भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.90

1.90.1

अत ऊर्ध्वं प्रवक्ष्यामि यतीनामिह निश्चितम्
प्रायश्चित्तं शिवप्रोक्तं यतीनां पापशोधनम् ॥

1.90.2

पापं हि त्रिविधं ज्ञेयं वाङ्मनःकायसंभवम्
सततं हि दिवा रात्रौ येनेदं वेष्ट्यते जगत् ॥

1.90.3

तत्कर्मणा विनाप्येष तिष्ठतीति परा श्रुतिः
क्षणमेवं प्रयोज्यं तु आयुष्यं तु विधारणम् ॥

1.90.4

भवेद्योगो ऽप्रमत्तस्य योगो हि परमं बलम्
न हि योगात्परं किंचिन् नराणां दृश्यते शुभम् ॥

1.90.5

तस्माद् योगं प्रशंसन्ति धर्मयुक्ता मनीषिणः
अविद्यां विद्यया जित्वा प्राप्यैश्वर्यमनुत्तमम् ॥

1.90.6

दृष्ट्वा परावरं धीराः परं गच्छन्ति तत्पदम्
व्रतानि यानि भिक्षूणां तथैवोपव्रतानि च ॥

1.90.7

एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते
उपेत्य तु स्त्रियं कामात् प्रायश्चित्तं विनिर्दिशेत् ॥

1.90.8

प्राणायामसमायुक्तं चरेत्सांतपनं व्रतम्
ततश्चरति निर्देशात् कृच्छ्रं चान्ते समाहितः ॥

1.90.9

पुनर् आश्रमम् आगत्य चरेद्भिक्षुरतन्द्रितः
न धर्मयुक्तमनृतं हिनस्तीति मनीषिणः ॥

1.90.10

तथापि न च कर्तव्यं प्रसंगो ह्येष दारुणः
अहोरात्रोपवासश् च प्राणायामशतं तथा ॥

1.90.11

असद्वादो न कर्तव्यो यतिना धर्मलिप्सुना
परमापद्गतेनापि न कार्यं स्तेयमप्युत ॥

1.90.12

स्तेयादभ्यधिकः कश्चिन् नास्त्यधर्म इति श्रुतिः
हिंसा ह्येषा परा सृष्टा स्तैन्यं वै कथितं तथा ॥

1.90.13

यदेतद्द्रविणं नाम प्राणा ह्येते बहिश्चराः
स तस्य हरते प्राणान् यो यस्य हरते धनम् ॥

1.90.14

एवं कृत्वा सुदुष्टात्मा भिन्नवृत्तो व्रताच्च्युतः
भूयो निर्वेदमापन्नश् चरेच्चान्द्रायणं व्रतम् ॥

1.90.15

विधिना शास्त्रदृष्टेन संवत्सरमिति श्रुतिः
ततः संवत्सरस्यान्ते भूयः प्रक्षीणकल्मषः
पुनर्निर्वेदमापन्नश् चरेद्भिक्षुरतन्द्रितः ॥

1.90.16

अहिंसा सर्वभूतानां कर्मणा मनसा गिरा
अकामादपि हिंसेत यदि भिक्षुः पशून् कृमीन् ॥

1.90.17

कृच्छ्रातिकृच्छ्रं कुर्वीत चान्द्रायणमथापि वा
स्कन्देदिन्द्रियदौर्बल्यात् स्त्रियं दृष्ट्वा यतिर्यदि ॥

1.90.18

तेन धारयितव्या वै प्राणायामास्तु षोडश
दिवा स्कन्नस्य विप्रस्य प्रायश्चित्तं विधीयते ॥

1.90.19

त्रिरात्रमुपवासाश् च प्राणायामशतं तथा
रात्रौ स्कन्नः शुचिः स्नात्वा द्वादशैव तु धारणा ॥

1.90.20

प्राणायामेन शुद्धात्मा विरजा जायते द्विजाः
एकान्नं मधुमांसं वा अशृतान्नं तथैव च ॥

1.90.21

अभोज्यानि यतीनां तु प्रत्यक्षलवणानि च
एकैकातिक्रमात्तेषां प्रायश्चित्तं विधीयते ॥

1.90.22

प्राजापत्येन कृच्छ्रेण ततः पापात्प्रमुच्यते
व्यतिक्रमाश् च ये केचिद् वाङ्मनःकायसंभवाः ॥

1.90.23

सद्भिः सह विनिश्चित्य यद्ब्रूयुस्तत्समाचरेत् ॥

1.90.24

चरेद्धि शुद्धः समलोष्टकाञ्चनः समस्तभूतेषु च सत्समाहितः
स्थानं ध्रुवं शाश्वतमव्ययं तु परं हि गत्वा न पुनर्हि जायते ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc