भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.84

1.84.1

उमामहेश्वरं वक्ष्ये व्रतमीश्वरभाषितम्
नरनार्यादिजन्तूनां हिताय मुनिसत्तमाः ॥

1.84.2

पौर्णमास्याममावास्यां चतुर्दश्यष्टमीषु च
नक्तमब्दं प्रकुर्वीत हविष्यं पूजयेद्भवम् ॥

1.84.3

उमामहेशप्रतिमां हेम्ना कृत्वा सुशोभनाम्
राजतीं वाथ वर्षान्ते प्रतिष्ठाप्य यथाविधि ॥

1.84.4

ब्राह्मणान् भोजयित्वा च दत्त्वा शक्त्या च दक्षिणाम्
रथाद्यैर्वापि देवेशं नीत्वा रुद्रालयं प्रति ॥

1.84.5

सर्वातिशयसंयुक्तैश् छत्रचामरभूषणैः
निवेदयेद्व्रतं चैव शिवाय परमेष्ठिने ॥

1.84.6

स याति शिवसायुज्यं नारी देव्या यदि प्रभो
अष्टम्यां च चतुर्दश्यां नियता ब्रह्मचारिणी ॥

1.84.7

वर्षमेकं न भुञ्जति कन्या वा विधवापि वा
वर्षान्ते प्रतिमां कृत्वा पूर्वोक्तविधिना ततः ॥

1.84.8

प्रतिष्ठाप्य यथान्यायं दत्त्वा रुद्रालये पुनः
ब्राह्मणान् भोजयित्वा च भवान्या सह मोदते ॥

1.84.9

या नार्येवं चरेदब्दं कृष्णामेकां चतुर्दशीम्
वर्षान्ते प्रतिमां कृत्वा येन केनापि वा द्विजाः ॥

1.84.10

पूर्वोक्तमखिलं कृत्वा भवान्या सह मोदते
अमावास्यां निराहारा भवेदब्दं सुयन्त्रिता ॥

1.84.11

शूलं च विधिना कृत्वा वर्षान्ते विनिवेदयेत्
स्नाप्येशानं यजेद्भक्त्या सहस्रैः कमलैः सितैः ॥

1.84.12

राजतं कमलं चैव जांबूनदसुकर्णिकम्
दत्त्वा भवाय विप्रेभ्यः प्रदद्याद् दक्षिणाम् अपि ॥

1.84.13

कामतो ऽपि कृतं पापं भ्रूणहत्यादिकं च यत्
तत्सर्वं शूलदानेन भिन्द्यान्नारी न संशयः ॥

1.84.14

सायुज्यं चैवमाप्नोति भवान्या द्विजसत्तमाः
कुर्याद्यद्वा नरः सो ऽपि रुद्रसायुज्यमाप्नुयात् ॥

1.84.15

पौर्णमास्याममावास्यां वर्षमेकमतन्द्रिता
उपवासरता नारी नरो ऽपि द्विजसत्तमाः ॥

1.84.16

नियोगादेव तत्कार्यं भर्तॄणां द्विजसत्तमाः
जपं दानं तपः सर्वम् अस्वतन्त्रा यतः स्त्रियः ॥

1.84.17

वर्षान्ते सर्वगन्धाढ्यां प्रतिमां संनिवेदयेत्
सा भवान्याश् च सायुज्यं सारूप्यं चापि सुव्रता ॥

1.84.18

लभते नात्र संदेहः सत्यं सत्यं वदाम्यहम्
कार्तिक्यां वा तु या नारी एकभक्तेन वर्तते ॥

1.84.19

क्षमाहिंसादिनियमैः संयुक्ता ब्रह्मचारिणी
दद्यात्कृष्णतिलानां च भारमेकम् अतन्द्रिता ॥

1.84.20

सघृतं सगुडं चैव ओदनं परमेष्ठिने
दत्त्वा च ब्राह्मणेभ्यश् च यथा विभवविस्तरम् ॥

1.84.21

अष्टम्यां च चतुर्दश्याम् उपवासरता च सा
भवान्या मोदते सार्धं सारूप्यं प्राप्य सुव्रता ॥

1.84.22

क्षमा सत्यं दया दानं शौचमिन्द्रियनिग्रहः
सर्वव्रतेष्वयं धर्मः सामान्यो रुद्रपूजनम् ॥

1.84.23

समासाद्वः प्रवक्ष्यामि प्रतिमासमनुक्रमात्
मार्गशीर्षकमासादि कार्त्तिकान्तं यथाक्रमम् ॥

1.84.24

व्रतं सुविपुलं पुण्यं नन्दिना परिभाषितम्
मार्गशीर्षकमासे ऽथ वृषं पूर्णाङ्गमुत्तमम् ॥

1.84.25

अलंकृत्य यथान्यायं शिवाय विनिवेदयेत्
सा च सार्धं भवान्या वै मोदते नात्र संशयः ॥

1.84.26

पुष्यमासे तु वै शूलं प्रतिष्ठाप्य निवेदयेत्
पूर्वोक्तमखिलं कृत्वा भवान्या सह मोदते ॥

1.84.27

माघमासे रथं कृत्वा सर्वलक्षणलक्षितम्
दद्यात् सम्पूज्य देवेशं ब्राह्मणांश्चैव भोजयेत् ॥

1.84.28

सा च देव्या महाभागा मोदते नात्र संशयः
फाल्गुने प्रतिमां कृत्वा हिरण्येन यथाविधि ॥

1.84.29

राजतेनापि ताम्रेण यथाविभवविस्तरम्
प्रतिष्ठाप्य समभ्यर्च्य स्थापयेच्छङ्करालये ॥

1.84.30

सा च सार्धं महादेव्या मोदते नात्र संशयः
चैत्रे भवं कुमारं च भवानीं च यथाविधि ॥

1.84.31

ताम्राद्यैर्विधिवत्कृत्वा प्रतिष्ठाप्य यथाविधि
भवान्या मोदते सार्धं दत्त्वा रुद्राय शंभवे ॥

1.84.32

कृत्वालयं हि कौबेरं राजतं रजतेन वै
ईश्वरोमासमायुक्तं गणेशैश् च समन्ततः ॥

1.84.33

सर्वरत्नसमायुक्तं प्रतिष्ठाप्य यथाविधि
स्थापयेत्परमेशस्य भवस्यायतने शुभे ॥

1.84.34

वैशाखे वै चरेद् एवं कैलासाख्यं व्रतोत्तमम्
कैलासपर्वतं प्राप्य भवान्या सह मोदते ॥

1.84.35

ज्येष्ठे मासि महादेवं लिङ्गमूर्तिमुमापतिम्
कृताञ्जलिपुटेनैव ब्रह्मणा विष्णुना तथा ॥

1.84.36

मध्ये भवेन संयुक्तं लिङ्गमूर्ति द्विजोत्तमाः
हंसेन च वराहेण कृत्वा ताम्रादिभिः शुभाम् ॥

1.84.37

प्रतिष्ठाप्य यथान्यायं ब्राह्मणान् भोजयेत्ततः
शिवाय शिवमासाद्य शिवस्थाने यथाविधि ॥

1.84.38

ब्राह्मणैः सहितां स्थाप्य देव्याः सायुज्यमाप्नुयात्
आषाढे च शुभे मासे गृहं कृत्वा सुशोभनम् ॥

1.84.39

पक्वेष्टकाभिर् विधिवद् यथाविभवविस्तरम्
सर्वबीजरसैश्चापि सम्पूर्णं सर्वशोभनैः ॥

1.84.40

गृहोपकरणैश्चैव मुसलोलूखलादिभिः
दासीदासादिभिश्चैव शयनैरशनादिभिः ॥

1.84.41

सम्पूर्णैश् च गृहं वस्त्रैर् आच्छाद्य च समन्ततः
देवं घृतादिभिः स्नाप्य महादेवमुमापतिम् ॥

1.84.42

ब्राह्मणानां सहस्रं च भोजयित्वा यथाविधि
विद्याविनयसम्पन्नं ब्राह्मणं वेदपारगम् ॥

1.84.43

प्रथमाश्रमिणं भक्त्या सम्पूज्य च यथाविधि
कन्यां सुमध्यमां यावत् कालजीवनसंयुताम् ॥

1.84.44

क्षेत्रं गोमिथुनं चैव तद्गृहे च निवेदयेत्
सायनैर् विविधैर् दिव्यैर् मेरुपर्वतसन्निभैः ॥

1.84.45

गोलोकं समनुप्राप्य भवान्या सह मोदते
भवान्या सदृशीभूत्वा सर्वकल्पेषु साव्यया ॥

1.84.46

भवान्याश्चैव सायुज्यं लभते नात्र संशयः
सर्वधातुसमाकीर्णं विचित्रध्वजशोभितम् ॥

1.84.47

निवेदयीत शर्वाय श्रावणे तिलपर्वतम्
वितानध्वजवस्त्राद्यैर् धातुभिश् च निवेदयेत् ॥

1.84.48

ब्राह्मणान् भोजयित्वा च पूर्वोक्तमखिलं भवेत्
कृत्वा भाद्रपदे मासि शोभनं शालिपर्वतम् ॥

1.84.49

वितानध्वजवस्त्राद्यैर् धातुभिश् च निवेदयेत्
ब्राह्मणान् भोजयित्वा च दापयेच्च यथाविधि ॥

1.84.50

सा च सूर्यांशुसंकाशा भवान्या सह मोदते
कृत्वा चाश्वयुजे मासि विपुलं धान्यपर्वतम् ॥

1.84.51

सुवर्णवस्त्रसंयुक्तं दत्त्वा सम्पूज्य शङ्करम्
ब्राह्मणान् भोजयित्वा च पूर्वोक्तमखिलं भवेत् ॥

1.84.52

सर्वधान्यसमायुक्तं सर्वबीजरसादिभिः
सर्वधातुसमायुक्तं सर्वरत्नोपशोभितम् ॥

1.84.53

शृङ्गैश्चतुर्भिः संयुक्तं वितानच्छत्रशोभितम्
गन्धमाल्यैस् तथा धूपैश् चित्रैश्चापि सुशोभितम् ॥

1.84.54

विचित्रैर्नृत्यगेयैश् च शङ्खवीणादिभिस् तथा
ब्रह्मघोषैर्महापुण्यं मङ्गलैश् च विशेषतः ॥

1.84.55

महाध्वजाष्टसंयुक्तं विचित्रकुसुमोज्ज्वलम्
नगेन्द्रं मेरुनामानं त्रैलोक्याधारमुत्तमम् ॥

1.84.56

तस्य मूर्ध्नि शिवं कुर्यान् मध्यतो धातुनैव तु
दक्षिणे च यथान्यायं ब्रह्माणं च चतुर्मुखम् ॥

1.84.57

उत्तरे देवदेवेशं नारायणमनामयम्
इन्द्रादिलोकपालांश् च कृत्वा भक्त्या यथाविधि ॥

1.84.58

प्रतिष्ठाप्य ततः स्नाप्य समभ्यर्च्य महेश्वरम्
देवस्य दक्षिणे हस्ते शूलं त्रिदशपूजितम् ॥

1.84.59

वामे पाशं भवान्याश् च कमलं हेमभूषितम्
विष्णोश् च शङ्खं चक्रं च गदामब्जं प्रयत्नतः ॥

1.84.60

ब्रह्मणश्चाक्षसूत्रं च कमण्डलुमनुत्तमम्
इन्द्रस्य वज्रम् अग्नेश् च शक्त्याख्यं परमायुधम् ॥

1.84.61

यमस्य दण्डं निरृतेः खड्गं निशिचरस्य तु
वरुणस्य महापाशं नागाख्यं रुद्रमद्भुतम् ॥

1.84.62

वायोर् यष्टिं कुबेरस्य गदां लोकप्रपूजिताम्
टङ्कं चेशानदेवस्य निवेद्यैवं क्रमेण च ॥

1.84.63

शिवस्य महतीं पूजां कृत्वा चरुसमन्विताम्
पूजयेत्सर्वदेवांश् च यथाविभवविस्तरम् ॥

1.84.64

ब्राह्मणान्भोजयित्वा च पूजां कृत्वा प्रयत्नतः
महामेरुव्रतं कृत्वा महादेवाय दापयेत् ॥

1.84.65

महामेरुमनुप्राप्य महादेव्या प्रमोदते
चिरं सायुज्यम् आप्नोति महादेव्या न संशयः ॥

1.84.66

कार्तिक्यामपि या नारी कृत्वा देवीमुमां शुभाम्
सर्वाभरणसम्पूर्णां सर्वलक्षणलक्षिताम् ॥

1.84.67

हेमताम्रादिभिश्चैव प्रतिष्ठाप्य विधानतः
देवं च कृत्वा देवेशं सर्वलक्षणसंयुतम् ॥

1.84.68

तयोरग्रे हुताशं च स्रुवहस्तं पितामहम्
नारायणं च दातारं सर्वाभरणभूषितम् ॥

1.84.69

लोकपालैस् तथा सिद्धैः संवृतं स्थाप्य यत्नतः
रुद्रालये व्रतं तस्मै दापयेद्भक्तिपूर्वकम् ॥

1.84.70

सा भवान्यास्तनुं गत्वा भवेन सह मोदते
एकभक्तव्रतं पुण्यं प्रतिमासमनुक्रमात् ॥

1.84.71

मार्गशीर्षकमासादि कार्तिकान्तं प्रवर्तितम्
नरनार्यादिजन्तूनां हिताय मुनिसत्तमाः ॥

1.84.72

नरः कृत्वा व्रतं चैव शिवसायुज्यमाप्नुयात्
नारी देव्या न संदेहः शिवेन परिभाषितम् ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc