तु लब्धवान् हरिनाभिवारिजदेहभृत् स्वयम् ॥

1.94.20

अथ तामुद्धृतां तेन धरां देवा मुनीश्वराः
मूर्ध्न्यारोप्य नमश्चक्रुश् चक्रिणः संनिधौ तदा ॥

1.94.21

अनेनैव वराहेण चोद्धृतासि वरप्रदे
कृष्णेनाक्लिष्टकार्येण शतहस्तेन विष्णुना ॥

1.94.22

धरणि त्वं महाभोगे भूमिस्त्वं धेनुरव्यये
लोकानां धारिणी त्वं हि मृत्तिके हर पातकम् ॥

1.94.23

मनसा कर्मणा वाचा वरदे वारिजेक्षणे
त्वया हतेन पापेन जीवामस्त्वत्प्रसादतः ॥

1.94.24

इत्युक्ता सा तदा देवी धरा देवैर् अथाब्रवीत्
वराहदंष्ट्राभिन्नायां धरायां मृत्तिकां द्विजाः ॥

1.94.25

मन्त्रेणानेन यो बिभ्रत् मूर्ध्नि पापात्प्रमुच्यते
आयुष्मान् बलवान् धन्यः पुत्रपौत्रसमन्वितः ॥

1.94.26

क्रमाद्भुवि दिवं प्राप्य कर्मान्ते मोदते सुरैः
अथ देवे गते त्यक्त्वा वराहे क्षीरसागरम् ॥

1.94.27

वाराहरूपमनघं चचाल च धरा पुनः
तस्य दंष्ट्राभराक्रान्ता देवदेवस्य धीमतः ॥

1.94.28

यदृच्छया भवः पश्यन् जगाम जगदीश्वरः
दंष्ट्रां जग्राह दृष्ट्वा तां भूषणार्थमथात्मनः ॥

1.94.29

दधार च महादेवः कूर्चान्ते वै महोरसि
देवाश् च तुष्टुवुः सेन्द्रा देवदेवस्य वैभवम् ॥

1.94.30

धरा प्रतिष्ठिता ह्येवं देवदेवेन लीलया
भूतानां संप्लवे चापि विष्णोश्चैव कलेवरम् ॥

1.94.31

ब्रह्मणश् च तथान्येषां देवानामपि लीलया
विभुरङ्गविभागेन भूषितो न यदि प्रभुः ॥

1.94.32

कथं विमुक्तिर्विप्राणां तस्माद्दंष्ट्री महेश्वरः ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc