लिङ्गपुराण · अध्याय 1.85
सर्वव्रतेषु सम्पूज्य देवदेवमुमापतिम्
जपेत्पञ्चाक्षरीं विद्यां विधिनैव द्विजोत्तमाः ॥
जपादेव न संदेहो व्रतानां वै विशेषतः
समाप्तिर्नान्यथा तस्माज् जपेत्पञ्चाक्षरीं शुभाम् ॥
कथं पञ्चाक्षरी विद्या प्रभावो वा कथं वद
क्रमोपायं महाभाग श्रोतुं कौतूहलं हि नः ॥
पुरा देवेन रुद्रेण देवदेवेन शंभुना
पार्वत्याः कथितं पुण्यं प्रवदामि समासतः ॥
भगवन्देवदेवेश सर्वलोकमहेश्वर
पञ्चाक्षरस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः ॥
पञ्चाक्षरस्य माहात्म्यं वर्षकोटिशतैरपि
न शक्यं कथितुं देवि तस्मात् संक्षेपतः शृणु ॥
प्रलये समनुप्राप्ते नष्टे स्थावरजङ्गमे
नष्टे देवासुरे चैव नष्टे चोरगराक्षसे ॥
सर्वं प्रकृतिमापन्नं त्वया प्रलयमेष्यति
एको ऽहं संस्थितो देवि न द्वितीयो ऽस्ति कुत्रचित् ॥
तस्मिन्वेदाश् च शास्त्राणि मन्त्रे पञ्चाक्षरे स्थिताः
ते नाशं नैव सम्प्राप्ता मच्छक्त्या ह्यनुपालिताः ॥
अहमेको द्विधाप्यासं प्रकृत्यात्मप्रभेदतः
स तु नारायणः शेते देवो मायामयीं तनुम् ॥
आस्थाय योगपर्यङ्क शयने तोयमध्यगः
तन्नाभिपङ्कजाज्जातः पञ्चवक्त्रः पितामहः ॥
सिसृक्षमाणो लोकान्वै त्रीनशक्तो ऽसहायवान्
दश ब्रह्मा ससर्जादौ मानसानमितौजसः ॥
तेषां सृष्टिप्रसिद्ध्यर्थं मां प्रोवाच पितामहः
मत्पुत्राणां महादेव शक्तिं देहि महेश्वर ॥
इति तेन समादिष्टः पञ्चवक्त्रधरो ह्यहम्
पञ्चाक्षरान्पञ्चमुखैः प्रोक्तवान् पद्मयोनये ॥
तान्पञ्चवदनैर्गृह्णन् ब्रह्मा लोकपितामहः
वाच्यवाचकभावेन ज्ञातवान्परमेश्वरम् ॥
वाच्यः पञ्चाक्षरैर्देवि शिवस्त्रैलोक्यपूजितः
वाचकः परमो मन्त्रस् तस्य पञ्चाक्षरः स्थितः ॥
ज्ञात्वा प्रयोगं विधिना च सिद्धिं लब्ध्वा तथा पञ्चमुखो महात्मा
प्रोवाच पुत्रेषु जगद्धिताय मन्त्रं महार्थं किल पञ्चवर्णम् ॥
ते लब्ध्वा मन्त्ररत्नं तु साक्षाल्लोकपितामहात्
तमाराधयितुं देवं परात्परतरं शिवम् ॥
ततस्तुतोष भगवान् त्रिमूर्तीनां परः शिवः
दत्तवानखिलं ज्ञानम् अणिमादिगुणाष्टकम् ॥
ते ऽपि लब्ध्वा वरान्विप्रास् तदाराधनकाङ्क्षिणः
मेरोस्तु शिखरे रम्ये मुञ्जवान्नाम पर्वतः ॥
मत्प्रियः सततं श्रीमान् मद्भूतैः परिरक्षितः
तस्याभ्याशे तपस्तीव्रं लोकसृष्टिसमुत्सुकाः ॥
दिव्यवर्षसहस्रं तु वायुभक्षाः समाचरन्
तिष्ठन्तो ऽनुग्रहार्थाय देवि ते ऋषयः पुरा ॥
तेषां भक्तिमहं दृष्ट्वा सद्यः प्रत्यक्षतामियाम्
पञ्चाक्षरम् ऋषिच्छन्दो दैवतं शक्तिबीजवत् ॥
न्यासं षडङ्गं दिग्बन्धं विनियोगमशेषतः
प्रोक्तवानहमार्याणां लोकानां हितकाम्यया ॥
तच्छ्रुत्वा मन्त्रमाहात्म्यम् ऋषयस्ते तपोधनाः
मन्त्रस्य विनियोगं च कृत्वा सर्वमनुष्ठिताः ॥
तन्माहात्म्यात् तदा लोकान् सदेवासुरमानुषान्
वर्णान्वर्णविभागांश् च सर्वधर्मांश् च शोभनान् ॥
पूर्वकल्पसमुद्भूताञ् छ्रुतवन्तो यथा पुरा
पञ्चाक्षरप्रभावाच्च लोका वेदा महर्षयः ॥
तिष्ठन्ति शाश्वता धर्मा देवाः सर्वमिदं जगत्
तद् इदानीं प्रवक्ष्यामि शृणु चावहिताखिलम् ॥
अल्पाक्षरं महार्थं च वेदसारं विमुक्तिदम्
आज्ञासिद्धमसंदिग्धं वाक्यमेतच्छिवात्मकम् ॥
नानासिद्धियुतं दिव्यं लोकचित्तानुरञ्जकम्
सुनिश्चितार्थं गंभीरं वाक्यं मे पारमेश्वरम् ॥
मन्त्रं मुखसुखोच्चार्यम् अशेषार्थप्रसाधकम्
तद्बीजं सर्वविद्यानां मन्त्रमाद्यं सुशोभनम् ॥
अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत्
वेदः स त्रिगुणातीतः सर्वज्ञः सर्वकृत्प्रभुः ॥
ओमित्येकाक्षरं मन्त्रं स्थितः सर्वगतः शिवः
मन्त्रे षडक्षरे सूक्ष्मे पञ्चाक्षरतनुः शिवः ॥
वाच्यवाचकभावेन स्थितः साक्षात्स्वभावतः
वाच्यः शिवः प्रमेयत्वान् मन्त्रस्तद्वाचकः स्मृतः ॥
वाच्यवाचकभावो ऽयम् अनादिः संस्थितस्तयोः
वेदे शिवागमे वापि यत्र यत्र षडक्षरः ॥
मन्त्रः स्थितः सदा मुख्यो लोके पञ्चाक्षरो मतः
किं तस्य बहुभिर् मन्त्रैः शास्त्रैर्वा बहुविस्तृतैः ॥
यस्यैवं हृदि संस्थो ऽयं मन्त्रः स्यात्पारमेश्वरः
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ॥
यो विद्वान्वै जपेत्सम्यग् अधीत्यैव विधानतः
एतावद्धि शिवज्ञानम् एतावत्परमं पदम् ॥
एतावद् ब्रह्मविद्या च तस्मान्नित्यं जपेद्बुधः
पञ्चाक्षरैः सप्रणवो मन्त्रो ऽयं हृदयं मम ॥
गुह्याद्गुह्यतरं साक्षान् मोक्षज्ञानम् अनुत्तमम्
अस्य मन्त्रस्य वक्ष्यामि ऋषिच्छन्दो ऽधिदैवतम् ॥
बीजं शक्तिं स्वरं वर्णं स्थानं चैवाक्षरं प्रति
वामदेवो नाम ऋषिः पङ्क्तिश्छन्द उदाहृतः ॥
देवता शिव एवाहं मन्त्रस्यास्य वरानने
नकारादीनि बीजानि पञ्चभूतात्मकानि च ॥
आत्मानं प्रणवं विद्धि सर्वव्यापिनमव्ययम्
शक्तिस्त्वमेव देवेशि सर्वदेवनमस्कृते ॥
त्वदीयं प्रणवं किंचिन् मदीयं प्रणवं तथा
त्वदीयं देवि मन्त्राणां शक्तिभूतं न संशयः ॥
अकारोकारमकारा मदीये प्रणवे स्थिताः
उकारं च मकारं च अकारं च क्रमेण वै ॥
त्वदीयं प्रणवं विद्धि त्रिमात्रं प्लुतमुत्तमम्
ओङ्कारस्य स्वरोदात्त ऋषिर्ब्रह्म सितं वपुः ॥
छन्दो देवी च गायत्री परमात्माधिदेवता
उदात्तः प्रथमस्तद्वच् चतुर्थश् च द्वितीयकः ॥
पञ्चमः स्वरितश्चैव मध्यमो निषधः स्मृताः
नकारः पीतवर्णश् च स्थानं पूर्वमुखं स्मृतम् ॥
इन्द्रो ऽधिदैवतं छन्दो गायत्री गौतम ऋषिः
मकारः कृष्णवर्णो ऽस्य स्थानं वै दक्षिणामुखम् ॥
छन्दो ऽनुष्टुप् ऋषिश्चात्री रुद्रो दैवतमुच्यते
शिकारो धूम्रवर्णो ऽस्य स्थानं वै पश्चिमं मुखम् ॥
विश्वामित्र ऋषिस्त्रिष्टुप् छन्दो विष्णुस्तु दैवतम्
वाकारो हेमवर्णो ऽस्य स्थानं चैवोत्तरं मुखम् ॥
ब्रह्माधिदैवतं छन्दो बृहती चाङ्गिरा ऋषिः
यकारो रक्तवर्णश् च स्थानम् ऊर्ध्वं मुखं विराट् ॥
छन्द ऋषिर्भरद्वाजः स्कन्दो दैवतमुच्यते
न्यासमस्य प्रवक्ष्यामि सर्वसिद्धिकरं शुभम् ॥
सर्वपापहरं चैव त्रिविधो न्यास उच्यते
उत्पत्तिस्थितिसंहार भेदतस्त्रिविधः स्मृतः ॥
ब्रह्मचारिगृहस्थानां यतीनां क्रमशो भवेत्
उत्पत्तिर्ब्रह्मचारिणां गृहस्थानां स्थितिः सदा ॥
यतीनां संहृतिर् न्यासः सिद्धिर् भवति नान्यथा
अङ्गन्यासः करन्यासो देहन्यास इति त्रिधा ॥
उत्पत्त्यादित्रिभेदेन वक्ष्यते ते वरानने
न्यसेत्पूर्वं करन्यासं देहन्यासम् अनन्तरम् ॥
अङ्गन्यासं ततः पश्चाद् अक्षराणां विधिक्रमात्
मूर्धादिपादपर्यन्तम् उत्पत्तिन्यास उच्यते ॥
पादादिमूर्धपर्यन्तं संहारो भवति प्रिये
हृदयास्यगलन्यासः स्थितिन्यास उदाहृतः ॥
ब्रह्मचारिगृहस्थानां यतीनां चैव शोभने
सशिरस्कं ततो देहं सर्वमन्त्रेण संस्पृशेत् ॥
स देहन्यास इत्युक्तः सर्वेषां सम एव स
दक्षिणाङ्गुष्ठमारभ्य वामाङ्गुष्ठान्त एव हि ॥
न्यस्यते यत्तदुत्पत्तिर् विपरीतं तु संहृतिः
अङ्गुष्ठादिकनिष्ठान्तं न्यस्यते हस्तयोर् द्वयोः ॥
अतीव भोगदो देवि स्थितिन्यासः कुटुंबिनाम्
करन्यासं पुरा कृत्वा देहन्यासम् अनन्तरम् ॥
अङ्गन्यासं न्यसेत्पश्चाद् एष साधारणो विधिः
ओङ्कारं संपुटीकृत्य सर्वाङ्गेषु च विन्यसेत् ॥
करयोरुभयोश्चैव दशाग्रांगुलिषु क्रमात्
प्रक्षाल्य पादावाचम्य शुचिर्भूत्वा समाहितः ॥
प्राङ्मुखोदङ्मुखो वापि न्यासकर्म समाचरेत्
स्मरेत् पूर्वम् ऋषिं छन्दो दैवतं बीजमेव च ॥
शक्तिं च परमात्मानं गुरुं चैव वरानने
मन्त्रेण पाणी संमृज्य तलयोः प्रणवं न्यसेत् ॥
अङ्गुलीनां च सर्वेषां तथा चाद्यन्तपर्वसु
सबिन्दुकानि बीजानि पञ्च मध्यमपर्वसु ॥
उत्पत्त्यादित्रिभेदेन न्यसेदाश्रमतः क्रमात्
उभाभ्यामेव पाणिभ्याम् आपादतलमस्तकम् ॥
मन्त्रेण संस्पृशेद्देहं प्रणवेनैव संपुटम्
मूर्ध्नि वक्त्रे च कण्ठे च हृदये गुह्यके तथा ॥
पादयोर् उभयोश्चैव गुह्ये च हृदये तथा
कण्ठे च मुखमध्ये च मूर्ध्नि च प्रणवादिकम् ॥
हृदये गुह्यके चैव पादयोर्मूर्ध्नि वाचि वा
कण्ठे चैव न्यसेदेव प्रणवादित्रिभेदतः ॥
कृत्वाङ्गन्यासमेवं हि मुखानि परिकल्पयेत्
पूर्वादि चोर्ध्वपर्यन्तं नकारादि यथाक्रमम् ॥
षडङ्गानि न्यसेत्पश्चाद् यथास्थानं च शोभनम्
नमः स्वाहा वषड्ढुं च वौषट्फट्कारकैः सह ॥
प्रणवं हृदयं विद्यान् नकारः शिर उच्यते
शिखा मकार आख्यातः शिकारः कवचं तथा ॥
आकारो नेत्रमस्त्रं तु यकारः परिकीर्तितः
इत्थमङ्गानि विन्यस्य ततो वै बन्धयेद्दिशः ॥
विघ्नेशो मातरो दुर्गा क्षेत्रज्ञो देवता दिशः
आग्नेयादिषु कोणेषु चतुर्ष्वपि यथाक्रमम् ॥
अङ्गुष्ठतर्जन्यग्राभ्यां संस्थाप्य सुमुखं शुभम्
रक्षध्वमिति चोक्त्वा तु नमस्कुर्यात्पृथक्पृथक् ॥
गले मध्ये तथाङ्गुष्ठे तर्जन्याद्याङ्गुलीषु च
अङ्गुष्ठेन करन्यासं कुर्यादेव विचक्षणः ॥
एवं न्यासमिमं प्रोक्तं सर्वपापहरं शुभम्
सर्वसिद्धिकरं पुण्यं सर्वरक्षाकरं शिवम् ॥
न्यस्ते मन्त्रे ऽथ सुभगे शङ्करप्रतिमो भवेत्
जन्मान्तरकृतं पापम् अपि नश्यति तत्क्षणात् ॥
एवं विन्यस्य मेधावी शुद्धकायो दृढव्रतः
जपेत्पञ्चाक्षरं मन्त्रं लब्ध्वाचार्यप्रसादतः ॥
अतः परं प्रवक्ष्यामि मन्त्रसंग्रहणं शुभे
यं विना निष्फलं नित्यं येन वा सफलं भवेत् ॥
आज्ञाहीनं क्रियाहीनं श्रद्धाहीनम् अमानसम्
आज्ञप्तं दक्षिणाहीनं सदा जप्तं च निष्फलम् ॥
आज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धं सुमानसम्
एवं च दक्षिणासिद्धं मन्त्रं सिद्धं यतस्ततः ॥
उपागम्य गुरुं विप्रं मन्त्रतत्त्वार्थवेदिनम्
ज्ञानिनं सद्गुणोपेतं ध्यानयोगपरायणम् ॥
तोषयेत्तं प्रयत्नेन भावशुद्धिसमन्वितः
वाचा च मनसा चैव कायेन द्रविणेन च ॥
आचार्यं पूजयेच्छिष्यः सर्वदातिप्रयत्नतः
हस्त्यश्वरथरत्नानि क्षेत्राणि च गृहाणि च ॥
भूषणानि च वासांसि धान्यानि विविधानि च
एतानि गुरवे दद्याद् भक्त्या च विभवे सति ॥
वित्तशाठ्यं न कुर्वीत यदीच्छेत्सिद्धिमात्मनः
पश्चान्निवेदयेद्देवि आत्मानं सपरिच्छदम् ॥
एवं सम्पूज्य विधिवद् यथाशक्ति त्ववञ्चयन्
आददीत गुरोर्मन्त्रं ज्ञानं चैव क्रमेण तु ॥
एवं तुष्टो गुरुः शिष्यं पूजितं वत्सरोषितम्
शुश्रूषुम् अनहङ्कारम् उपवासकृशं शुचिम् ॥
स्नापयित्वा तु शिष्याय ब्राह्मणानपि पूज्य च
समुद्रतीरे नद्यां च गोष्ठे देवालये ऽपि वा ॥
शुचौ देशे गृहे वापि काले सिद्धिकरे तिथौ
नक्षत्रे शुभयोगे च सर्वदा दोषवर्जिते ॥
अनुगृह्य ततो दद्याच् छिवज्ञानम् अनुत्तमम्
स्वरेणोच्चारयेत् सम्यग् एकान्ते ऽपि प्रसन्नधीः ॥
उच्चार्योच्चारयित्वा तु आचार्यः सिद्धिदः स्वयम्
शिवं चास्तु शुभं चास्तु शोभनो ऽस्तु प्रियो ऽस्त्विति ॥
एवं लब्ध्वा परं मन्त्रं ज्ञानं चैव गुरोस्ततः
जपेन्नित्यं ससंकल्पं पुरश्चरणमेव च ॥
यावज्जीवं जपेन्नित्यम् अष्टोत्तरसहस्रकम्
अनश्नंस्तत्परो भूत्वा स याति परमां गतिम् ॥
जपेदक्षरलक्षं वै चतुर्गुणितमादरात्
नक्ताशी संयमी यश् च पौरश्चरणिकः स्मृतः ॥
पुरश्चरणजापी वा अपि वा नित्यजापकः
अचिरात्सिद्धिकाङ्क्षी तु तयोरन्यतरो भवेत् ॥
यः पुरश्चरणं कृत्वा नित्यजापी भवेन्नरः
तस्य नास्ति समो लोके स सिद्धः सिद्धिदो वशी ॥
आसनं रुचिरं बद्ध्वा मौनी चैकाग्रमानसः
प्राङ्मुखोदङ्मुखो वापि जपेन्मन्त्रमनुत्तमम् ॥
आद्यान्तयोर् जपस्यापि कुर्याद्वै प्राणसंयमान्
तथा चान्ते जपेद्बीजं शतमष्टोत्तरं शुभम् ॥
चत्वारिंशत्समावृत्ति प्राणानायम्य संस्मरेत्
पञ्चाक्षरस्य मन्त्रस्य प्राणायाम उदाहृतः ॥
प्राणायामाद्भवेत्क्षिप्रं सर्वपापपरिक्षयः
इन्द्रियाणां वशित्वं च तस्मात्प्राणांश् च संयमेत् ॥
गृहे जपः समं विद्याद् गोष्ठे शतगुणं भवेत्
नद्यां शतसहस्रं तु अनन्तः शिवसन्निधौ ॥
समुद्रतीरे देवह्रदे गिरौ देवालयेषु च
पुण्याश्रमेषु सर्वेषु जपः कोटिगुणो भवेत् ॥
शिवस्य संनिधाने च सूर्यस्याग्रे गुरोरपि
दीपस्य गोर्जलस्यापि जपकर्म प्रशस्यते ॥
अङ्गुलीजपसंख्यानम् एकमेकं शुभानने
रेखैरष्टगुणं प्रोक्तं पुत्रजीवफलैर् दश ॥
शतं वै शङ्खमणिभिः प्रवालैश् च सहस्रकम्
स्फाटिकैर् दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ॥
पद्माक्षैर्दशलक्षं तु सौवर्णैः कोटिरुच्यते
कुशग्रन्थ्या च रुद्राक्षैर् अनन्तगुणमुच्यते ॥
पञ्चविंशति मोक्षार्थं सप्तविंशति पौष्टिकम्
त्रिंशच्च धनसंपत्त्यै पञ्चाशच्चाभिचारिकम् ॥
तत्पूर्वाभिमुखं वश्यं दक्षिणं चाभिचारिकम्
पश्चिमं धनदं विद्याद् उत्तरं शान्तिकं भवेत् ॥
अङ्गुष्ठं मोक्षदं विद्यात् तर्जनी शत्रुनाशनी
मध्यमा धनदा शान्तिं करोत्येषा ह्य् अनामिका ॥
कनिष्ठा रक्षणीया सा जपकर्मणि शोभने
अङ्गुष्ठेन जपेज्जप्यम् अन्यैरङ्गुलिभिः सह ॥
अङ्गुष्ठेन विना कर्म कृतं तदफलं यतः
शृणुष्व सर्वयज्ञेभ्यो जपयज्ञो विशिष्यते ॥
हिंसया ते प्रवर्तन्ते जपयज्ञो न हिंसया
यावन्तः कर्मयज्ञाः स्युः प्रदानानि तपांसि च ॥
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम्
माहात्म्यं वाचिकस्यैव जपयज्ञस्य कीर्तितम् ॥
तस्माच्छतगुणोपांशुः सहस्रो मानसः स्मृतः
यद् उच्चनीचस्वरितैः शब्दैः स्पष्टपदाक्षरैः ॥
मन्त्रमुच्चारयेद्वाचा जपयज्ञः स वाचिकः
शनैरुच्चारयेन्मन्त्रम् ईषद् ओष्ठौ तु चालयेत् ॥
किंचित् कर्णान्तरं विद्याद् उपांशुः स जपः स्मृतः
धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् ॥
शब्दार्थं चिन्तयेद्भूयः स तूक्तो मानसो जपः
त्रयाणां जपयज्ञानां श्रेयान् स्यादुत्तरोत्तरः ॥
भवेद्यज्ञविशेषेण वैशिष्ट्यं तत्फलस्य च
जपेन देवता नित्यं स्तूयमाना प्रसीदति ॥
प्रसन्ना विपुलान् भोगान् दद्यान्मुक्तिं च शाश्वतीम्
यक्षरक्षःपिशाचाश् च ग्रहाः सर्वे च भीषणाः
जापिनं नोपसर्पन्ति भयभीताः समन्ततः ॥
जपेन भोगान् जयते च मृत्युं जपेन सिद्धिं लभते च मुक्तिम् ॥
एवं लब्ध्वा शिवं ज्ञानं ज्ञात्वा जपविधिक्रमम् ॥
सदाचारी जपन्नित्यं ध्यायन् भद्रं समश्नुते
सदाचारं प्रवक्ष्यामि सम्यग्धर्मस्य साधनम् ॥
यस्मादाचारहीनस्य साधनं निष्फलं भवेत्
आचारः परमो धर्म आचारः परमं तपः ॥
आचारः परमा विद्या आचारः परमा गतिः
सदाचारवतां पुंसां सर्वत्राप्यभयं भवेत् ॥
तद्वदाचारहीनानां सर्वत्रैव भयं भवेत्
सदाचारेण देवत्वम् ऋषित्वं च वरानने ॥
उपयान्ति कुयोनित्वं तद्वद् आचारलङ्घनात्
आचारहीनः पुरुषो लोके भवति निन्दितः ॥
तस्मात्संसिद्धिमन्विच्छन् सम्यगाचारवान् भवेत्
दुर्वृत्तः शुद्धिभूयिष्ठः पापीयान् ज्ञानदूषकः ॥
वर्णाश्रमविधानोक्तं धर्मं कुर्वीत यत्नतः ॥
यस्य यद्विहितं कर्म तत्कुर्वन्मत्प्रियः सदा
संध्योपासनशीलः स्यात् सायं प्रातः प्रसन्नधीः ॥
उदयास्तमयात्पूर्वम् आरम्य विधिना शुचिः
कामान्मोहाद्भयाल्लोभात् संध्यां नातिक्रमेद्द्विजः ॥
संध्यातिक्रमणाद्विप्रो ब्राह्मण्यात्पतते यतः
असत्यं न वदेत् किंचिन् न सत्यं च परित्यजेत् ॥
यत्सत्यं ब्रह्म इत्याहुर् असत्यं ब्रह्मदूषणम्
अनृतं परुषं शाठ्यं पैशुन्यं पापहेतुकम् ॥
परदारान्परद्रव्यं परहिंसां च सर्वदा
क्वचिच्चापि न कुर्वीत वाचा च मनसा तथा ॥
शूद्रान्नं यातयामान्नं नैवेद्यं श्राद्धमेव च
गणान्नं समुदायान्नं राजान्नं च विवर्जयेत् ॥
अन्नशुद्धौ सत्त्वशुद्धिर् न मृदा न जलेन वै
सत्त्वशुद्धौ भवेत्सिद्धिस् ततो ऽन्नं परिशोधयेत् ॥
राजप्रतिग्रहैर् दग्धान् ब्राह्मणान् ब्रह्मवादिनः
स्विन्नानामपि बीजानां पुनर्जन्म न विद्यते ॥
राजप्रतिग्रहो घोरो बुद्ध्वा चादौ विषोपमः
बुधेन परिहर्तव्यः श्वमांसं चापि वर्जयेत् ॥
अस्नात्वा न च भुञ्जीयाद् अजपो ऽग्निमपूज्य च
पर्णपृष्ठे न भुञ्जीयाद् रात्रौ दीपं विना तथा ॥
भिन्नभाण्डे च रथ्यायां पतितानां च संनिधौ
शूद्रशेषं न भुञ्जीयात् सहान्नं शिशुकैरपि ॥
शुद्धान्नं स्निग्धम् अश्नीयात् संस्कृतं चाभिमन्त्रितम्
भोक्ता शिव इति स्मृत्वा मौनी चैकाग्रमानसः ॥
आस्येन न पिबेत्तोयं तिष्ठन्नञ्जलिनापि वा
वामहस्तेन शय्यायां तथैवान्यंकरेण वा ॥
विभीतकार्ककारञ्ज स्नुहिच्छायां न चाश्रयेत्
स्तंभदीपमनुष्याणाम् अन्येषां प्राणिनां तथा ॥
एको न गच्छेदध्वानं बाहुभ्यां नोत्तरेन्नदीम्
नावरोहेत कूपादिं नारोहेदुच्चपादपान् ॥
सूर्याग्निजलदेवानां गुरूणां विमुखः शुभे
न कुर्यादिह कार्याणि जपकर्म शुभानि वा ॥
अग्नौ न तापयेत्पादौ हस्तं पद्भ्यां न संस्पृशेत्
अग्नेर्नोच्छ्रयम् आसीत नाग्नौ किंचिन् मलं त्यजेत् ॥
न जलं ताडयेत्पद्भ्यां नांभस्यङ्गमलं त्यजेत्
मलं प्रक्षालयेत् तीरे प्रक्षाल्य स्नानमाचरेत् ॥
नखाग्रकेशनिर्धूत स्नानवस्त्रघटोदकम्
अश्रीकरं मनुष्याणाम् अशुद्धं संस्पृशेद्यदि ॥
अजाश्वानखुरोष्ट्राणां मार्जनात् तुषरेणुकान्
संस्पृशेद् यदि मूढात्मा श्रियं हन्ति हरेरपि ॥
मार्जारश् च गृहे यस्य सो ऽप्यन्त्यजसमो नरः
भोजयेद्यस्तु विप्रेन्द्रान् मार्जारसंनिधौ यदि ॥
तच्चाण्डालसमं ज्ञेयं नात्र कार्या विचारणा
स्फिग्वातं शूर्पवातं च वातं प्राणमुखानिलम् ॥
सुकृतानि हरन्त्येते संस्पृष्टाः पुरुषस्य तु
उष्णीषी कञ्चुकी नग्नो मुक्तकेशो मलावृतः ॥
अपवित्रकरो ऽशुद्धः प्रलपन्न जपेत् क्वचित्
क्रोधो मदः क्षुधा तन्द्रा निष्ठीवनविजृम्भणे ॥
श्वनीचदर्शनं निद्रा प्रलापास्ते जपद्विषः
एतेषां संभवे वापि कुर्यात्सूर्यादिदर्शनम् ॥
आचम्य वा जपेच्छेषं कृत्वा वा प्राणसंयमम्
सूर्यो ऽग्निश्चन्द्रमाश्चैव ग्रहनक्षत्रतारकाः ॥
एते ज्योतींषि प्रोक्तानि विद्वद्भिर् ब्राह्मणैस् तथा
प्रसार्य पादौ न जपेत् कुक्कुटासन एव च ॥
अनासनः शयानो वा रथ्यायां शूद्रसन्निधौ
रक्तभूम्यां च खट्वायां न जपेज्जापकस् तथा ॥
आसनस्थो जपेत्सम्यक् मन्त्रार्थगतमानसः
कौशेयं व्याघ्रचर्मं वा चैलं तौलमथापि वा ॥
दारवं तालपर्णं वा आसनं परिकल्पयेत्
त्रिसंध्यं तु गुरोः पूजा कर्तव्या हितमिच्छता ॥
यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः
यथा शिवस् तथा विद्या यथा विद्या तथा गुरुः ॥
शिवविद्यागुरोस्तस्माद् भक्त्या च सदृशं फलम्
सर्वदेवमयो देवि सर्वशक्तिमयो हि सः ॥
सगुणो निर्गुणो वापि तस्याज्ञां शिरसा वहेत्
श्रेयो ऽर्थी यस्तु गुर्वाज्ञां मनसापि न लङ्घयेत् ॥
गुर्वाज्ञापालकः सम्यक् ज्ञानसंपत्तिमश्नुते
गच्छंस्तिष्ठन्स्वपन् भुञ्जन् यद्यत्कर्म समाचरेत् ॥
समक्षं यदि तत्सर्वं कर्तव्यं गुर्वनुज्ञया
गुरोर्देवसमक्षं वा न यथेष्टासनो भवेत् ॥
गुरुर्देवो यतः साक्षात् तद्गृहं देवमन्दिरम्
पापिना च यथासंगात् तत्पापैः पतनं भवेत् ॥
तद्वदाचार्यसंगेन तद्धर्मफलभाग्भवेत्
यथैव वह्निसंपर्कान् मलं त्यजति काञ्चनम् ॥
तथैव गुरुसंपर्कात् पापं त्यजति मानवः
यथा वह्निसमीपस्थो घृतकुंभो विलीयते ॥
तथा पापं विलीयेत आचार्यस्य समीपतः
यथा प्रज्वलितो वह्निर् विष्ठां काष्ठं च निर्दहेत् ॥
गुरुस्तुष्टो दहत्येवं पापं तन्मन्त्रतेजसा
ब्रह्मा हरिस् तथा रुद्रो देवाश् च मुनयस् तथा ॥
कुर्वन्त्यनुग्रहं तुष्टा गुरौ तुष्टे न संशयः
कर्मणा मनसा वाचा गुरोः क्रोधं न कारयेत् ॥
तस्य क्रोधेन दह्यन्ते आयुःश्रीज्ञानसत्क्रियाः
तत्क्रोधं ये करिष्यन्ति तेषां यज्ञाश् च निष्फलाः ॥
जपान्यनियमाश्चैव नात्र कार्या विचारणा
गुरोर्विरुद्धं यद्वाक्यं न वदेत्सर्वयत्नतः ॥
वदेद् यदि महामोहाद् रौरवं नरकं व्रजेत्
चित्तेनैव च वित्तेन तथा वाचा च सुव्रताः ॥
मिथ्या न कारयेद्देवि क्रियया च गुरोः सदा
दुर्गुणे ख्यापिते तस्य नैर्गुण्यशतभाग्भवेत् ॥
गुणे तु ख्यापिते तस्य सार्वगुण्यफलं भवेत्
गुरोर्हितं प्रियं कुर्याद् आदिष्टो वा न वा सदा ॥
असमक्षं समक्षं वा गुरोः कार्यं समाचरेत्
गुरोर्हितं प्रियं कुर्यान् मनोवाक्कायकर्मभिः ॥
कुर्वन्पतत्यधो गत्वा तत्रैव परिवर्तते
तस्मात्स सर्वदोपास्यो वन्दनीयश् च सर्वदा ॥
समीपस्थो ऽप्यनुज्ञाप्य वदेत्तद्विमुखो गुरुम्
एवमाचारवान् भक्तो नित्यं जपपरायणः ॥
गुरुप्रियकरो मन्त्रं विनियोक्तुं ततो ऽर्हति
विनियोगं प्रवक्ष्यामि सिद्धमन्त्रप्रयोजनम् ॥
दौर्बल्यं याति तन्मन्त्रं विनियोगमजानतः
यस्य येन वियुञ्जीत कार्येण तु विशेषतः ॥
विनियोगः स विज्ञेय ऐहिकामुष्मिकं फलम्
विनियोगजमायुष्यम् आरोग्यं तनुनित्यता ॥
राज्यैश्वर्यं च विज्ञानं स्वर्गो निर्वाण एव च
प्रोक्षणं चाभिषेकं च अघमर्षणमेव च ॥
स्नाने च संध्ययोश्चैव कुर्यादेकादशेन वै
शुचिः पर्वतमारुह्य जपेल्लक्षमतन्द्रितः ॥
महानद्यां द्विलक्षं तु दीर्घमायुरवाप्नुयात्
दूर्वाङ्कुरास्तिला वाणी गुडूची घुटिका तथा ॥
तेषां तु दशसाहस्रं होममायुष्यवर्धनम्
अश्वत्थवृक्षमाश्रित्य जपेल्लक्षद्वयं सुधीः ॥
शनैश्चरदिने स्पृष्ट्वा दीर्घायुष्यं लभेन्नरः
शनैश्चरदिने ऽश्वत्थं पाणिभ्यां संस्पृशेत्सुधीः ॥
जपेदष्टोत्तरशतं सोममृत्युहरो भवेत्
आदित्याभिमुखो भूत्वा जपेल्लक्षमनन्यधीः ॥
अर्कैरष्टशतं जप्त्वा जुह्वन्व्याधेर्विमुच्यते
समस्तव्याधिशान्त्यर्थं पलाशसमिधैर् नरः ॥
हुत्वा दशसहस्रं तु निरोगी मनुजो भवेत्
नित्यमष्टशतं जप्त्वा पिबेद् अम्भो ऽर्कसन्निधौ ॥
औदर्यैर्व्याधिभिः सर्वैर् मासेनैकेन मुच्यते
एकादशेन भुञ्जीयाद् अन्नं चैवाभिमन्त्रितम् ॥
भक्ष्यं चान्यत्तथा पेयं विषमप्यमृतं भवेत्
जपेल् लक्षं तु पूर्वाह्णे हुत्वा चाष्टशतेन वै ॥
सूर्यं नित्यमुपस्थाय सम्यगारोग्यमाप्नुयात्
नदीतोयेन सम्पूर्णं घटं संस्पृश्य शोभनम् ॥
जप्त्वायुतं च तत्स्नानाद् रोगाणां भेषजं भवेत्
अष्टाविंशज्जपित्वान्नम् अश्नीयाद् अन्वहं शुचिः ॥
हुत्वा च तावत्पालाशैर् एवं वारोग्यम् अश्नुते
चन्द्रसूर्यग्रहे पूर्वम् उपोष्य विधिना शुचिः ॥
यावद्ग्रहणमोक्षं तु तावन्नद्यां समाहितः
जपेत्समुद्रगामिन्यां विमोक्षे ग्रहणस्य तु ॥
अष्टोत्तरसहस्रेण पिबेद्ब्राह्मीरसं द्विजाः
ऐहिकां लभते मेधां सर्वशास्त्रधरां शुभाम् ॥
सारस्वती भवेद्देवी तस्य वागतिमानुषी
ग्रहनक्षत्रपीडासु जपेद्भक्त्यायुतं नरः ॥
हुत्वा चाष्टसहस्रं तु ग्रहपीडां व्यपोहति
दुःस्वप्नदर्शने स्नात्वा जपेद्वै चायुतं नरः ॥
घृतेनाष्टशतं हुत्वा सद्यः शान्तिर्भविष्यति
चन्द्रसूर्यग्रहे लिङ्गं समभ्यर्च्य यथाविधि ॥
यत् किंचित् प्रार्थयेद् देवि जपेदयुतमादरात्
संनिधावस्य देवस्य शुचिः संयतमानसः ॥
सर्वान्कामानवाप्नोति पुरुषो नात्र संशयः
गजानां तुरगाणां तु गोजातीनां विशेषतः ॥
व्याध्यागमे शुचिर्भूत्वा जुहुयात्समिधाहुतिम्
मासमभ्यर्च्य विधिना -युतं भक्तिसमन्वितः ॥
तेषामृद्धिश् च शान्तिश् च भविष्यति न संशयः
उत्पाते शत्रुबाधायां जुहुयादयुतं शुचिः ॥
पालाशसमिधैर् देवि तस्य शान्तिर्भविष्यति
आभिचारिकबाधायाम् एतद्देवि समाचरेत् ॥
प्रत्यग् भवति तच्छक्तिः शत्रोः पीडा भविष्यति
विद्वेषणार्थं जुहुयाद् वैभीतसमिधाष्टकम् ॥
अक्षरप्रतिलोम्येन आर्द्रेण रुधिरेण वा
विषेण रुधिराभ्यक्तो विद्वेषणकरं नृणाम् ॥
प्रायश्चित्तं प्रवक्ष्यामि सर्वपापविशुद्धये
पापशुद्धिर्यथा सम्यक् कर्तुमभ्युद्यतो नरः ॥
पापशुद्धिर् यतः सम्यग् ज्ञानसंपत्तिहैतुकी
पापशुद्धिर्न चेत्पुंसः क्रियाः सर्वाश्चनिष्फलाः ॥
ज्ञानं च हीयते तस्मात् कर्तव्यं पापशोधनम्
विद्यालक्ष्मीविशुद्ध्यर्थं मां ध्यात्वाञ्जलिना शुभे ॥
शिवेनैकादशेनाद्भिर् अभिषिञ्चेत्समन्ततः
अष्टोत्तरशतेनैव स्नायात्पापविशुद्धये ॥
सर्वतीर्थफलं तच्च सर्वपापहरं शुभम्
संध्योपासनविच्छेदे जपेदष्टशतं नरः ॥
विड्वराहैश् च चाण्डालैर् दुर्जनैः कुक्कुटैरपि
स्पृष्टमन्नं न भुञ्जीत भुक्त्वा चाष्टशतं जपेत् ॥
ब्रह्महत्याविशुद्ध्यर्थं जपेल्लक्षायुतं नरः
पातकानां तदर्धं स्यान् नात्र कार्या विचारणा ॥
उपपातकदुष्टानां तदर्धं परिकीर्तितम्
शेषाणामपि पापानां जपेत्पञ्चसहस्रकम् ॥
आत्मबोधपरं गुह्यं शिवबोधप्रकाशकम्
शिवः स्यात्स जपेन्मन्त्रं पञ्चलक्षम् अनाकुलः ॥
पञ्चवायुजयं भद्रे प्राप्नोति मनुजः सुखम्
जपेच्च पञ्चलक्षं तु विगृहीतेन्द्रियः शुचिः ॥
पञ्चेन्द्रियाणां विजयो भविष्यति वरानने
ध्यानयुक्तो जपेद्यस्तु पञ्चलक्षमनाकुलः ॥
विषयाणां च पञ्चानां जयं प्राप्नोति मानवः
चतुर्थं पञ्चलक्षं तु यो जपेद्भक्तिसंयुतः ॥
भूतानामिह पञ्चानां विजयं मनुजो लभेत्
चतुर्लक्षं जपेद्यस्तु मनः संयम्य यत्नतः ॥
सम्यग्विजयमाप्नोति करणानां वरानने
पञ्चविंशतिलक्षाणां जपेन कमलानने ॥
पञ्चविंशतितत्त्वानां विजयं मनुजो लभेत्
मध्यरात्रे ऽतिनिर्वाते जपेदयुतमादरात् ॥
ब्रह्मसिद्धिमवाप्नोति व्रतेनानेन सुंदरि
जपेल्लक्षमनालस्यो निर्वाते ध्वनिवर्जिते ॥
मध्यरात्रे च शिवयोः पश्यत्येव न संशयः
अन्धकारविनाशश् च दीपस्येव प्रकाशनम् ॥
हृदयान्तर्बहिर्वापि भविष्यति न संशयः
सर्वसंपत्समृद्ध्यर्थं जपेदयुतमात्मवान् ॥
सबीजसंपुटं मन्त्रं शतलक्षं जपेच्छुचिः
मत्सायुज्यमवाप्नोति भक्तिमान् किमतः परम् ॥
इति ते सर्वमाख्यातं पञ्चाक्षरविधिक्रमम्
यः पठेच्छृणुयाद्वापि स याति परमां गतिम् ॥
श्रावयेच्च द्विजाञ्छुद्धान् पञ्चाक्षरविधिक्रमम्
दैवे कर्मणि पित्र्ये वा शिवलोके महीयते ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0