भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.88

1.88.1

केन योगेन वै सूत गुणप्राप्तिः सतामिह
अणिमादिगुणोपेता भवन्त्येवेह योगिनः
तत्सर्वं विस्तरात्सूत वक्तुमर्हसि सांप्रतम् ॥

1.88.2

अत ऊर्ध्वं प्रवक्ष्यामि योगं परमदुर्लभम्
पञ्चधा संस्मरेदादौ स्थाप्य चित्ते सनातनम् ॥

1.88.3

कल्पयेच्चासनं पद्मं सोमसूर्याग्निसंयुतम्
षड्विंशच्छक्तिसंयुक्तम् अष्टधा च द्विजोत्तमाः ॥

1.88.4

ततः षोडशधा चैव पुनर्द्वादशधा द्विजाः
स्मरेच् च तत् तथा मध्ये देव्या देवम् उमापतिम् ॥

1.88.5

अष्टशक्तिसमायुक्तम् अष्टमूर्तिमजं प्रभुम्
ताभिश्चाष्टविधा रुद्राश् चतुःषष्टिविधाः पुनः ॥

1.88.6

शक्तयश् च तथा सर्वा गुणाष्टकसमन्विताः
एवं स्मरेत्क्रमेणैव लब्ध्वा ज्ञानमनुत्तमम् ॥

1.88.7

एवं पाशुपतं योगं मोक्षसिद्धिप्रदायकम्
तस्याणिमादयो विप्रा नान्यथा कर्मकोटिभिः ॥

1.88.8

तत्राष्टगुणमैश्वर्यं योगिनां समुदाहृतम्
तत्सर्वं क्रमयोगेन ह्य् उच्यमानं निबोधत ॥

1.88.9

अणिमा लघिमा चैव महिमा प्राप्तिरेव च
प्राकाम्यं चैव सर्वत्र ईशित्वं चैव सर्वतः ॥

1.88.10

वशित्वमथ सर्वत्र यत्र कामावसायिता
तच्चापि त्रिविधं ज्ञेयम् ऐश्वर्यं सार्वकामिकम् ॥

1.88.11

सावद्यं निरवद्यं च सूक्ष्मं चैव प्रवर्तते
सावद्यं नाम यत्तत्र पञ्चभूतात्मकं स्मृतम् ॥

1.88.12

इन्द्रियाणि मनश्चैव अहङ्कारश् च यः स्मृतः
तत्र सूक्ष्मप्रवृत्तिस्तु पञ्चभूतात्मिका पुनः ॥

1.88.13

इन्द्रियाणि मनश्चित्त बुद्ध्यहङ्कारसंज्ञितम्
तथा सर्वमयं चैव आत्मस्था ख्यातिरेव च ॥

1.88.14

संयोग एव त्रिविधः सूक्ष्मेष्वेव प्रवर्तते
पुनरष्टगुणश्चापि सूक्ष्मेष्वेव विधीयते ॥

1.88.15

तस्य रूपं प्रवक्ष्यामि यथाह भगवान्प्रभुः
त्रैलोक्ये सर्वभूतेषु यथास्य नियमः स्मृतः ॥

1.88.16

अणिमाद्यं तथाव्यक्तं सर्वत्रैव प्रतिष्ठितम्
त्रैलोक्ये सर्वभूतानां दुष्प्राप्यं समुदाहृतम् ॥

1.88.17

तत् तस्य भवति प्राप्यं प्रथमं योगिनां बलम्
लङ्घनं प्लवनं लोके रूपमस्य सदा भवेत् ॥

1.88.18

शीघ्रत्वं सर्वभूतेषु द्वितीयं तु पदं स्मृतम्
त्रैलोक्ये सर्वभूतानां महिम्ना चैव वन्दितम् ॥

1.88.19

महित्वं चापि लोके ऽस्मिंस् तृतीयो योग उच्यते
त्रैलोक्ये सर्वभूतेषु यथेष्टगमनं स्मृतम् ॥

1.88.20

प्राकामान् विषयान् भुङ्क्ते तथाप्रतिहतः क्वचित्
त्रैलोक्ये सर्वभूतानां सुखदुःखं प्रवर्तते ॥

1.88.21

ईशो भवति सर्वत्र प्रविभागेन योगवित्
वश्यानि चास्य भूतानि त्रैलोक्ये सचराचरे ॥

1.88.22

इच्छया तस्य रूपाणि भवन्ति न भवन्ति च
यत्र कामावसायित्वं त्रैलोक्ये सचराचरे ॥

1.88.23

शब्दः स्पर्शो रसो गन्धो रूपं चैव मनस् तथा
प्रवर्तन्ते ऽस्य चेच्छातो न भवन्ति यथेच्छया ॥

1.88.24

न जायते न म्रियते छिद्यते न च भिद्यते
न दह्यते न मुह्येत लीयते न च लिप्यते ॥

1.88.25

न क्षीयते न क्षरति खिद्यते न कदाचन
क्रियते वा न सर्वत्र तथा विक्रियते न च ॥

1.88.26

अगन्धरसरूपस्तु अस्पर्शः शब्दवर्जितः
अवर्णो ह्यस्वरश् चैव असवर्णस्तु कर्हिचित् ॥

1.88.27

स भुङ्क्ते विषयांश्चैव विषयैर्न च युज्यते
अणुत्वात्तु परः सूक्ष्मः सूक्ष्मत्वाद् अपवर्गिकः ॥

1.88.28

व्यापकस्त्वपवर्गाच्च व्यापकात्पुरुषः स्मृतः
पुरुषः सूक्ष्मभावात्तु ऐश्वर्ये परमे स्थितः ॥

1.88.29

गुणोत्तरमथैश्वर्ये सर्वतः सूक्ष्ममुच्यते
ऐश्वर्यं चाप्रतीघातं प्राप्य योगमनुत्तमम् ॥

1.88.30

अपवर्गं ततो गच्छेत् सूक्ष्मं तत्परमं पदम्
एवं पाशुपतं योगं ज्ञातव्यं मुनिपुङ्गवाः ॥

1.88.31

स्वर्गापवर्गफलदं शिवसायुज्यकारणम्
अथवा गतविज्ञानो रागात्कर्म समाचरेत् ॥

1.88.32

राजसं तामसं वापि भुक्त्वा तत्रैव मुच्यते
तथा सुकृतकर्मा तु फलं स्वर्गे समश्नुते ॥

1.88.33

तस्मात्स्थानात्पुनः श्रेष्ठो मानुष्यमुपपद्यते
तस्माद्ब्रह्म परं सौख्यं ब्रह्म शाश्वतम् उत्तमम् ॥

1.88.34

ब्रह्म एव हि सेवेत ब्रह्मैव हि परं सुखम्
परिश्रमो हि यज्ञानां महतार्थेन वर्तते ॥

1.88.35

भूयो मृत्युवशं याति तस्मान्मोक्षः परं सुखम्
अथवा ध्यानसंयुक्तो ब्रह्मतत्त्वपरायणः ॥

1.88.36

न तु च्यावयितुं शक्यो मन्वन्तरशतैरपि
दृष्ट्वा तु पुरुषं दिव्यं विश्वाख्यं विश्वतोमुखम् ॥

1.88.37

विश्वपादशिरोग्रीवं विश्वेशं विश्वरूपिणम्
विश्वगन्धं विश्वमाल्यं विश्वांबरधरं प्रभुम् ॥

1.88.38

गोभिर् महीं संपतते पतत्रिणो नैवं भूयो जनयत्येवमेव
कविं पुराणम् अनुशासितारं सूक्ष्माच्च सूक्ष्मं महतो महान्तम् ॥

1.88.39

योगेन पश्येन्न च चक्षुषा पुनर् निरिन्द्रियं पुरुषं रुक्मवर्णम्
अलिङ्गिनं निर्गुणं चेतनं च नित्यं सदा सर्वगं सर्वसारम् ॥

1.88.40

अपाणिपादोदरपार्श्वजिह्वो ह्यतीन्द्रियो वापि सुसूक्ष्म एकः ॥

1.88.41

स वेद सर्वं न च सर्ववेद्यं तमाहुरग्र्यं पुरुषं महान्तम् ॥

1.88.42

अचेतनां सर्वगतां सूक्ष्मां प्रसवधर्मिणीम्
प्रकृतिं सर्वभूतानां युक्ताः पश्यन्ति योगिनः ॥

1.88.43

सर्वतः पाणिपादं तत् सर्वतो ऽक्षिशिरोमुखम्
सर्वतः श्रुतिमल् लोके सर्वमावृत्य तिष्ठति ॥

1.88.44

युक्तो योगेन चेशानं सर्वतश् च सनातनम्
पुरुषं सर्वभूतानां तं विद्वान्न विमुह्यति ॥

1.88.45

भूतात्मानं महात्मानं परमात्मानमव्ययम्
सर्वात्मानं परं ब्रह्म तद्वै ध्याता न मुह्यति ॥

1.88.46

पवनो हि यथा ग्राह्यो विचरन्सर्वमूर्तिषु
पुरि शेते सुदुर्ग्राह्यस् तस्मात्पुरुष उच्यते ॥

1.88.47

अथ चेल्लुप्तधर्मा तु सावशेषैः स्वकर्मभिः
ततस्तु ब्रह्मगर्भे वै शुक्रशोणितसंयुते ॥

1.88.48

स्त्रीपुंसोः संप्रयोगे हि जायते हि ततः प्रभुः
ततस्तु गर्भकालेन कललं नाम जायते ॥

1.88.49

कालेन कललं चापि बुद्बुदं सम्प्रजायते
मृत्पिण्डस्तु यथा चक्रे चक्रावर्तेन पीडितः ॥

1.88.50

हस्ताभ्यां क्रियमाणस्तु बिंबत्वमनुगच्छति
एवमाध्यात्मिकैर्युक्ता वायुना संप्रपूरितः ॥

1.88.51

यदि योनिं विमुञ्चामि तत्प्रपद्ये महेश्वरम्
यावद्धि वैष्णवो वायुर् जातमात्रं न संस्पृशेत् ॥

1.88.52

तावत्कालं महादेवम् अर्चयामीति चिन्तयेत्
जायते मानुषस्तत्र यथारूपं यथावयः ॥

1.88.53

वायुः संभवते खात्तु वाताद्भवति वै जलम्
जलात् सम्भवति प्राणः प्राणाच्छुक्रं विवर्धते ॥

1.88.54

रक्तभागास् त्रयस्त्रिंशद् रेतोभागाश् चतुर्दश
भागतो ऽर्धफलं कृत्वा ततो गर्भो निषिच्यते ॥

1.88.55

ततस्तु गर्भसंयुक्तः पञ्चभिर् वायुभिर् वृतः
पितुः शरीरात्प्रत्यङ्गं रूपमस्योपजायते ॥

1.88.56

ततो ऽस्य मातुराहारात् पीतलीढप्रवेशनात्
नाभिदेशेन वै प्राणास् ते ह्य् आधारा हि देहिनाम् ॥

1.88.57

नवमासात् परिक्लिष्टः संवेष्टितशिरोधरः
वेष्टितः सर्वगात्रैश् च अपर्याप्तप्रवेशनः ॥

1.88.58

नवमासोषितश्चापि योनिच्छिद्रादवाङ्मुखः
ततः स्वकर्मभिः पापैर् निरयं सम्प्रपद्यते ॥

1.88.59

असिपत्रवनं चैव शाल्मलिच्छेदनं तथा
ताडनं भक्षणं चैव पूयशोणितभक्षणम् ॥

1.88.60

यथा ह्यापस्तु संछिन्नाः संश्लेष्मम् उपयान्ति वै
तथा छिन्नाश् च भिन्नाश्च यातनास्थानम् आगताः ॥

1.88.61

एवं जीवास्तु तैः पापैस् तप्यमानाः स्वयंकृतैः
प्राप्नुयुः कर्मभिः शेषैर् दुःखं वा यदि वेतरत् ॥

1.88.62

एकेनैव तु गन्तव्यं सर्वमुत्सृज्य वै जनम्
एकेनैव तु भोक्तव्यं तस्मात्सुकृतमाचरेत् ॥

1.88.63

न ह्येनं प्रस्थितं कश्चिद् गच्छन्तम् अनुगच्छति
यदनेन कृतं कर्म तदेनमनुगच्छति ॥

1.88.64

ते नित्यं यमविषयेषु सम्प्रवृत्ताः क्रोशन्तः सततमनिष्टसंप्रयोगैः
शुष्यन्ते परिगतवेदनाः शरीरा बह्वीभिः सुभृशमनन्तयातनाभिः ॥

1.88.65

कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते
तदभ्यासो हरत्येनं तस्मात्कल्याणमाचरेत् ॥

1.88.66

अनादिमान्प्रबन्धः स्यात् पूर्वकर्मणि देहिनः
संसारं तामसं घोरं षड्विधं प्रतिपद्यते ॥

1.88.67

मानुष्यात्पशुभावश् च पशुभावान् मृगो भवेत्
मृगत्वात्पक्षिभावश् च तस्माच्चैव सरीसृपः ॥

1.88.68

सरीसृपत्वाद्गच्छेद्वै स्थावरत्वं न संशयः
स्थावरत्वे पुनः प्राप्ते यावद् उन्मिलते जनः ॥

1.88.69

कुलालचक्रवद्भ्रान्तस् तत्रैव परिवर्तते
इत्येवं हि मनुष्यादिः संसारः स्थावरान्तिकः ॥

1.88.70

विज्ञेयस्तामसो नाम तत्रैव परिवर्तते
सात्त्विकश्चापि संसारो ब्रह्मादिः परिकीर्तितः ॥

1.88.71

पिशाचान्तः स विज्ञेयः स्वर्गस्थानेषु देहिनाम्
ब्राह्मे तु केवलं सत्त्वं स्थावरे केवलं तमः ॥

1.88.72

चतुर्दशानां स्थानानां मध्ये विष्टम्भकं रजः
मर्मसु छिद्यमानेषु वेदनार्तस्य देहिनः ॥

1.88.73

ततस्तत्परमं ब्रह्म कथं विप्रः स्मरिष्यति
संसारः पूर्वधर्मस्य भावनाभिः प्रणोदितः ॥

1.88.74

मानुषं भजते नित्यं तस्माद्ध्यानं समाचरेत्
चतुर्दशविधं ह्येतद् बुद्ध्वा संसारमण्डलम् ॥

1.88.75

नित्यं समारभेद्धर्मं संसारभयपीडितः
ततस्तरति संसारं क्रमेण परिवर्तितः ॥

1.88.76

तस्माच्च सततं युक्तो ध्यानतत्परयुञ्जकः
तथा समारभेद्योगं यथात्मानं स पश्यति ॥

1.88.77

एष आपः परं ज्योतिर् एष सेतुरनुत्तमः
विवृत्या ह्येष संभेदाद् भूतानां चैव शाश्वतः ॥

1.88.78

तदेनं सेतुमात्मानम् अग्निं वै विश्वतोमुखम्
हृदिस्थं सर्वभूतानाम् उपासीत महेश्वरम् ॥

1.88.79

तथान्तः संस्थितं देवं स्वशक्त्या परिमण्डितम्
अष्टधा चाष्टधा चैव तथा चाष्टविधेन च ॥

1.88.80

सृष्ट्यर्थं संस्थितं वह्निं संक्षिप्य च हृदि स्थितम्
ध्यात्वा यथावद्देवेशं रुद्रं भुवननायकम् ॥

1.88.81

हुत्वा पञ्चाहुतीः सम्यक् तच्चिन्तागतमानसः
वैश्वानरं हृदिस्थं तु यथावदनुपूर्वशः ॥

1.88.82

आपः पूताः सकृत्प्राश्य तूष्णीं हुत्वा ह्युपाविशन्
प्राणायेति ततस्तस्य प्रथमा ह्याहुतिः स्मृता ॥

1.88.83

अपानाय द्वितीया च व्यानायेति तथा परा
उदानाय चतुर्थी स्यात् समानायेति पञ्चमी ॥

1.88.84

स्वाहाकारैः पृथग्घुत्वा शेषं भुञ्जीत कामतः
अपः पुनः सकृत्प्राश्य आचम्य हृदयं स्पृशेत् ॥

1.88.85

प्राणानां ग्रन्थिरस्यात्मा रुद्रो ह्यात्मा विशान्तकः
रुद्रो वै ह्यात्मनः प्राण एवमाप्याययेत्स्वयम् ॥

1.88.86

प्राणे निविष्टो वै रुद्रस् तस्मात्प्राणमयः स्वयम्
प्राणाय चैव रुद्राय जुहोत्यमृतमुत्तमम् ॥

1.88.87

शिवाविशेह मामीश स्वाहा ब्रह्मात्मने स्वयम्
एवं पञ्चाहुतीश्चैव प्रभुः प्रीणातु शाश्वतः ॥

1.88.88

पुरुषो ऽसि पुरे शेषे त्वं अङ्गुष्ठप्रमाणतः
आश्रितश्चैव चाङ्गुष्ठम् ईशः परमकारणम् ॥

1.88.89

सर्वस्य जगतश्चैव प्रभुः प्रीणातु शाश्वतः
त्वं देवानामसि ज्येष्ठो रुद्रस्त्वं च पुरो वृषा ॥

1.88.90

मृदुस्त्वमन्नमस्मभ्यम् एतदस्तु हुतं तव
इत्येवं कथितं सर्वं गुणप्राप्तिविशेषतः ॥

1.88.91

योगाचारः स्वयं तेन ब्रह्मणा कथितः पुरा
एवं पाशुपतं ज्ञानं ज्ञातव्यं च प्रयत्नतः ॥

1.88.92

भस्मस्नायी भवेन् नित्यं भस्मलिप्तः सदा भवेत्
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान् ॥

1.88.93

दैवे कर्मणि पित्र्ये वा स याति परमां गतिम् ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc