लिङ्गपुराण · अध्याय 1.89
अत ऊर्ध्वं प्रवक्ष्यामि शौचाचारस्य लक्षणम्
यदनुष्ठाय शुद्धात्मा परेत्य गतिमाप्नुयात् ॥
ब्रह्मणा कथितं पूर्वं सर्वभूतहिताय वै
संक्षेपात्सर्ववेदार्थं संचयं ब्रह्मवादिनाम् ॥
उदयार्थं तु शौचानां मुनीनामुत्तमं पदम्
यस्तत्राथाप्रमत्तः स्यात् स मुनिर्नावसीदति ॥
मानावमानौ द्वावेतौ तावेवाहुर् विषामृते
अवमानो ऽमृतं तत्र सन्मानो विषमुच्यते ॥
गुरोरपि हिते युक्तः स तु संवत्सरं वसेत्
नियमेष्वप्रमत्तस्तु यमेषु च सदा भवेत् ॥
प्राप्यानुज्ञां ततश्चैव ज्ञानयोगमनुत्तमम्
अविरोधेन धर्मस्य चरेत पृथिवीमिमाम् ॥
चक्षुःपूतं चरेन्मार्गं वस्त्रपूतं जलं पिबेत्
सत्यपूतं वदेद्वाक्यं मनःपूतं समाचरेत् ॥
मत्स्यगृह्यस्य यत्पापं षण्मासाभ्यन्तरे भवेत्
एकाहं तत्समं ज्ञेयम् अपूतं यज्जलं भवेत् ॥
अपूतोदकपाने तु जपेच्च शतपञ्चकम्
अघोरलक्षणं मन्त्रं ततः शुद्धिमवाप्नुयात् ॥
अथवा पूजयेच्छंभुं घृतस्नानादिविस्तरैः
त्रिधा प्रदक्षिणीकृत्य शुध्यते नात्र संशयः ॥
आतिथ्यश्राद्धयज्ञेषु न गच्छेद्योगवित्क्वचित्
एवं ह्यहिंसको योगी भवेदिति विचारितम् ॥
वह्नौ विधूमे ऽत्यङ्गारे सर्वस्मिन्भुक्तवज्जने
चरेत्तु मतिमान् भैक्ष्यं न तु तेष्वेव नित्यशः ॥
अथैनम् अवमन्यन्ते परे परिभवन्ति च
तथा युक्तं चरेद्भैक्ष्यं सतां धर्ममदूषयन् ॥
भैक्ष्यं चरेद्वनस्थेषु यायावरगृहेषु च
श्रेष्ठा तु प्रथमा हीयं वृत्तिरस्योपजायते ॥
अत ऊर्ध्वं गृहस्थेषु शीलीनेषु चरेद्द्विजाः
श्रद्दधानेषु दान्तेषु श्रोत्रियेषु महात्मसु ॥
अत ऊर्ध्वं पुनश्चापि अदुष्टापतितेषु च
भैक्ष्यचर्या हि वर्णेषु जघन्या वृत्तिरुच्यते ॥
भैक्ष्यं यवागूस्तक्रं वा पयो यावकमेव च
फलमूलादि पक्वं वा कणपिण्याकसक्तवः ॥
इत्येव ते मया प्रोक्ता योगिनां सिद्धिवर्द्धनाः
आहारास्तेषु सिद्धेषु श्रेष्ठं भैक्ष्यमिति स्मृतम् ॥
अब्बिन्दुं यः कुशाग्रेण मासि मासि समश्नुते
न्यायतो यश्चरेद्भैक्ष्यं पूर्वोक्तात्स विशिष्यते ॥
जरामरणगर्भेभ्यो भीतस्य नरकादिषु
एवं दाययते तस्मात् तद्भैक्ष्यमिति संस्मृतम् ॥
दधिभक्षाः पयोभक्षा ये चान्ये जीवक्षीणकाः
सर्वे ते भैक्ष्यभक्षस्य कलां नार्हन्ति षोडशीम् ॥
भस्मशायी भवेन्नित्यं भिक्षाचारी जितेन्द्रियः
य इच्छेत् परमं स्थानं व्रतं पाशुपतं चरेत् ॥
योगिनां चैव सर्वेषां श्रेष्ठं चान्द्रायणं भवेत्
एकं द्वे त्रीणि चत्वारि शक्तितो वा समाचरेत् ॥
अस्तेयं ब्रह्मचर्यं च अलोभस्त्याग एव च
व्रतानि पञ्च भिक्षूणाम् अहिंसा परमा त्विह ॥
अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम्
नित्यं स्वाध्याय इत्येते नियमाः परिकीर्तिताः ॥
बीजयोनिगुणा वस्तु बन्धः कर्मभिर् एव च
यथा द्विप इवारण्ये मनुष्याणां विधीयते ॥
देवैस्तुल्याः सर्वयज्ञक्रियास्तु यज्ञाज्जाप्यं ज्ञानमाहुश् च जाप्यात्
ज्ञानाद् ध्यानं संगरागादपेतं तस्मिन्प्राप्ते शाश्वतस्योपलम्भः ॥
दमः शमः सत्यमकल्मषत्वं मौनं च भूतेष्वखिलेषु चार्जवम्
अतीन्द्रियं ज्ञानमिदं तथा शिवं प्राहुस् तथा ज्ञानविशुद्धबुद्धयः ॥
समाप्नुयाद्योगमिमं महात्मा महर्षयश्चैवम् अनिन्दितामलाः ॥
प्राप्यते ऽभिमतान् देशान् अङ्कुशेन निवारितः
एतन्मार्गेण शुद्धेन दग्धबीजो ह्यकल्मषः ॥
सदाचाररताः शान्ताः स्वधर्मपरिपालकाः
सर्वांल्लोकान् विनिर्जित्य ब्रह्मलोकं व्रजन्ति ते ॥
पितामहेनोपदिष्टो धर्मः साक्षात्सनातनः
सर्वलोकोपकारार्थं शृणुध्वं प्रवदामि वः ॥
गुरूपदेशयुक्तानां वृद्धानां क्रमवर्त्तिनाम्
अभ्युत्थानादिकं सर्वं प्रणामं चैव कारयेत् ॥
अष्टाङ्गप्रणिपातेन त्रिधा न्यस्तेन सुव्रताः
त्रिःप्रदक्षिणयोगेन वन्द्यो वै ब्रह्मणो गुरुः ॥
ज्येष्ठान्ये ऽपि च ते सर्वे वन्दनीया विजानता
आज्ञाभङ्गं न कुर्वीत यदीच्छेत् सिद्धिम् उत्तमाम् ॥
धातुशून्यबिलक्षेत्र क्षुद्रमन्त्रोपजीवनम्
विषग्रहविडम्बादीन् वर्जयेत् सर्वयत्नतः ॥
कैतवं वित्तशाठ्यं च पैशुन्यं वर्जयेत्सदा
अतिहासम् अवष्टम्भं लीलास्वेच्छाप्रवर्तनम् ॥
वर्जयेत्सर्वयत्नेन गुरूणामपि संनिधौ
तद्वाक्यप्रतिकूलं च अयुक्तं वै गुरोर्वचः ॥
न वदेत्सर्वयत्नेन अनिष्टं न स्मरेत्सदा
यतीनामासनं वस्त्रं दण्डाद्यं पादुके तथा ॥
माल्यं च शयनस्थानं पात्रं छायां च यत्नतः
यज्ञोपकरणाङ्गं च न स्पृशेद् वै पदेन च ॥
देवद्रोहं गुरुद्रोहं न कुर्यात्सर्वयत्नतः
कृत्वा प्रमादतो विप्राः प्रणवस्यायुतं जपेत् ॥
देवद्रोहगुरुद्रोहात् कोटिमात्रेण शुध्यति
महापातकशुद्ध्यर्थं तथैव च यथाविधि ॥
पातकी च तदर्धेन शुध्यते वृत्तवान्यदि
उपपातकिनः सर्वे तदर्धेनैव सुव्रताः ॥
संध्यालोपे कृते विप्रः त्रिरावृत्त्यैव शुध्यति
आह्निकच्छेदने जाते शतमेकमुदाहृतम् ॥
लङ्घने समयानां तु अभक्ष्यस्य च भक्षणे
अवाच्यवाचने चैव सहस्राच्छुद्धिरुच्यते ॥
काकोलूककपोतानां पक्षिणामपि घातने
शतमष्टोत्तरं जप्त्वा मुच्यते नात्र संशयः ॥
यः पुनस्तत्त्ववेत्ता च ब्रह्मविद् ब्राह्मणोत्तमः
स्मरणाच्छुद्धिमाप्नोति नात्र कार्या विचारणा ॥
नैवमात्मविदामस्ति प्रायश्चित्तानि चोदना
विश्वस्यैव हि ते शुद्धा ब्रह्मविद्याविदो जनाः ॥
योगध्यानैकनिष्ठाश् च निर्लेपाः काञ्चनं यथा
शुद्धानां शोधनं नास्ति विशुद्धा ब्रह्मविद्यया ॥
उद्धृतानुष्णफेनाभिः पूताभिर् वस्त्रचक्षुषा
अद्भिः समाचरेत्सर्वं वर्जयेत्कलुषोदकम् ॥
गन्धवर्णरसैर्दुष्टम् अशुचिस्थानसंस्थितम्
पङ्काश्मदूषितं चैव सामुद्रं पल्वलोदकम् ॥
सशैवालं तथान्यैर्वा दोषैर्दुष्टं विवर्जयेत्
वस्त्रशौचान्वितः कुर्यात् सर्वकार्याणि वै द्विजाः ॥
नमस्कारादिकं सर्वं गुरुशुश्रूषणादिकम्
वस्त्रशौचविहीनात्मा ह्य् अशुचिर्नात्र संशयः ॥
देवकार्योपयुक्तानां प्रत्यहं शौचमिष्यते
इतरेषां हि वस्त्राणां शौचं कार्यं मलागमे ॥
वर्जयेत्सर्वयत्नेन वासो ऽन्यैर् विधृतं द्विजाः
कौशेयाविकयो रूक्षैः क्षौमाणां गौरसर्षपैः ॥
श्रीफलैरंशुपट्टानां कुतपानामरिष्टकैः
चर्मणां विदलानां च वेत्राणां वस्त्रवन्मतम् ॥
वल्कलानां तु सर्वेषां छत्रचामरयोरपि
चैलवच्छौचमाख्यातं ब्रह्मविद्भिर् मुनीश्वरैः ॥
भस्मना शुध्यते कांस्यं क्षारेणायसम् उच्यते
ताम्रमम्लेन वै विप्रास् त्रपुसीसकयोरपि ॥
हैमम् अद्भिः शुभं पात्रं रौप्यपात्रं द्विजोत्तमाः
मण्यश्मशङ्खमुक्तानां शौचं तैजसवत्स्मृतम् ॥
अग्नेर् अपां च संयोगाद् अत्यन्तोपहतस्य च
रसानामिह सर्वेषां शुद्धिरुत्प्लवनं स्मृतम् ॥
तृणकाष्ठादिवस्तूनां शुभेनाभ्युक्षणं स्मृतम्
उष्णेन वारिणा शुद्धिस् तथा स्रुक्स्रुवयोरपि ॥
तथैव यज्ञपात्राणां मुशलोलूखलस्य च
शृङ्गास्थिदारुदन्तानां तक्षणेनैव शोधनम् ॥
संहतानां महाभागा द्रव्याणां प्रोक्षणं स्मृतम्
असंहतानां द्रव्याणां प्रत्येकं शौचमुच्यते ॥
अभुक्तराशिधान्यानाम् एकदेशस्य दूषणे
तावन्मात्रं समुद्धृत्य प्रोक्षयेद्वै कुशांभसा ॥
शाकमूलफलादीनां धान्यवच्छुद्धिरिष्यते
मार्जनोन्मार्जनैर् वेश्म पुनःपाकेन मृन्मयम् ॥
उल्लेखनेनाञ्जनेन तथा संमार्जनेन च
गोनिवासेन वै शुद्धा सेचनेन धरा स्मृता ॥
भूमिस्थम् उदकं शुद्धं वैतृष्ण्यं यत्र गौर्व्रजेत्
अव्याप्तं यदमेध्येन गन्धवर्णरसान्वितम् ॥
वत्सः शुचिः प्रस्रवणे शकुनिः फलपातने
स्वदारास्यं गृहस्थानां रतौ भार्याभिकाङ्क्षया ॥
हस्ताभ्यां क्षालितं वस्त्रं कारुणा च यथाविधि
कुशांबुना सुसंप्रोक्ष्य गृह्णीयाद्धर्मवित्तमः ॥
पण्यं प्रसारितं चैव वर्णाश्रमविभागशः
शुचिराकरजं तेषां श्वा मृगग्रहणे शुचिः ॥
छाया च विप्लुषो विप्रा मक्षिकाद्या द्विजोत्तमाः
रजो भूर् वायुर् अग्निश् च मेध्यानि स्पर्शने सदा ॥
सुप्त्वा भुक्त्वा च वै विप्राः क्षुत्त्वा पीत्वा च वै तथा
ष्ठीवित्वाध्ययनादौ च शुचिरप्याचमेत्पुनः ॥
पादौ स्पृशन्ति ये चापि पराचमनबिन्दवः
ते पार्थिवैः समा ज्ञेया न तैरप्रयतो भवेत् ॥
कृत्वा च मैथुनं स्पृष्ट्वा पतितं कुक्कुटादिकम्
सूकरं चैव काकादि श्वानमुष्ट्रं खरं तथा ॥
यूपं चाण्डालकाद्यांश् च स्पृष्ट्वा स्नानेन शुध्यति
रजस्वलां सूतिकां च न स्पृशेदन्त्यजामपि ॥
सूतिकाशौचसंयुक्तः शावाशौचसमन्वितः
संस्पृशेन्न रजस्तासां स्पृष्ट्वा स्नात्वैव शुध्यति ॥
नैवाशौचं यतीनां च वनस्थब्रह्मचारिणाम्
नैष्ठिकानां नृपाणां च मण्डलीनां च सुव्रताः ॥
ततः कार्यविरोधाद्धि नृपाणां नान्यथा भवेत्
वैखानसानां विप्राणां पतितानामसंभवात् ॥
असंचयाद् द्विजानां च स्नानमात्रेण नान्यथा
तथा संनिहितानां च यज्ञार्थं दीक्षितस्य च ॥
एकाहाद् यज्ञयाजिनां शुद्धिरुक्ता स्वयंभुवा
ततस्त्वधीतशाखानां चतुर्भिः सर्वदेहिनाम् ॥
सूतकं प्रेतकं नास्ति त्र्यहाद् ऊर्ध्वम् अमुत्र वै
अर्वाग् एकादशाहान्तं बान्धवानां द्विजोत्तमाः ॥
स्नानमात्रेण वै शुद्धिर् मरणे समुपस्थिते
तत ऋतुत्रयादर्वाग् एकाहः परिगीयते ॥
सप्तवर्षात् ततश्चार्वाक् त्रिरात्रं हि ततः परम्
दशाहं ब्राह्मणानां वै प्रथमे ऽहनि वा पितुः ॥
दशाहं सूतिकाशौचं मातुरप्येवमव्ययाः
अर्वाक् त्रिवर्षात्स्नानेन बान्धवानां पितुः सदा ॥
अष्टाब्दाद् एकरात्रेण शुद्धिः स्याद् बान्धवस्य तु
द्वादशाब्दात्ततश्चार्वाक् त्रिरात्रं स्त्रीषु सुव्रताः ॥
सपिण्डता च पुरुषे सप्तमे विनिवर्तते
अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् ॥
ततः संनिहितो विप्रश् चार्वाक् पूर्वं तदेव वै
संवत्सरे व्यतीते तु स्नानमात्रेण शुध्यति ॥
स्पृष्ट्वा प्रेतं त्रिरात्रेण धर्मार्थं स्नानमुच्यते
दाहकानां च नेतॄणां स्नानमात्रमबान्धवे ॥
अनुगम्य च वै स्नात्वा घृतं प्राश्य विशुध्यति
आचार्यमरणे चैव त्रिरात्रं श्रोत्रिये मृते ॥
पक्षिणी मातुलानां च सोदराणां च वा द्विजाः
भूपानां मण्डलीनां च सद्यो नीराष्ट्रवासिनाम् ॥
केवलं द्वादशाहेन क्षत्त्रियाणां द्विजोत्तमाः
नाभिषिक्तस्य चाशौचं संप्रमादेषु वै रणे ॥
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति
इति संक्षेपतः प्रोक्ता द्रव्यशुद्धिरनुत्तमा ॥
अशौचं चानुपूर्व्येण यतीनां नैव विद्यते
त्रेताप्रभृति नारीणां मासि मास्यार्तवं द्विजाः ॥
कृते सकृद् युगवशाज् जायन्ते वै सहैव तु
प्रयान्ति च महाभागा भार्याभिः कुरवो यथा ॥
वर्णाश्रमव्यवस्था च त्रेताप्रभृति सुव्रताः
भारते दक्षिणे वर्षे व्यवस्था नेतरेष्वथ ॥
महावीते सुवीते च जंबूद्वीपे तथाष्टसु
शाकद्वीपादिषु प्रोक्तो धर्मो वै भारते यथा ॥
रसोल्लासा कृते वृत्तिस् त्रेतायां गृहवृक्षजा
सैवार्तवकृताद् दोषाद् रागद्वेषादिभिर् नृणाम् ॥
मैथुनात्कामतो विप्रास् तथैव परुषादिभिः
यवाद्याः सम्प्रजायन्ते ग्राम्यारण्याश्चतुर्दश ॥
ओषध्यश् च रजोदोषाः स्त्रीणां रागादिभिर् नृणाम्
अकालकृष्टा विध्वस्ताः पुनरुत्पादितास् तथा ॥
तस्मात्सर्वप्रयत्नेन न संभाष्या रजस्वला
प्रथमे ऽहनि चाण्डाली यथा वर्ज्या तथाङ्गना ॥
द्वितीये ऽहनि विप्रा हि यथा वै ब्रह्मघातिनी
तृतीये ऽह्नि तदर्धेन चतुर्थे ऽहनि सुव्रताः ॥
स्नात्वार्धमासात् संशुद्धा ततः शुद्धिर्भविष्यति
आ षोडशात् ततः स्त्रीणां मूत्रवच्छौचमिष्यते ॥
पञ्चरात्रं तथास्पृश्या रजसा वर्तते यदि
सा विंशद्दिवसादूर्ध्वं रजसा पूर्ववत्तथा ॥
स्नानं शौचं तथा गानं रोदनं हसनं तथा
यानमभ्यञ्जनं नारी द्यूतं चैवानुलेपनम् ॥
दिवास्वप्नं विशेषेण तथा वै दन्तधावनम्
मैथुनं मानसं वापि वाचिकं देवतार्चनम् ॥
वर्जयेत्सर्वयत्नेन नमस्कारं रजस्वला
रजस्वलाङ्गनास्पर्श संभाषे च रजस्वला ॥
संत्यागं चैव वस्त्राणां वर्जयेत्सर्वयत्नतः
स्नात्वान्यपुरुषं नारी न स्पृशेत्तु रजस्वला ॥
ईक्षयेद्भास्करं देवं ब्रह्मकूर्चं ततः पिबेत्
केवलं पञ्चगव्यं वा क्षीरं वा चात्मशुद्धये ॥
चतुर्थ्यां स्त्री न गम्या तु गतो ऽल्पायुः प्रसूयते
विद्याहीनं व्रतभ्रष्टं पतितं पारदारिकम् ॥
दारिद्र्यार्णवमग्नं च तनयं सा प्रसूयते
कन्यार्थिनैव गन्तव्या पञ्चम्यां विधिवत्पुनः ॥
रक्ताधिक्याद्भवेन्नारी शुक्राधिक्ये भवेत्पुमान्
समे नपुंसकं चैव पञ्चम्यां कन्यका भवेत् ॥
षष्ठ्यां गम्या महाभागा सत्पुत्रजननी भवेत्
पुत्रत्वं व्यञ्जयेत्तस्य जातपुत्रो महाद्युतिः ॥
पुमिति नरकस्याख्या दुःखं च नरकं विदुः
पुंसस्त्राणान्वितं पुत्रं तथाभूतं प्रसूयते ॥
सप्तम्यां चैव कन्यार्थी गच्छेत्सैव प्रसूयते
अष्टम्यां सर्वसम्पन्नं तनयं सम्प्रसूयते ॥
नवम्यां दारिकायार्थी दशम्यां पण्डितो भवेत्
एकादश्यां तथा नारीं जनयेत्सैव पूर्ववत् ॥
द्वादश्यां धर्मतत्त्वज्ञं श्रौतस्मार्तप्रवर्तकम्
त्रयोदश्यां जडां नारीं सर्वसंकरकारिणीम् ॥
जनयत्यङ्गना यस्मान् न गच्छेत्सर्वयत्नतः
चतुर्दश्यां यदा गच्छेत् सा पुत्रजननी भवेत् ॥
पञ्चदश्यां च धर्मिष्ठां षोडश्यां ज्ञानपारगम्
स्त्रीणां वै मैथुने काले वामपार्श्वे प्रभञ्जनः ॥
चरेद्यदि भवेन्नारी पुमांसं दक्षिणे लभेत्
स्त्रीणां मैथुनकाले तु पापग्रहविवर्जिते ॥
उक्तकाले शुचिर्भूत्वा शुद्धां गच्छेच्छुचिस्मिताम्
इत्येवं संप्रसंगेन यतीनां धर्मसंग्रहे ॥
सर्वेषामेव भूतानां सदाचारः प्रकीर्तितः
यः पठेच्छृणुयाद् वापि सदाचारं शुचिर्नरः ॥
श्रावयेद्वा यथान्यायं ब्राह्मणान् दग्धकिल्बिषान्
ब्रह्मलोकमनुप्राप्य ब्रह्मणा सह मोदते ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0