लिङ्गपुराण · अध्याय 1.86
जपाच्छ्रेष्ठतमं प्राहुर् ब्राह्मणा दग्धकिल्बिषाः
विरक्तानां प्रबुद्धानां ध्यानयज्ञं सुशोभनम् ॥
तस्माद्वदस्व सूताद्य ध्यानयज्ञमशेषतः
विस्तारात्सर्वयत्नेन विरक्तानां महात्मनाम् ॥
तेषां तद्वचनं श्रुत्वा मुनीनां दीर्घसत्त्रिणाम्
रुद्रेण कथितं प्राह गुहां प्राप्य महात्मनाम् ॥
संहृत्य कालकूटाख्यं विषं वै विश्वकर्मणा
गुहां प्राप्य सुखासीनं भवान्या सह शङ्करम् ॥
मुनयः संशितात्मानः प्रणेमुस्तं गुहाश्रयम्
अस्तुवंश् च ततः सर्वे नीलकण्ठमुमापतिम् ॥
अत्युग्रं कालकूटाख्यं संहृतं भगवंस्त्वया
अतः प्रतिष्ठितं सर्वं त्वया देव वृषध्वज ॥
तेषां तद्वचनं श्रुत्वा भगवान्नीललोहितः
प्रहसन्प्राह विश्वात्मा सनन्दनपुरोगमान् ॥
किमनेन द्विजश्रेष्ठा विषं वक्ष्ये सुदारुणम्
संहरेत्तद्विषं यस्तु स समर्थो ह्यनेन किम् ॥
न विषं कालकूटाख्यं संसारो विषमुच्यते
तस्मात्सर्वप्रयत्नेन संहरेत सुदारुणम् ॥
संसारो द्विविधः प्रोक्तः स्वाधिकारानुरूपतः
पुंसां संमूढचित्तानाम् असंक्षीणः सुदारुणः ॥
ईषणारागदोषेण सर्गो ज्ञानेन सुव्रताः
तद्वशादेव सर्वेषां धर्माधर्मौ न संशयः ॥
असन्निकृष्टे त्वर्थे ऽपि शास्त्रं तच्छ्रवणात्सताम्
बुद्धिमुत्पादयत्येव संसारे विदुषां द्विजाः ॥
तस्माद्दृष्टानुश्रविकं दुष्टमित्युभयात्मकम्
संत्यजेत्सर्वयत्नेन विरक्तः सो ऽभिधीयते ॥
शास्त्रमित्युच्यते भागं श्रुतेः कर्मसु तद्द्विजाः
मूर्धानं ब्रह्मणः सारम् ऋषीणां कर्मणः फलम् ॥
ननु स्वभावः सर्वेषां कामो दृष्टो न चान्यथा
श्रुतिः प्रवर्तिका तेषाम् इति कर्मण्यतद्विदः ॥
निवृत्तिलक्षणो धर्मः समर्थानाम् इहोच्यते
तस्मादज्ञानमूलो हि संसारः सर्वदेहिनाम् ॥
कला संशोषमायाति कर्मणान्यस्वभावतः
सकलस्त्रिविधो जीवो ज्ञानहीनस्त्वविद्यया ॥
नारकी पापकृत्स्वर्गी पुण्यकृत् पुण्यगौरवात्
व्यतिमिश्रेण वै जीवश् चतुर्धा संव्यवस्थितः ॥
उद्भिज्जः स्वेदजश्चैव अण्डजो वै जरायुजः
एवं व्यवस्थितो देही कर्मणाज्ञो ह्यनिर्वृतः ॥
प्रजया कर्मणा मुक्तिर् धनेन च सतां न हि
त्यागेनैकेन मुक्तिः स्यात् तदभावाद्भ्रमत्यसौ ॥
एवमज्ञानदोषेण नानाकर्मवशेन च
षट्कौशिकं समुद्भूतं भजत्येष कलेवरम् ॥
गर्भे दुःखान्यनेकानि योनिमार्गे च भूतले
कौमारे यौवने चैव वार्द्धके मरणे ऽपि वा ॥
विचारतः सतां दुःखं स्त्रीसंसर्गादिभिर् द्विजाः
दुःखेनैकेन वै दुःखं प्रशाम्यतीह दुःखिनः ॥
न जातु कामः कामानाम् उपभोगेन शाम्यति
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥
तस्माद्विचारतो नास्ति संयोगादपि वै नृणाम्
अर्थानाम् अर्जने ऽप्येवं पालने च व्यये तथा ॥
पैशाचे राक्षसे दुःखं याक्षे चैव विचारतः
गान्धर्वे च तथा चान्द्रे सौम्यलोके द्विजोत्तमाः ॥
प्राजापत्ये तथा ब्राह्मे प्राकृते पौरुषे तथा
क्षयसातिशयाद्यैस्तु दुःखैर्दुःखानि सुव्रताः ॥
तानि भाग्यान्यशुद्धानि संत्यजेच्च धनानि च
तस्मादष्टगुणं भोगं तथा षोडशधा स्थितम् ॥
चतुर्विंशत्प्रकारेण संस्थितं चापि सुव्रताः
द्वात्रिंशद्भेदमनघाश् चत्वारिंशद्गुणं पुनः ॥
तथाष्टचत्वारिंशच्च षट्पञ्चाशत्प्रकारतः
चतुःषष्टिविधं चैव दुःखमेव विवेकिनः ॥
पार्थिवं च तथाप्यं च तैजसं च विचारतः
वायव्यं च तथा व्यौम[ं] मानसं च यथाक्रमम् ॥
आभिमानिकमप्येवं बौद्धं प्राकृतमेव च
दुःखमेव न संदेहो योगिनां ब्रह्मवादिनाम् ॥
गौणं गणेश्वराणां च दुःखमेव विचारतः
आदौ मध्ये तथा चान्ते सर्वलोकेषु सर्वदा ॥
वर्तमानानि दुःखानि भविष्याणि यथातथम्
दोषदुष्टेषु देशेषु दुःखानि विविधानि च ॥
न भावयन्त्यतीतानि ह्य् अज्ञाने ज्ञानमानिनः
क्षुद्व्याधेः परिहारार्थं न सुखायान्नमुच्यते ॥
यथेतरेषां रोगाणाम् औषधं न सुखाय तत्
शीतोष्णवातवर्षाद्यैस् तत्तत्कालेषु देहिनाम् ॥
दुःखमेव न संदेहो न जानन्ति ह्यपण्डिताः
स्वर्गे ऽप्येवं मुनिश्रेष्ठा ह्य् अविशुद्धक्षयादिभिः ॥
रोगैर् नानाविधैर् ग्रस्ता रागद्वेषभयादिभिः
छिन्नमूलतरुर्यद्वद् अवशः पतति क्षितौ ॥
पुण्यवृक्षक्षयात्तद्वद् गां पतन्ति दिवौकसः
दुःखाभिलाषनिष्ठानां दुःखभोगादिसंपदाम् ॥
अस्मात्तु पततां दुःखं कष्टं स्वर्गाद्दिवौकसाम्
नरके दुःखमेवात्र नरकाणां निषेवणात् ॥
विहिताकरणाच्चैव वर्णिनां मुनिपुङ्गवाः ॥
यथा मृगो मृत्युभयस्य भीत उच्छिन्नवासो न लभेत निद्राम्
एवं यतिर्ध्यानपरो महात्मा संसारभीतो न लभेत निद्राम् ॥
कीटपक्षिमृगाणां च पशूनां गजवाजिनाम्
दृष्टम् एवासुखं तस्मात् त्यजतः सुखमुत्तमम् ॥
वैमानिकानामप्येवं दुःखं कल्पाधिकारिणाम्
स्थानाभिमानिनां चैव मन्वादीनां च सुव्रताः ॥
देवानां चैव दैत्यानाम् अन्योन्यविजिगीषया
दुःखमेव नृपाणां च राक्षसानां जगत्त्रये ॥
श्रमार्थमाश्रमश्चापि वर्णानां परमार्थतः
आश्रमैर्न च देवैश् च यज्ञैः सांख्यैर्व्रतैस् तथा ॥
उग्रैस्तपोभिर् विविधैर् दानैर्नानाविधैरपि
न लभन्ते तथात्मानं लभन्ते ज्ञानिनः स्वयम् ॥
तस्मात्सर्वप्रयत्नेन चरेत्पाशुपतव्रतम्
भस्मशायी भवेन्नित्यं व्रते पाशुपते बुधः ॥
पञ्चार्थज्ञानसम्पन्नः शिवतत्त्वे समाहितः
कैवल्यकरणं योग विधिकर्मच्छिदं बुधः ॥
पञ्चार्थयोगसम्पन्नो दुःखान्तं व्रजते सुधीः
परया विद्यया वेद्यं विदन्त्यपरया न हि ॥
द्वे विद्ये वेदितव्ये हि परा चैवापरा तथा
अपरा तत्र ऋग्वेदो यजुर्वेदो द्विजोत्तमाः ॥
सामवेदस्तथाथर्वो वेदः सर्वार्थसाधकः
शिक्षा कल्पो व्याकरणं निरुक्तं छन्द एव च ॥
ज्योतिषं चापरा विद्या पराक्षरमिति स्थितम्
तददृश्यं तदग्राह्यम् अगोत्रं तदवर्णकम् ॥
तदचक्षुस्तदश्रोत्रं तदपाणि अपादकम्
तदजातमभूतं च तदशब्दं द्विजोत्तमाः ॥
अस्पर्शं तदरूपं च रसगन्धविवर्जितम्
अव्ययं चाप्रतिष्ठं च तन्नित्यं सर्वगं विभुम् ॥
महान्तं तद् बृहन्तं च तदजं चिन्मयं द्विजाः
अप्राणममनस्कं च तदस्निग्धमलोहितम् ॥
अप्रमेयं तदस्थूलम् अदीर्घं तदनुल्बणम्
अह्रस्वं तदपारं च तदानन्दं तदच्युतम् ॥
अनपावृतमद्वैतं तदनन्तमगोचरम्
असंवृतं तदात्मैकं परा विद्या न चान्यथा ॥
परापरेति कथिते नैवेह परमार्थतः
अहमेव जगत्सर्वं मय्येव सकलं जगत् ॥
मत्त उत्पद्यते तिष्ठन् मयि मय्येव लीयते
मत्तो नान्यदितीक्षेत मनोवाक्पाणिभिस् तथा ॥
सर्वमात्मनि संपश्येत् सच्चासच्च समाहितः
सर्वं ह्यात्मनि संपश्यन् न बाह्ये कुरुते मनः ॥
अधोदृष्ट्या वितस्त्यां तु नाभ्यामुपरितिष्ठति
हृदयं तद्विजानीयाद् विश्वस्यायतनं महत् ॥
हृदयस्यास्य मध्ये तु पुण्डरीकमवस्थितम्
धर्मकन्दसमुद्भूतं ज्ञाननालं सुशोभनम् ॥
ऐश्वर्याष्टदलं श्वेतं परं वैराग्यकर्णिकम्
छिद्राणि च दिशो यस्य प्राणाद्याश् च प्रतिष्ठिताः ॥
प्राणाद्यैश्चैव संयुक्तः पश्यते बहुधा क्रमात्
दशप्राणवहा नाड्यः प्रत्येकं मुनिपुङ्गवाः ॥
द्विसप्ततिसहस्राणि नाड्यः सम्परिकीर्तिताः
नेत्रस्थं जाग्रतं विद्यात् कण्ठे स्वप्नं समादिशेत् ॥
सुषुप्तं हृदयस्थं तु तुरीयं मूर्धनि स्थितम्
जाग्रे ब्रह्मा च विष्णुश् च स्वप्ने चैव यथाक्रमात् ॥
ईश्वरस्तु सुषुप्ते तु तुरीये च महेश्वरः
वदन्त्य् एवम् अथान्ये ऽपि समस्तकरणैः पुमान् ॥
वर्तमानस्तदा तस्य जाग्रदित्यभिधीयते
मनोबुद्धिर् अहङ्कारं चित्तं चेति चतुष्टयम् ॥
यदा व्यवस्थितस्त्वेतैः स्वप्न इत्यभिधीयते
करणानि विलीनानि यदा स्वात्मनि सुव्रताः ॥
सुषुप्तः करणैर्भिन्नस् तुरीयः परिकीर्त्यते
परस्तुरीयातीतो ऽसौ शिवः परमकारणम् ॥
जाग्रत्स्वप्नसुषुप्तिश् च तुरीयं चाधिभौतिकम्
आध्यात्मिकं च विप्रेन्द्राश् चाधिदैविकमुच्यते ॥
तत्सर्वमहम् एवेति वेदितव्यं विजानता
बुद्धीन्द्रियाणि विप्रेन्द्रास् तथा कर्मेन्द्रियाणि च ॥
मनोबुद्धिर् अहङ्कारश् चित्तं चेति चतुष्टयम्
अध्यात्मं पृथगेवेदं चतुर्दशविधं स्मृतम् ॥
द्रष्टव्यं चैव श्रोतव्यं घ्रातव्यं च यथाक्रमम्
रसितव्यं मुनिश्रेष्ठाः स्पर्शितव्यं तथैव च ॥
मन्तव्यं चैव बोद्धव्यम् अहंकर्तव्यमेव च
तथा चेतयितव्यं च वक्तव्यं मुनिपुङ्गवाः ॥
आदातव्यं च गन्तव्यं विसर्गायितमेव च
आनन्दितव्यमित्येते ह्य् अधिभूतमनुक्रमात् ॥
आदित्यो ऽपि दिशश्चैव पृथिवी वरुणस् तथा
वायुश्चन्द्रस् तथा ब्रह्मा रुद्रः क्षेत्रज्ञ एव च ॥
अग्निरिन्द्रस् तथा विष्णुर् मित्रो देवः प्रजापतिः
आधिदैविकमेवं हि चतुर्दशविधं क्रमात् ॥
राज्ञी सुदर्शना चैव जिता सौम्या यथाक्रमम्
मोघा रुद्रामृता सत्या मध्यमा च द्विजोत्तमाः ॥
नाडी राशिशुका चैव असुरा चैव कृत्तिका
भास्वती नाडयश्चैताश् चतुर्दशनिबन्धनाः ॥
वायवो नाडिमध्यस्था वाहकाश् च चतुर्दश
प्राणो व्यानस्त्वपानश् च उदानश् च समानकः ॥
वैरम्भश् च तथा मुख्यो ह्य् अन्तर्यामः प्रभञ्जनः
कूर्मकश् च तथा श्येनः श्वेतः कृष्णस् तथानिलः ॥
नाग इत्येव कथिता वायवश् च चतुर्दश
यश्चक्षुःष्वथ द्रष्टव्ये तथादित्ये च सुव्रताः ॥
नाड्यां प्राणे च विज्ञाने त्व् आनन्दे च यथाक्रमम्
हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे परः ॥
आत्मा एकश् च चरति तमुपासीत मां प्रभुम्
अजरं तमनन्तं च अशोकममृतं ध्रुवम् ॥
चतुर्दशविधेष्वेव संचरत्येक एव सः
लीयन्ते तानि तत्रैव यदन्यं नास्ति वै द्विजाः ॥
एक एव हि सर्वज्ञः सर्वेशस्त्वेक एव सः
एष सर्वाधिपो देवस् त्व् अन्तर्यामी महाद्युतिः ॥
उपास्यमानः सर्वस्य सर्वसौख्यः सनातनः
उपास्यति न चैवेह सर्वसौख्यं द्विजोत्तमाः ॥
उपास्यमानो वेदैश् च शास्त्रैर्नानाविधैरपि
न वैष वेदशास्त्राणि सर्वज्ञो यास्यति प्रभुः ॥
अस्यैवान्नमिदं सर्वं न सो ऽन्नं भवति स्वयम्
स्वात्मना रक्षितं चाद्याद् अन्नभूतं न कुत्रचित् ॥
सर्वत्र प्राणिनामन्नं प्राणिनां ग्रन्थिरस्म्यहम्
प्रशास्ता नयनश्चैव पञ्चात्मा स विभागशः ॥
अन्नमयो ऽसौ भूतात्मा चाद्यते ह्यन्नमुच्यते
प्राणमयश्चेन्द्रियात्मा संकल्पात्मा मनोमयः ॥
कालात्मा सोम एवेह विज्ञानमय उच्यते
सदानन्दमयो भूत्वा महेशः परमेश्वरः ॥
सो ऽहम् एवं जगत्सर्वं मय्येव सकलं स्थितम्
परतन्त्रं स्वतन्त्रे ऽपि तदभावाद्विचारतः ॥
एकत्वमपि नास्त्येव द्वैतं तत्र कुतस्त्वहो
एवं नास्त्यथ मर्त्यं च कुतो ऽमृतमजोद्भवः ॥
नान्तःप्रज्ञो बहिःप्रज्ञो न चोभयगतस् तथा
न प्रज्ञानघनस्त्वेवं न प्राज्ञो ज्ञानपूर्वकः ॥
विदितं नास्ति वेद्यं च निर्वाणं परमार्थतः
निर्वाणं चैव कैवल्यं निःश्रेयसमनामयम् ॥
अमृतं चाक्षरं ब्रह्म परमात्मा परापरम्
निर्विकल्पं निराभासं ज्ञानं पर्यायवाचकम् ॥
प्रसन्नं च यदेकाग्रं तदा ज्ञानमिति स्मृतम्
अज्ञानमितरत्सर्वं नात्र कार्या विचारणा ॥
इत्थं प्रसन्नं विज्ञानं गुरुसंपर्कजं ध्रुवम्
रागद्वेषानृतक्रोधं कामतृष्णादिभिः सदा ॥
अपरामृष्टमद्यैव विज्ञेयं मुक्तिदं त्विदम्
अज्ञानमलपूर्वत्वात् पुरुषो मलिनः स्मृतः ॥
तत्क्षयाद्धि भवेन्मुक्तिर् नान्यथा जन्मकोटिभिः
ज्ञानमेकं विना नास्ति पुण्यपापपरिक्षयः ॥
ज्ञानम् एवाभ्यसेत् तस्मान् मुक्त्यर्थं ब्रह्मवित्तमाः
ज्ञानाभ्यासाद्धि वै पुंसां बुद्धिर्भवति निर्मला ॥
तस्मात्सदाभ्यसेज्ज्ञानं तन्निष्ठस्तत्परायणः
ज्ञानेनैकेन तृप्तस्य त्यक्तसंगस्य योगिनः ॥
कर्तव्यं नास्ति विप्रेन्द्रा अस्ति चेत्तत्त्वविन्न च
इह लोके परे चापि कर्तव्यं नास्ति तस्य वै ॥
जीवन्मुक्तो यतस् तस्माद् ब्रह्मवित् परमार्थतः
ज्ञानाभ्यासरतो नित्यं ज्ञानतत्त्वार्थवित् स्वयम् ॥
कर्तव्याभ्यासमुत्सृज्य ज्ञानमेवाधिगच्छति
वर्णाश्रमाभिमानी यस् त्यक्तक्रोधो द्विजोत्तमाः ॥
अन्यत्र रमते मूढः सो ऽज्ञानी नात्र संशयः
संसारहेतुरज्ञानं संसारस्तनुसंग्रहः ॥
मोक्षहेतुस् तथा ज्ञानं मुक्तः स्वात्मन्यवस्थितः
अज्ञाने सति विप्रेन्द्राः क्रोधाद्या नात्र संशयः ॥
क्रोधो हर्षस् तथा लोभो मोहो दम्भो द्विजोत्तमाः
धर्माधर्मौ हि तेषां च तद्वशात्तनुसंग्रहः ॥
शरीरे सति वै क्लेशः सो ऽविद्यां संत्यजेद्बुधः
अविद्यां विद्यया हित्वा स्थितस्यैव च योगिनः ॥
क्रोधाद्या नाशमायान्ति धर्माधर्मौ च वै द्विजाः
तत्क्षयाच्च शरीरेण न पुनः सम्प्रयुज्यते ॥
स एव मुक्तः संसाराद् दुःखत्रयविवर्जितः
एवं ज्ञानं विना नास्ति ध्यानं ध्यातुर् द्विजर्षभाः ॥
ज्ञानं गुरोर्हि संपर्कान् न वाचा परमार्थतः
चतुर्व्यूहमिति ज्ञात्वा ध्याता ध्यानं समभ्यसेत् ॥
सहजागन्तुकं पापम् अस्थिवागुद्भवं तथा
ज्ञानाग्निर्दहते क्षिप्रं शुष्केन्धनम् इवानलः ॥
ज्ञानात्परतरं नास्ति सर्वपापविनाशनम्
अभ्यसेच्च सदा ज्ञानं सर्वसंगविवर्जितः ॥
ज्ञानिनः सर्वपापानि जीर्यन्ते नात्र संशयः
क्रीडन्नपि न लिप्येत पापैर्नानाविधैरपि ॥
ज्ञानं यथा तथा ध्यानं तस्माद्ध्यानं समभ्यसेत्
ध्यानं निर्विषयं प्रोक्तम् आदौ सविषयं तथा ॥
षट्प्रकारं समभ्यस्य चतुःषड्दशभिस् तथा
तथा द्वादशधा चैव पुनः षोडशधा क्रमात् ॥
द्विधाभ्यस्य च योगीन्द्रो मुच्यते नात्र संशयः
शुद्धजांबूनदाकारं विधूमाङ्गारसन्निभम् ॥
पीतं रक्तं सितं विद्युत् कोटिकोटिसमप्रभम्
अथवा ब्रह्मरन्ध्रस्थं चित्तं कृत्वा प्रयत्नतः ॥
न सितं वासितं पीतं न स्मरेद् ब्रह्मविद् भवेत्
अहिंसकः सत्यवादी अस्तेयी सर्वयत्नतः ॥
परिग्रहविनिर्मुक्तो ब्रह्मचारी दृढव्रतः
संतुष्टः शौचसम्पन्नः स्वाध्यायनिरतः सदा ॥
मद्रक्तश्चाभ्यसेद्ध्यानं गुरुसंपर्कजं ध्रुवम्
न बुध्यति तथा ध्याता स्थाप्य चित्तं द्विजोत्तमाः ॥
न चाभिमन्यते योगी न पश्यति समन्ततः
न घ्राति न शृणोत्येव लीनः स्वात्मनि यः स्वयम् ॥
न च स्पर्शं विजानाति स वै समरसः स्मृतः
पार्थिवे पटले ब्रह्मा वारितत्त्वे हरिः स्वयम् ॥
वाह्नेये कालरुद्राख्यो वायुतत्त्वे महेश्वरः
सुषिरे स शिवः साक्षात् क्रमादेवं विचिन्तयेत् ॥
क्षितौ शर्वः स्मृतो देवो ह्य् अपां भव इति स्मृतः
रुद्र एव तथा वह्नौ उग्रो वायौ व्यवस्थितः ॥
भीमः सुषिरनाके ऽसौ भास्करे मण्डले स्थितः
ईशानः सोमबिम्बे च महादेव इति स्मृतः ॥
पुंसां पशुपतिर्देवश् चाष्टधाहं व्यवस्थितः
काठिन्यं यत्तनौ सर्वं पार्थिवं परिगीयते ॥
आप्यं द्रवमिति प्रोक्तं वर्णाख्यो वह्निरुच्यते
यत्संचरति तद्वायुः सुषिरं यद्द्विजोत्तमाः ॥
तदाकाशं च विज्ञानं शब्दजं व्योमसंभवम्
तथैव विप्रा विज्ञानं स्पर्शाख्यं वायुसंभवम् ॥
रूपं वाह्नेयमित्युक्तम् आप्यं रसमयं द्विजाः
गन्धाख्यं पार्थिवं भूयश् चिन्तयेद्भास्करं क्रमात् ॥
नेत्रे च दक्षिणे वामे सोमं हृदि विभुं द्विजाः
आजानु पृथिवीतत्त्वम् आनाभेर् वारिमण्डलम् ॥
आकण्ठं वह्नितत्त्वं स्याल् ललाटान्तं द्विजोत्तमाः
वायव्यं वै ललाटाद्यं व्योमाख्यं वा शिखाग्रकम् ॥
हंसाख्यं च ततो ब्रह्म व्योम्नश्चोर्ध्वं ततः परम्
व्योमाख्यो व्योममध्यस्थो ह्य् अयं प्राथमिकः स्मरेत् ॥
न जीवः प्रकृतिः सत्त्वं रजश्चाथ तमः पुनः
महांस्तथाभिमानश् च तन्मात्राणीन्द्रियाणि च ॥
व्योमादीनि च भूतानि नैवेह परमार्थतः
व्याप्य तिष्ठद्यतो विश्वं स्थाणुरित्यभिधीयते ॥
उदेति सूर्यो भीतश् च पवते वात एव च
द्योतते चन्द्रमा वह्निर् ज्वलत्यापो वहन्ति च ॥
दधाति भूमिराकाशम् अवकाशं ददाति च
तदाज्ञया ततं सर्वं तस्माद्वै चिन्तयेद्द्विजाः ॥
तेनैवाधिष्ठितं तस्माद् एतत्सर्वं द्विजोत्तमाः
सर्वरूपमयः शर्व इति मत्वा स्मरेद्भवम् ॥
संसारविषतप्तानां ज्ञानध्यानामृतेन वै
प्रतीकारः समाख्यातो नान्यथा द्विजसत्तमाः ॥
ज्ञानं धर्मोद्भवं साक्षाज् ज्ञानाद् वैराग्यसंभवः
वैराग्यात्परमं ज्ञानं परमार्थप्रकाशकम् ॥
ज्ञानवैराग्ययुक्तस्य योगसिद्धिर्द्विजोत्तमाः
योगसिद्ध्या विमुक्तिः स्यात् सत्त्वनिष्ठस्य नान्यथा ॥
तमोविद्यापदच्छन्नं चित्रं यत्पदमव्ययम्
सत्त्वशक्तिं समास्थाय शिवमभ्यर्चयेद्द्विजाः ॥
यः सत्त्वनिष्ठो मद्भक्तो मदर्चनपरायणः
सर्वतो धर्मनिष्ठश् च सदोत्साही समाहितः ॥
सर्वद्वन्द्वसहो धीरः सर्वभूतहिते रतः
ऋजुस्वभावः सततं स्वस्थचित्तो मृदुः सदा ॥
अमानी बुद्धिमाञ्छान्तस् त्यक्तस्पर्धो द्विजोत्तमाः
सदा मुमुक्षुर्धर्मज्ञः स्वात्मलक्षणलक्षणः ॥
ऋणत्रयविनिर्मुक्तः पूर्वजन्मनि पुण्यभाक्
जरायुक्तो द्विजो भूत्वा श्रद्धया च गुरोः क्रमात् ॥
अन्यथा वापि शुश्रूषां कृत्वा कृत्रिमवर्जितः
स्वर्गलोकमनुप्राप्य भुक्त्वा भोगाननुक्रमात् ॥
आसाद्य भारतं वर्षं ब्रह्मविज्जायते द्विजाः
संपर्काज्ज्ञानमासाद्य ज्ञानिनो योगविद्भवेत् ॥
क्रमो ऽयं मलपूर्णस्य ज्ञानप्राप्तेर्द्विजोत्तमाः
तस्मादनेन मार्गेण त्यक्तसंगो दृढव्रतः ॥
संसारकालकूटाख्यान् मुच्यते मुनिपुङ्गवाः
एवं संक्षेपतः प्रोक्तं मया युष्माकमच्युतम् ॥
ज्ञानस्यैवेह माहात्म्यं प्रसंगादिह शोभनम्
एवं पाशुपतं योगं कथितं त्वीश्वरेण तु ॥
न देयं यस्य कस्यापि शिवोक्तं मुनिपुङ्गवाः
दातव्यं योगिने नित्यं भस्मनिष्ठाय सुप्रियम् ॥
यः पठेच्छृणुयाद्वापि संसारशमनं नरः
स याति ब्रह्मसायुज्यं नात्र कार्या विचारणा ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0