लिङ्गपुराण · अध्याय 1.70
आदिसर्गस्त्वया सूत सूचितो न प्रकाशितः
सांप्रतं विस्तरेणैव वक्तुमर्हसि सुव्रत ॥
महेश्वरो महादेवः प्रकृतेः पुरुषस्य च
परत्वे संस्थितो देवः परमात्मा मुनीश्वराः ॥
अव्यक्तं चेश्वरात्तस्माद् अभवत्कारणं परम्
प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिन्तकाः ॥
गन्धवर्णरसैर् हीनं शब्दस्पर्शविवर्जितम्
अजरं ध्रुवमक्षय्यं नित्यं स्वात्मन्यवस्थितम् ॥
जगद्योनिं महाभूतं परं ब्रह्म सनातनम्
विग्रहः सर्वभूतानाम् ईश्वराज्ञाप्रचोदितम् ॥
अनाद्यन्तमजं सूक्ष्मं त्रिगुणं प्रभवाव्ययम्
अप्रकाशमविज्ञेयं ब्रह्माग्रे समवर्तत ॥
अस्यात्मना सर्वमिदं व्याप्तं त्वासीच्छिवेच्छया
गुणसाम्ये तदा तस्मिन्न् अविभागे तमोमये ॥
सर्गकाले प्रधानस्य क्षेत्रज्ञाधिष्ठितस्य वै
गुणभावाद्व्यज्यमानो महान् प्रादुर्बभूव ह ॥
सूक्ष्मेण महता चाथ अव्यक्तेन समावृतम्
सत्त्वोद्रिक्तो महानग्रे सत्तामात्रप्रकाशकः ॥
मनो महांस्तु विज्ञेयम् एकं तत्कारणं स्मृतम्
समुत्पन्नं लिङ्गमात्रं क्षेत्रज्ञाधिष्ठितं हि तत् ॥
धर्मादीनि च रूपाणि लोकतत्त्वार्थहेतवः
महान् सृष्टिं विकुरुते चोद्यमानः सिसृक्षया ॥
मनो महान्मतिर्ब्रह्म पूर्बुद्धिः ख्यातिरीश्वरः
प्रज्ञा चितिः स्मृतिः संविद् विश्वेशश्चेति स स्मृतः ॥
मनुते सर्वभूतानां यस्माच्चेष्टा फलं ततः
सौक्ष्म्यात्तेन विभक्तं तु येन तन्मन उच्यते ॥
तत्त्वानाम् अग्रजो यस्मान् महांश् च परिमाणतः
विशेषेभ्यो गुणेभ्यो ऽपि महानिति ततः स्मृतः ॥
बिभर्ति मानं मनुते विभागं मन्यते ऽपि च
पुरुषो भोगसंबन्धात् तेन चासौ मतिः स्मृतः ॥
बृहत्त्वाद् बृंहणत्वाच्च भावानां सकलाश्रयात्
यस्माद्धारयते भावान् ब्रह्म तेन निरुच्यते ॥
यः पूरयति यस्माच्च कृत्स्नान्देवाननुग्रहैः
नयते तत्त्वभावं च तेन पूरिति चोच्यते ॥
बुध्यते पुरुषश्चात्र सर्वान् भावान् हितं तथा
यस्माद्बोधयते चैव बुद्धिस्तेन निरुच्यते ॥
ख्यातिः प्रत्युपभोगश् च यस्मात्संवर्तते ततः
भोगस्य ज्ञाननिष्ठत्वात् तेन ख्यातिरिति स्मृतः ॥
ख्यायते तद्गुणैर् वापि ज्ञानादिभिर् अनेकशः
तस्माच्च महतः संज्ञा ख्यातिरित्यभिधीयते ॥
साक्षात्सर्वं विजानाति महात्मा तेन चेश्वरः
यस्माज्ज्ञानानुगश्चैव प्रज्ञा तेन स उच्यते ॥
ज्ञानादीनि च रूपाणि बहुकर्मफलानि च
चिनोति यस्माद्भोगार्थं तेनासौ चितिरुच्यते ॥
वर्तमानव्यतीतानि तथैवानागतान्यपि
स्मरते सर्वकार्याणि तेनासौ स्मृतिरुच्यते ॥
कृत्स्नं च विन्दते ज्ञानं यस्मान्माहात्म्यमुत्तमम्
तस्माद् विन्देर् विदेश्चैव संविदित्यभिधीयते ॥
विद्यते ऽपि च सर्वत्र तस्मिन्सर्वं च विन्दति
तस्मात्संविदिति प्रोक्तो महद्भिर् मुनिसत्तमाः ॥
जानातेर् ज्ञानम् इत्याहुर् भगवान् ज्ञानसंनिधिः
बन्धनादिपरीभावाद् ईश्वरः प्रोच्यते बुधैः ॥
पर्यायवाचकैः शब्दैस् तत्त्वम् आद्यम् अनुत्तमम्
व्याख्यातं तत्त्वभावज्ञैर् देवसद्भावचेतकैः ॥
महान्सृष्टिं विकुरुते चोद्यमानः सिसृक्षया
संकल्पो ऽध्यवसायश् च तस्य वृत्तिद्वयं स्मृतम् ॥
त्रिगुणाद् रजसोद्रिक्ताद् अहङ्कारस्ततो ऽभवत्
महता च वृतः सर्गो भूतादिर् बाह्यतस्तु सः ॥
तस्मादेव तमोद्रिक्ताद् अहङ्कारादजायत
भूततन्मात्रसर्गस्तु भूतादिस्तामसस्तु सः ॥
भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज ह
आकाशं सुषिरं तस्माद् उत्पन्नं शब्दलक्षणम् ॥
आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत्
वायुश्चापि विकुर्वाणो रूपमात्रं ससर्ज ह ॥
ज्योतिरुत्पद्यते वायोस् तद्रूपगुणम् उच्यते
स्पर्शमात्रस्तु वै वायू रूपमात्रं समावृणोत् ॥
ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह
सम्भवन्ति ततो ह्यापस् ता वै सर्वरसात्मिकाः ॥
रसमात्रास्तु ता ह्यापो रूपमात्रो ऽग्निर् आवृणोत्
आपश्चापि विकुर्वत्यो गन्धमात्रं ससर्जिरे ॥
संघातो जायते तस्मात् तस्य गन्धो गुणो मतः
तस्मिंस्तस्मिंश् च तन्मात्रं तेन तन्मात्रता स्मृता ॥
अविशेषवाचकत्वाद् अविशेषास् ततस् तु ते
प्रशान्तघोरमूढत्वाद् अविशेषास्ततः पुनः ॥
भूततन्मात्रसर्गो ऽयं विज्ञेयस्तु परस्परम्
वैकारिकादहङ्कारात् सत्त्वोद्रिक्तात्तु सात्त्विकात् ॥
वैकारिकः स सर्गस्तु युगपत् सम्प्रवर्तते
बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च ॥
साधकानीन्द्रियाणि स्युर् देवा वैकारिका दश
एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् ॥
श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी
शब्दादीनामवाप्त्यर्थं बुद्धियुक्तानि तानि वै ॥
पादौ पायुरुपस्थश् च हस्तौ वाग्दशमी भवेत्
गतिर्विसर्गो ह्यानन्दः शिल्पं वाक्यं च कर्म तत् ॥
आकाशं शब्दमात्रं च स्पर्शमात्रं समाविशत्
द्विगुणस्तु ततो वायुः शब्दस्पर्शात्मको ऽभवत् ॥
रूपं तथैव विशतः शब्दस्पर्शगुणावुभौ
त्रिगुणस्तु ततस्त्वग्निः सशब्दस्पर्शरूपवान् ॥
सशब्दस्पर्शरूपं च रसमात्रं समाविशत्
तस्माच्चतुर्गुणा आपो विज्ञेयास्तु रसात्मिकाः ॥
शब्दस्पर्शं च रूपं च रसो वै गन्धमाविशत्
संगता गन्धमात्रेण आविशन्तो महीमिमाम् ॥
तस्मात्पञ्चगुणा भूमिः स्थूला भूतेषु शस्यते
शान्ता घोराश् च मूढाश् च विशेषास्तेन ते स्मृताः ॥
परस्परानुप्रवेशाद् धारयन्ति परस्परम्
भूमेरन्तस्त्विदं सर्वं लोकालोकाचलावृतम् ॥
विशेषाश्चेन्द्रियग्राह्या नियतत्वाच्च ते स्मृताः
गुणं पूर्वस्य सर्गस्य प्राप्नुवन्त्युत्तरोत्तराः ॥
तेषां यावच्च तद् यच्च यच्च तावद्गुणं स्मृतम्
उपलभ्याप्सु वै गन्धं केचिद् ब्रूयुर् अपां गुणम् ॥
पृथिव्यामेव तं विद्याद् अपां वायोश् च संश्रयात्
एते सप्त महात्मानो ह्य् अन्योन्यस्य समाश्रयात् ॥
पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च
महादयो विशेषान्ता ह्य् अण्डमुत्पादयन्ति ते ॥
एककालसमुत्पन्नं जलबुद्बुदवच्च तत्
विशेषेभ्यो ऽण्डम् अभवन् महत् तद् उदकेशयम् ॥
अद्भिर् दशगुणाभिस्तु बाह्यतो ऽण्डं समावृतम्
आपो दशगुणेनैतास् तेजसा बाह्यतो वृताः ॥
तेजो दशगुणेनैव वायुना बाह्यतो वृतम्
वायुर्दशगुणेनैव बाह्यतो नभसा वृतः ॥
आकाशेनावृतो वायुः खं तु भूतादिनावृतम्
भूतादिर्महता चापि अव्यक्तेनावृतो महान् ॥
शर्वश्चाण्डकपालस्थो भवश्चांभसि सुव्रताः
रुद्रो ऽग्निमध्ये भगवान् उग्रो वायौ पुनः स्मृतः ॥
भीमश्चावनिमध्यस्थो ह्य् अहङ्कारे महेश्वरः
बुद्धौ च भगवानीशः सर्वतः परमेश्वरः ॥
एतैरावरणैरण्डं सप्तभिः प्राकृतैर् वृतम्
एता आवृत्य चान्योन्यम् अष्टौ प्रकृतयः स्थिताः ॥
प्रसर्गकाले स्थित्वा तु ग्रसन्त्येताः परस्परम्
एवं परस्परोत्पन्ना धारयन्ति परस्परम् ॥
आधाराधेयभावेन विकारास्ते विकारिषु
महेश्वरः परो ऽव्यक्ताद् अण्डम् अव्यक्तसंभवम् ॥
अण्डाज्जज्ञे स एवेशः पुरुषो ऽर्कसमप्रभः
तस्मिन्कार्यस्य करणं संसिद्धं स्वेच्छयैव तु ॥
स वै शरीरी प्रथमः स वै पुरुष उच्यते
तस्य वामाङ्गजो विष्णुः सर्वदेवनमस्कृतः ॥
लक्ष्म्या देव्या ह्यभूद्देव इच्छया परमेष्ठिनः
दक्षिणाङ्गभवो ब्रह्मा सरस्वत्या जगद्गुरुः ॥
तस्मिन्नण्डे इमे लोका अन्तर्विश्वमिदं जगत्
चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ॥
लोकालोकद्वयं किंचिद् अण्डे ह्यस्मिन्समर्पितम्
यत्तु सृष्टौ प्रसंख्यातं मया कालान्तरं द्विजाः ॥
एतत्कालान्तरं ज्ञेयम् अहर्वै पारमेश्वरम्
रात्रिश्चैतावती ज्ञेया परमेशस्य कृत्स्नशः ॥
अहस्तस्य तु या सृष्टिः रात्रिश् च प्रलयः स्मृतः
नाहस्तु विद्यते तस्य न रात्रिरिति धारयेत् ॥
उपचारस्तु क्रियते लोकानां हितकाम्यया
इन्द्रियाणीन्द्रियार्थाश् च महाभूतानि पञ्च च ॥
तस्मात् सर्वाणि भूतानि बुद्धिश् च सह दैवतैः
अहस्तिष्ठन्ति सर्वाणि परमेशस्य धीमतः ॥
अहरन्ते प्रलीयन्ते रात्र्यन्ते विश्वसंभवः
स्वात्मन्यवस्थिते व्यक्ते विकारे प्रतिसंहृते ॥
साधर्म्येणावतिष्ठेते प्रधानपुरुषावुभौ
तमःसत्त्वरजोपेतौ समत्वेन व्यवस्थितौ ॥
अनुपृक्तावभूतां ताव् ओतप्रोतौ परस्परम्
गुणसाम्ये लयो ज्ञेयो वैषम्ये सृष्टिरुच्यते ॥
तिले यथा भवेत्तैलं घृतं पयसि वा स्थितम्
तथा तमसि सत्त्वे च रजस्यनुसृतं जगत् ॥
उपास्य रजनीं कृत्स्नां परां माहेश्वरीं तथा
अर्हमुखे प्रवृत्तश् च परः प्रकृतिसंभवः ॥
क्षोभयामास योगेन परेण परमेश्वरः
प्रधानं पुरुषं चैव प्रविश्य स महेश्वरः ॥
महेश्वरात्त्रयो देवा जज्ञिरे जगदीश्वरात्
शाश्वताः परमा गुह्यः सर्वात्मानः शरीरिणः ॥
एत एव त्रयो देवा एत एव त्रयो गुणाः
एत एव त्रयो लोका एत एव त्रयो ऽग्नयः ॥
परस्पराश्रिता ह्येते परस्परमनुव्रताः
परस्परेण वर्तन्ते धारयन्ति परस्परम् ॥
अन्योन्यमिथुना ह्येते अन्योन्यमुपजीविनः
क्षणं वियोगो न ह्येषां न त्यजन्ति परस्परम् ॥
ईश्वरस्तु परो देवो विष्णुश् च महतः परः
ब्रह्मा च रजसा युक्तः सर्गादौ हि प्रवर्तते ॥
परः स पुरुषो ज्ञेयः प्रकृतिः सा परा स्मृता ॥
अधिष्ठिता सा हि महेश्वरेण प्रवर्तते चोद्यमने समन्तात्
अनुप्रवृत्तस्तु महांस्तदेनां चिरस्थिरत्वाद् विषयं श्रियः स्वयम् ॥
प्रधानगुणवैषम्यात् सर्गकालः प्रवर्तते
ईश्वराधिष्ठितात्पूर्वं तस्मात्सदसदात्मकात् ॥
संसिद्धः कार्यकरणे रुद्रश्चाग्रे ह्यवर्तत
तेजसाप्रतिमो धीमान् अव्यक्तः सम्प्रकाशकः ॥
स वै शरीरी प्रथमः स वै पुरुष उच्यते
ब्रह्मा च भगवांस्तस्माच् चतुर्वक्त्रः प्रजापतिः ॥
संसिद्धः कार्यकारणे तथा वै समवर्तत
एक एव महादेवस् त्रिधैवं स व्यवस्थितः ॥
अप्रतीपेन ज्ञानेन ऐश्वर्येण समन्वितः
धर्मेण चाप्रतीपेन वैराग्येण च ते ऽन्विताः ॥
अव्यक्ताज्जायते तेषां मनसा यद्यदीहितम्
वशीकृतत्वात्त्रैगुण्यं सापेक्षत्वात्स्वभावतः ॥
चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चान्तकः स्मृतः
सहस्रमूर्धा पुरुषस् तिस्रो ऽवस्थाः स्वयंभुवः ॥
ब्रह्मत्वे सृजते लोकान् कालत्वे संक्षिपत्यपि
पुरुषत्वे ह्युदासीनस् तिस्रो ऽवस्थाः प्रजापतेः ॥
ब्रह्मा कमलगर्भाभो रुद्रः कालाग्निसन्निभः
पुरुषः पुण्डरीकाक्षो रूपं तत्परमात्मनः ॥
एकधा स द्विधा चैव त्रिधा च बहुधा पुनः
महेश्वरः शरीराणि करोति विकरोति च ॥
नानाकृतिक्रियारूप नामवन्ति स्वलीलया
महेश्वरः शरीराणि करोति विकरोति च ॥
त्रिधा यद्वर्तते लोके तस्मात्त्रिगुण उच्यते
चतुर्धा प्रविभक्तत्वाच् चतुर्व्यूहः प्रकीर्तितः ॥
यदाप्नोति यदादत्ते यच्चात्ति विषयानयम्
यच्चास्य सततं भावस् तस्मादात्मा निरुच्यते ॥
ऋषिः सर्वगतत्वाच्च शरीरी सो ऽस्य यत्प्रभुः
स्वामित्वमस्य यत्सर्वं विष्णुः सर्वप्रवेशनात् ॥
भगवान् भगवद्भावान् निर्मलत्वाच्छिवः स्मृतः
परमः सम्प्रकृष्टत्वाद् अवनाद् ओमिति स्मृतः ॥
सर्वज्ञः सर्वविज्ञानात् सर्वः सर्वमयो यतः
त्रिधा विभज्य चात्मानं त्रैलोक्यं सम्प्रवर्तते ॥
सृजते ग्रसते चैव रक्षते च त्रिभिः स्वयम्
आदित्वाद् आदिदेवो ऽसाव् अजातत्वाद् अजः स्मृतः ॥
पाति यस्मात्प्रजाः सर्वाः प्रजापतिर् इति स्मृतः
देवेषु च महान्देवो महादेवस्ततः स्मृतः ॥
सर्वगत्वाच्च देवानाम् अवश्यत्वाच्च ईश्वरः
बृहत्त्वाच्च स्मृतो ब्रह्मा भूतत्वाद्भूत उच्यते ॥
क्षेत्रज्ञः क्षेत्रविज्ञानाद् एकत्वात्केवलः स्मृतः
यस्मात्पुर्यां स शेते च तस्मात्पूरुष उच्यते ॥
अनादित्वाच्च पूर्वत्वात् स्वयंभूरिति संस्मृतः
याज्यत्वादुच्यते यज्ञः कविर् विक्रान्तदर्शनात् ॥
क्रमणः क्रमणीयत्वात् पालकश्चापि पालनात्
आदित्यसंज्ञः कपिलो ह्य् अग्रजो ऽग्निरिति स्मृतः ॥
हिरण्यमस्य गर्भो ऽभूद् धिरण्यस्यापि गर्भजः
तस्माद्धिरण्यगर्भत्वं पुराणे ऽस्मिन्निरुच्यते ॥
स्वयंभुवो ऽपि वृत्तस्य कालो विश्वात्मनस्तु यः
न शक्यः परिसंख्यातुम् अपि वर्षशतैरपि ॥
कालसंख्याविवृत्तस्य परार्धो ब्रह्मणः स्मृतः
तावच्छेषो ऽस्य कालो ऽन्यस् तस्यान्ते प्रतिसृज्यते ॥
कोटिकोटिसहस्राणि अहर्भूतानि यानि वै
समतीतानि कल्पानां तावच्छेषाः परे तु ये
यस्त्वयं वर्तते कल्पो वाराहस्तं निबोधत ॥
प्रथमः सांप्रतस्तेषां कल्पो ऽयं वर्तते द्विजाः
यस्मिन्स्वायंभुवाद्यास्तु मनवस्ते चतुर्दश ॥
अतीता वर्तमानाश् च भविष्या ये च वै पुनः
तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता ॥
पूर्णं युगसहस्रं वै परिपाल्या महेश्वरैः
प्रजाभिस्तपसा चैव तेषां शृणुत विस्तरम् ॥
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि च
कथितानि भविष्यन्ति कल्पः कल्पेन चैव हि ॥
अतीतानि च कल्पानि सोदर्काणि सहान्वयैः
अनागतेषु तद्वच्च तर्कः कार्यो विजानता ॥
आपो ह्यग्रे समभवन् नष्टे च पृथिवीतले
शान्ततारैकनीरे ऽस्मिन् न प्राज्ञायत किंचन ॥
एकार्णवे तदा तस्मिन् नष्टे स्थावरजङ्गमे
तदा भवति वै ब्रह्मा सहस्राक्षः सहस्रपात् ॥
सहस्रशीर्षा पुरुषो रुक्मवर्णस् त्वतीन्द्रियः
ब्रह्मा नारायणाख्यस्तु सुष्वाप सलिले तदा ॥
सत्त्वोद्रेकात्प्रबुद्धस्तु शून्यं लोकमुदैक्षत
इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति ॥
आपो नाराश् च सूनव इत्यपां नाम शुश्रुमः
आपूर्य ताभिर् अयनं कृतवानात्मनो यतः ॥
अप्सु शेते यतस्तस्मात् ततो नारायणः स्मृतः
चतुर्युगसहस्रस्य नैशं कालम् उपास्यतः ॥
शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात्
ब्रह्मा तु सलिले तस्मिन् वायुर्भूत्वा समाचरत् ॥
निशायामिव खद्योतः प्रावृट्काले ततस्तु सः
ततस् तु सलिले तस्मिन् विज्ञायान्तर्गतां महीम् ॥
अनुमानाद् असंमूढो भूमेरुद्धरणं पुनः
अकरोत्स तनूमन्यां कल्पादिषु यथापुरा ॥
ततो महात्मा भगवान् दिव्यरूपम् अचिन्तयत्
सलिलेनाप्लुतां भूमिं दृष्ट्वा स तु समन्ततः ॥
किंनु रूपमहं कृत्वा उद्धरेयं महीमिमाम्
जलक्रीडानुसदृशं वाराहं रूपमाविशत् ॥
अधृष्यं सर्वभूतानां वाङ्मयं ब्रह्मसंज्ञितम्
पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ॥
अद्भिः संछादितां भूमिं स तामाशु प्रजापतिः
उपगम्योज्जहारैनाम् आपश्चापि समाविशत् ॥
सामुद्रा वै समुद्रेषु नादेयाश् च नदीषु च
रसातलतले मग्नां रसातलपुटे गताम् ॥
प्रभुर्लोकहितार्थाय दंष्ट्रयाभ्युज्जहार गाम्
ततः स्वस्थानमानीय पृथिवीं पृथिवीधरः ॥
मुमोच पूर्ववद् असौ धारयित्वा धराधरः
तस्योपरि जलौघस्य महती नौरिव स्थिता ॥
तत्समा ह्युरुदेहत्वान् न मही याति संप्लवम्
तत उत्क्षिप्य तां देवो जगतः स्थापनेच्छया ॥
पृथिव्याः प्रविभागाय मनश्चक्रे ऽम्बुजेक्षणः
पृथिवीं च समां कृत्वा पृथिव्यां सो ऽचिनोद् गिरीन् ॥
प्राक्सर्गे दह्यमाने तु तदा संवर्तकाग्निना
तेनाग्निना विशीर्णास्ते पर्वता भूरिविस्तराः ॥
शैत्यादेकार्णवे तस्मिन् वायुना तेन संहताः
निषिक्ता यत्र यत्रासंस् तत्र तत्राचलाभवन् ॥
तदाचलत्वाद् अचलाः पर्वभिः पर्वताः स्मृताः
गिरयो हि निगीर्णत्वाच् छयानत्वाच्छिलोच्चयाः ॥
ततस्तेषु विकीर्णेषु कोटिशो हि गिरिष्वथ
विश्वकर्मा विभजते कल्पादिषु पुनः पुनः ॥
ससमुद्रामिमां पृथ्वीं सप्तद्वीपां सपर्वताम्
भूराद्यांश् चतुरो लोकान् पुनः सो ऽथ व्यकल्पयत् ॥
लोकान् प्रकल्पयित्वाथ प्रजासर्गं ससर्ज ह
ब्रह्मा स्वयंभूर्भगवान् सिसृक्षुर्विविधाः प्रजाः ॥
ससर्ज सृष्टिं तद्रूपां कल्पादिषु यथापुरा
तस्याभिध्यायतः सर्गं तथा वै बुद्धिपूर्वकम् ॥
बुद्ध्याश् च समकाले वै प्रादुर्भूतस् तमोमयः
तमोमोहो महामोहस् तामिस्रश्चान्धसंज्ञितः ॥
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः
पञ्चधावस्थितः सर्गो ध्यायतः सो ऽभिमानिनः ॥
संवृतस्तमसा चैव बीजाङ्कुरवदावृतः
बहिरन्तश्चाप्रकाशस् तब्धो निःसंज्ञ एव च ॥
यस्मात्तेषां वृता बुद्धिर् दुःखानि करणानि च
तस्मात्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः ॥
मुख्यसर्गं तथाभूतं दृष्ट्वा ब्रह्मा ह्यसाधकम्
अप्रसन्नमनाः सो ऽथ ततो ऽन्यं सो ह्यमन्यत ॥
तस्याभिध्यायतश्चैव तिर्यक्स्रोता ह्यवर्तत
तस्मात् तिर्यक्प्रवृत्तः स तिर्यक्स्रोतास् ततः स्मृतः ॥
पश्वादयस्ते विख्याता उत्पथग्राहिणो द्विजाः
तस्याभिध्यायतो ऽन्यं वै सात्त्विकः समवर्तत ॥
ऊर्ध्वस्रोतास्तृतीयस्तु स वै चोर्ध्वं व्यवस्थितः
यस्मात्प्रवर्तते चोर्ध्वम् ऊर्ध्वस्रोतास्ततः स्मृतः ॥
ते सुखप्रीतिबहुला बहिरन्तश् च संवृताः
प्रकाशा बहिरन्तश् च ऊर्ध्वस्रोतोभवाः स्मृताः ॥
ते सत्त्वस्य च योगेन सृष्टाः सत्त्वोद्भवाः स्मृताः
ऊर्ध्वस्रोतास्तृतीयो वै देवसर्गस्तु स स्मृतः ॥
प्रकाशाद् बहिरन्तश् च ऊर्ध्वस्रोतोद्भवाः स्मृताः
ते ऊर्ध्वस्रोतसो ज्ञेयास् तुष्टात्मानो बुधैः स्मृताः ॥
ऊर्ध्वस्रोतःसु सृष्टेषु देवेषु वरदः प्रभुः
प्रीतिमानभवद्ब्रह्मा ततो ऽन्यं सो ऽभ्यमन्यत ॥
ससर्ज सर्गमन्यं हि साधकं प्रभुरीश्वरः
ततो ऽभिध्यायतस्तस्य सत्याभिध्यायिनस्तदा ॥
प्रादुरासीत्तदा व्यक्ताद् अर्वाक्स्रोतास्तु साधकः
यस्माद् अर्वाङ्न्यवर्तन्त ततो ऽर्वाक्स्रोतसस् तु ते ॥
ते च प्रकाशबहुलास् तमःपृक्ता रजो ऽधिकाः
तस्मात्ते दुःखबहुला भूयोभूयश् च कारिणः ॥
संवृता बहिरन्तश् च मनुष्याः साधकाश् च ते ॥
लक्षणैस्तारकाद्यैस्ते ह्य् अष्टधा तु व्यवस्थिताः ॥
सिद्धात्मानो मनुष्यास्ते गन्धर्वसहधर्मिणः
इत्येष तैजसः सर्गो ह्य् अर्वाक्स्रोतःप्रकीर्तितः ॥
पञ्चमो ऽनुग्रहः सर्गश् चतुर्धा तु व्यवस्थितः
विपर्ययेण शक्त्या च सिद्ध्या तुष्ट्या तथैव च ॥
स्थावरेषु विपर्यासस् तिर्यग्योनिषु शक्तितः
सिद्धात्मानो मनुष्यास्तु ऋषिदेवेषु कृत्स्नशः ॥
इत्येष प्राकृतः सर्गो वैकृतो नवमः स्मृतः
भूतादिकानां भूतानां षष्ठः सर्गः स उच्यते ॥
निवृत्तं वर्तमानं च तेषां जानन्ति वै पुनः
भूतादिकानां भूतानां सप्तमः सर्ग एव च ॥
ते परिग्राहिणः सर्वे संविभागरताः पुनः
स्वादनाश् चाप्यशीलाश् च ज्ञेया भूतादिकाश् च ते ॥
विपर्ययेण भूतादिर् अशक्त्या च व्यवस्थितः
प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणः स्मृतः ॥
तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते
वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ॥
इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः
मुख्यसर्गश्चतुर्थश् च मुख्या वै स्थावराः स्मृताः ॥
ततो ऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः
अष्टमो ऽनुग्रहः सर्गः सात्त्विकस्तामसश् च सः ॥
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः
प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः ॥
अबुद्धिपूर्वकाः सर्गाः प्राकृतास्तु त्रयः स्मृताः
बुद्धिपूर्वं प्रवर्तन्ते षट् पुनर्ब्रह्मणस्तु ते ॥
विस्तरानुग्रहः सर्गः कीर्त्यमानो निबोधत
चतुर्धावस्थितः सो ऽथ सर्वभूतेषु कृत्स्नशः ॥
इत्येते प्राकृताश्चैव वैकृताश् च नव स्मृताः
परस्परानुरक्ताश् च कारणैश् च बुधैः स्मृताः ॥
अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान्
ऋभुः सनत्कुमारश् च द्वावेतावूर्ध्वरेतसौ ॥
पूर्वोत्पन्नौ पुरा तेभ्यः सर्वेषामपि पूर्वजौ
व्यतीते त्वष्टमे कल्पे पुराणौ लोकसाक्षिणौ ॥
तौ वाराहे तु भूर्लोके तेजः संक्षिप्य धिष्ठितौ
तावुभौ मोक्षकर्माणाव् आरोप्यात्मानमात्मनि ॥
प्रजां धर्मं च कामं च त्यक्त्वा वैराग्यमास्थितौ
यथोत्पन्नस्तथैवेह कुमारः स इहोच्यते ॥
तस्मात् सनत्कुमारेति नामास्येह प्रकीर्तितम्
सनन्दं सनकं चैव विद्वांसं च सनातनम् ॥
विज्ञानेन निवृत्तास्ते व्यवर्तन्त महौजसः
संबुद्धाश्चैव नानात्वे अप्रवृत्ताश् च योगिनः ॥
असृष्ट्वैव प्रजासर्गं प्रतिसर्गं गताः पुनः
ततस्तेषु व्यतीतेषु ततो ऽन्यान् साधकान् सुतान् ॥
मानसानसृजद्ब्रह्मा पुनः स्थानाभिमानिनः
आ भूतसम्प्लवावस्था यैरियं विधृता मही ॥
आपो ऽग्निं पृथिवीं वायुम् अन्तरिक्षं दिवं तथा
समुद्रांश् च नदीश्चैव तथा शैलवनस्पतीन् ॥
ओषधीनां तथात्मानो वल्लीनां वृक्षवीरुधाम्
लताः काष्ठाः कलाश्चैव मुहूर्ताः संधिरात्र्यहान् ॥
अर्धमासांश् च मासांश् च अयनाब्दयुगानि च
स्थानाभिमानिनः सर्वे स्थानाख्याश्चैव ते स्मृताः ॥
देवानृषींश् च महतो गदतस्तान् निबोधत
मरीचिभृग्वङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ॥
दक्षमत्रिं वसिष्ठं च सो ऽसृजन्मानसान् नव
नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥
तेषां ब्रह्मात्मकानां वै सर्वेषां ब्रह्मवादिनाम्
स्थानानि कल्पयामास पूर्ववत्पद्मसंभवः ॥
ततो ऽसृजच्च संकल्पं धर्मं चैव सुखावहम्
सो ऽसृजद् व्यवसायात्तु धर्मं देवो महेश्वरः ॥
संकल्पं चैव संकल्पात् सर्वलोकपितामहः
मानसश् च रुचिर्नाम विजज्ञे ब्रह्मणः प्रभोः ॥
प्राणाद्ब्रह्मासृजद्दक्षं चक्षुर्भ्यां च मरीचिनम्
भृगुस्तु हृदयाज्जज्ञे ऋषिः सलिलजन्मनः ॥
शिरसो ऽङ्गिरसश्चैव श्रोत्रादत्रिं तथासृजत्
पुलस्त्यं च तथोदानाद् व्यानाच्च पुलहं पुनः ॥
समानजो वसिष्ठश् च अपानान्निर्ममे क्रतुम्
इत्येते ब्रह्मणः पुत्रा दिव्या एकादशा स्मृताः ॥
धर्मादयः प्रथमजाः सर्वे ते ब्रह्मणः सुताः
भृग्वादयस्तु ते सृष्टा नवैते ब्रह्मवादिनः ॥
गृहमेधिनः पुराणास् ते धर्मस् तैः सम्प्रवर्तितः
तेषां द्वादश ते वंशा दिव्या देवगुणान्विताः ॥
क्रियावन्तः प्रजावन्तो महर्षिभिर् अलंकृताः
ऋभुः सनत्कुमारश् च द्वावेतावूर्ध्वरेतसौ ॥
पूर्वोत्पन्नौ परं तेभ्यः सर्वेषामपि पूर्वजौ
व्यतीते त्वष्टमे कल्पे पुराणौ लोकसाक्षिणौ ॥
विराजेतामुभौ लोके तेजः संक्षिप्य धिष्ठितौ
तावुभौ योगकर्माणाव् आरोप्यात्मानम् आत्मनि ॥
प्रजां धर्मं च कामं च त्यक्त्वा वैराग्यमास्थितौ
यथोत्पन्नः स एवेह कुमारः स इहोच्यते ॥
तस्मात्सनत्कुमारेति नामास्येह प्रतिष्ठितम्
ततो ऽभिध्यायतस्तस्य जज्ञिरे मानसाः प्रजाः ॥
तच्छरीरसमुत्पन्नैः कार्यैस्तैः कारणैः सह
क्षेत्रज्ञाः समवर्तन्त गात्रेभ्यस्तस्य धीमतः ॥
ततो देवासुरपितॄन् मानुषांश् च चतुष्टयम्
सिसृक्षुर् अम्भांस्येतानि स्वम् आत्मानम् अयूयुजत् ॥
ततस्तु युञ्जतस्तस्य तमोमात्रसमुद्भवम्
समभिध्यायतः सर्गं प्रयत्नेन प्रजापतेः ॥
ततो ऽस्य जघनात्पूर्वम् असुरा जज्ञिरे सुताः
असुः प्राणः स्मृतो विप्रास् तज्जन्मानस् ततो ऽसुराः ॥
यया सृष्टासुराः सर्वे तां तनुं स व्यपोहत
सापविद्धा तनुस् तेन सद्यो रात्रिर् अजायत ॥
सा तमोबहुला यस्मात् ततो रात्रिर्नियामिका
आवृतास्तमसा रात्रौ प्रजास्तस्मात्स्वपन्त्युत ॥
सृष्ट्वासुरांस्ततः सो वै तनुमन्यामगृह्णत
अव्यक्तां सत्त्वबहुलां ततस्तां सो ऽभ्यपूजयत् ॥
ततस्तां युञ्जतस् तस्य प्रियम् आसीत् प्रजापतेः
ततो मुखात्समुत्पन्ना दीव्यतस्तस्य देवताः ॥
यतो ऽस्य दीव्यतो जातास् तेन देवाः प्रकीर्तिताः
धातुर्दिविति यः प्रोक्तः क्रीडायां स विभाव्यते ॥
यस्मात्तस्य तु दीव्यन्तो जज्ञिरे तेन देवताः
देवान्सृष्ट्वाथ देवेशस् तनुमन्यामपद्यत ॥
उत्सृष्टा सा तनुस्तेन सद्यो ऽहः समजायत
तस्मादहो धर्मयुक्तं देवताः समुपासते ॥
सत्त्वमात्रात्मिकामेव ततो ऽन्यां सो ऽभ्यमन्यत
पितृवन्मन्यमानस्य पुत्रांस्तान्ध्यायतः प्रभोः ॥
पितरो ह्युपपक्षाभ्यां रात्र्यह्णोर् अन्तरे ऽभवन्
तस्मात्ते पितरो देवाः पितृत्वं तेन तेषु तत् ॥
यया सृष्टास्तु पितरस् तनुं तां स व्यपोहत
सापविद्धा तनुस्तेन सद्यः संध्या व्यजायत ॥
यस्मादहर्देवतानां रात्रिर्या सासुरी स्मृता
तयोर्मध्ये तु पैत्री या तनुः सा तु गरीयसी ॥
तस्माद्देवा सुराः सर्वे ऋषयो मानवास् तथा
उपासन्ते मुदायुक्ता रात्र्यह्णोर् मध्यमां तनुम् ॥
ततो ह्यन्यां पुनर्ब्रह्मा तनुं वै समगृह्णत
रजोमात्रात्मिकायां तु मनसा सो ऽसृजत्प्रभुः ॥
रजःप्रियांस्ततः सो ऽथ मानसानसृजत्सुतान्
मनस्विनस्ततस्तस्य मानवा जज्ञिरे सुताः ॥
सृष्ट्वा पुनः प्रजाश्चापि स्वां तनुं ताम् अपोहत
सापविद्धा तनुस्तेन ज्योत्स्ना सद्यस्त्वजायत ॥
यस्माद्भवन्ति संहृष्टा ज्योत्स्नाया उद्भवे प्रजाः
इत्येतास्तनवस्तेन ह्य् अपविद्धा महात्मना ॥
सद्यो रात्र्यहनी चैव संध्या ज्योत्स्ना च जज्ञिरे
ज्योत्स्ना संध्या अहश्चैव सत्त्वमात्रात्मकं त्रयम् ॥
तमोमात्रात्मिका रात्रिः सा वै तस्मान्निशात्मिका
तस्माद्देवा दिवातन्वा तुष्ट्या सृष्टा मुखात्तु वै ॥
यस्मात्तेषां दिवा जन्म बलिनस्तेन वै दिवा
तन्वा ययासुरान् रात्रौ जघनादसृजत्प्रभुः ॥
प्राणेभ्यो निशिजन्मानो बलिनो निशि तेन ते
एतान्येव भविष्याणां देवानामसुरैः सह ॥
पितॄणां मानवानां च अतीतानागतेषु वै
मन्वन्तरेषु सर्वेषु निमित्तानि भवन्ति हि ॥
ज्योत्स्ना रात्र्यहनी संध्या चत्वार्यंभांसि तानि वै
भान्ति यस्मात् ततो ऽंभांसि शब्दो ऽयं सुमनीषिभिः ॥
भातिर्दीप्तौ निगदितः पुनश्चाथ प्रजापतिः
सो ऽम्भांस्येतानि सृष्ट्वा तु देवमानुषदानवान् ॥
पितॄंश्चैव सृजत्तन्वा आत्मना विविधान्पुनः
तामुत्सृज्य तनुं ज्योत्स्नां ततो ऽन्यां प्राप्य स प्रभुः ॥
मूर्तिं तमोरजःप्रायां पुनरेवाभ्यपूजयत्
अन्धकारे क्षुधाविष्टांस् ततो ऽन्यान् सो ऽसृजत् प्रभुः ॥
तेन सृष्टाः क्षुधात्मानो अंभांस्यादातुम् उद्यताः
अम्भांस्येतानि रक्षाम उक्तवन्तस्तु तेषु ये ॥
राक्षसा नाम ते यस्मात् क्षुधाविष्टा निशाचराः
ये ऽब्रुवन् यक्षमो ऽम्भांसि तेषां हृष्टाः परस्परम् ॥
तेन ते कर्मणा यक्षा गुह्यका गूढकर्मणा
रक्षेति पालने चापि धातुरेष विभाष्यते ॥
एवं च यक्षतिर् धातुर् भक्षणे स निरुच्यते
तं दृष्ट्वा ह्यप्रियेणास्य केशाः शीर्णास्तु धीमतः ॥
ते शीर्णाश्चोत्थिता ह्यूर्ध्वं ते चैवारुरुधुः प्रभुम्
हीनास्तच्छिरसो वाला यस्माच्चैवावसर्पिणः ॥
व्यालात्मानः स्मृता वाला हीनत्वादहयः स्मृताः
पतत्वात्पन्नगाश्चैव सर्पाश्चैवावसर्पणात् ॥
तस्य क्रोधोद्भवो यो ऽसौ अग्निगर्भः सुदारुणः
स तु सर्पान् सहोत्पन्नान् आविवेश विषात्मकः ॥
सर्पान्सृष्ट्वा ततः क्रुद्धः क्रोधात्मानो विनिर्ममे
वर्णेन कपिशेनोग्रास् ते भूताः पिशिताशनाः ॥
भूतत्वात्ते स्मृता भूताः पिशाचाः पिशिताशनात्
प्रसन्नं गायतस्तस्य गन्धर्वा जज्ञिरे यदा ॥
धयतीत्येष वै धातुः पानत्वे परिपठ्यते
धयन्तो जज्ञिरे वाचं गन्धर्वास्तेन ते स्मृताः ॥
अष्टस्वेतासु सृष्टासु देवयोनिषु स प्रभुः
ततः स्वच्छन्दतो ऽन्यानि वयांसि वयसासृजत् ॥
स्वच्छन्दतः स्वच्छन्दांसि वयसा च वयांसि च
पशून्सृष्ट्वा स देवेशो ऽसृजत्पक्षिगणानपि ॥
मुखतो ऽजाः ससर्जाथ वक्षसश् चावयो ऽसृजत्
गाश्चैवाथोदराद्ब्रह्मा पार्श्वाभ्यां च विनिर्ममे ॥
पद्भ्यां चाश्वान् समातङ्गान् रासभान् आवयान् मृगान्
उष्ट्रानश्वतरांश्चैव तथान्याश्चैव जातयः ॥
ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे
एवं पश्वोषधीः सृष्ट्वा यूयुजत् सो ऽध्वरे प्रभुः ॥
गौरजः पूरुषो मेषो ह्य् अश्वो ऽश्वतरगर्दभौ
एतान्ग्राम्यान्पशूनाहुर् आरण्यान्वै निबोधत ॥
श्वापदो द्विखुरो हस्ती वानराः पक्षिपञ्चमाः
औदकाः पशवः षष्ठाः सप्तमास्तु सरीसृपाः ॥
महिषा गवयाक्षाश् च प्लवंगाः शरभा वृकाः
सिंहस्तु सप्तमस्तेषाम् आरण्याः पशवः स्मृताः ॥
गायत्रं च ऋचं चैव त्रिवृत्सामरथंतरम्
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान् मुखात् ॥
यजूंषि त्रैष्टुभं छन्द स्तोमं पञ्चदशं तथा
बृहत्साम तथोक्थ्यं च दक्षिणादसृजन्मुखात् ॥
सामानि जगतीछन्द स्तोमं सप्तदशं तथा
वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात् ॥
एकविंशमथर्वाणम् आप्तोर्यामाणम् एव च
अनुष्टुभं सवैराजम् उत्तरादसृजन्मुखात् ॥
विद्युतो ऽशनिमेघांश् च रोहितेन्द्रधनूंषि च
तेजांसि च ससर्जादौ कल्पस्य भगवान्प्रभुः ॥
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे
ब्रह्मणस्तु प्रजासर्गं सृजतो हि प्रजापतेः ॥
सृष्ट्वा चतुष्टयं पूर्वं देवासुरनरान्पितॄन्
ततो ऽसृजत् स भूतानि स्थावराणि चराणि च ॥
यक्षान्पिशाचान् गन्धर्वांस् त्व् अथैवाप्सरसां गणान्
नरकिन्नररक्षांसि वयःपशुमृगोरगान् ॥
अव्ययं च व्ययं चापि यदिदं स्थाणुजङ्गमम्
तेषां वै यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे ॥
तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे नृतानृते ॥
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते
महाभूतेषु सृष्टेषु इन्द्रियार्थेषु मूर्तिषु ॥
विनियोगं च भूतानां धातैव व्यदधात् स्वयम्
केचित्पुरुषकारं तु प्राहुः कर्म सुमानवाः ॥
दैवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः
पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः ॥
न चैकं न पृथग्भावम् अधिकं न ततो विदुः
एतदेवं च नैकं च नामभेदेन नाप्युभे ॥
कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शनाः
नाम रूपं च भूतानां कृतानां च प्रपञ्चनम् ॥
वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः
ऋषीणां नामधेयानि याश् च वेदेषु वृत्तयः ॥
शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः
एवंविधाः सृष्टयस्तु ब्रह्मणो ऽव्यक्तजन्मनः ॥
शर्वर्यन्ते प्रदृश्यन्ते सिद्धिमाश्रित्य मानसीम्
एवंभूतानि सृष्टानि स्थावराणि चराणि च ॥
यदास्य ताः प्रजाः सृष्टा न व्यवर्धन्त सत्तमाः
तमोमात्रावृतो ब्रह्मा तदा शोकेन दुःखितः ॥
ततः स विदधे बुद्धिम् अर्थनिश्चयगामिनीम्
अथात्मनि समद्राक्षीत् तमोमात्रां नियामिकाम् ॥
रजःसत्त्वं परित्यज्य वर्तमानां स्वधर्मतः
ततः स तेन दुःखेन दुःखं चक्रे जगत्पतिः ॥
तमश् च व्यनुदत्पश्चाद् रजः सत्त्वं तमावृणोत्
तत्तमः प्रतिनुन्नं वै मिथुनं समजायत ॥
अधर्मस्तमसो जज्ञे हिंसा शोकादजायत
ततस्तस्मिन्समुद्भूते मिथुने दारुणात्मिके ॥
गतासुर् भगवान् आसीत् प्रीतिश् चैनम् अशिश्रियत्
स्वां तनुं स ततो ब्रह्मा तामपोहत भास्वराम् ॥
द्विधा कृत्वा स्वकं देहम् अर्धेन पुरुषो ऽभवत्
अर्धेन नारी सा तस्य शतरूपा व्यजायत ॥
प्रकृतिं भूतधात्रीं तां कामाद्वै सृष्टवान्प्रभुः
सा दिवं पृथिवीं चैव महिम्ना व्याप्यधिष्ठिता ॥
ब्रह्मणः सा तनुः पूर्वा दिवमावृत्य तिष्ठति
या त्वर्धात्सृजतो नारी शतरूपा व्यजायत ॥
सा देवी नियुतं तप्त्वा तपः परमदुश्चरम्
भर्तारं दीप्तयशसं पुरुषं प्रत्यपद्यत ॥
स वै स्वायंभुवः पूर्वं पुरुषो मनुरुच्यते
तस्यैव सप्ततियुगं मन्वन्तरमिहोच्यते ॥
लेभे स पुरुषः पत्नीं शतरूपाम् अयोनिजाम्
तया सार्धं स रमते तस्मात्सा रतिरुच्यते ॥
प्रथमः संप्रयोगात्मा कल्पादौ समपद्यत
विराजम् असृजद् ब्रह्मा सो ऽभवत् पुरुषो विराट् ॥
सम्राट् च शतरूपा वै वैराजः स मनुः स्मृतः
स वैराजः प्रजासर्गं ससर्ज पुरुषो मनुः ॥
वैराजात्पुरुषाद् वीराच् छतरूपा व्यजायत
प्रियव्रतोत्तानपादौ पुत्रौ द्वौ लोकसंमतौ ॥
कन्ये द्वे च महाभागे याभ्यां जाता इमाः प्रजाः
देवी नाम तथाकूतिः प्रसूतिश्चैव ते उभे ॥
स्वायंभुवः प्रसूतिं तु दक्षाय प्रददौ प्रभुः
प्राणो दक्ष इति ज्ञेयः संकल्पो मनुरुच्यते ॥
रुचेः प्रजापतेः सो ऽथ आकूतिं प्रत्यपादयत्
आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् ॥
यज्ञश् च दक्षिणा चैव यमलौ संबभूवतुः
यज्ञस्य दक्षिणायां तु पुत्रा द्वादश जज्ञिरे ॥
यामा इति समाख्याता देवाः स्वायंभुवे ऽन्तरे
एतस्य पुत्रा यज्ञस्य तस्माद्यामाश् च ते स्मृताः ॥
अजितश्चैव शुक्रश् च गणौ द्वौ ब्रह्मणा कृतौ
यामाः पूर्वं प्रजाता ये ते ऽभवंस्तु दिवौकसः ॥
स्वायंभुवसुतायां तु प्रसूत्यां लोकमातरः
तस्यां कन्याश्चतुर्विंशद् दक्षस् त्वजनयत् प्रभुः ॥
सर्वास्ताश् च महाभागाः सर्वाः कमललोचनाः
भोगवत्यश् च ताः सर्वाः सर्वास्ता योगमातरः ॥
सर्वाश् च ब्रह्मवादिन्यः सर्वा विश्वस्य मातरः
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा ॥
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदश
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ॥
दाराण्येतानि वै तस्य विहितानि स्वयंभुवा
ताभ्यः शिष्टायवीयस्य एकादश सुलोचनाः ॥
सती ख्यात्यथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा
संनतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥
तास् तथा प्रत्यपद्यन्त पुनरन्ये महर्षयः
रुद्रो भृगुर् मरीचिश् च अङ्गिराः पुलहः क्रतुः ॥
पुलस्त्यो ऽत्रिर् वसिष्ठश् च पितरो ऽग्निस्तथैव च
सतीं भवाय प्रायच्छत् ख्यातिं च भृगवे ततः ॥
मरीचये च संभूतिं स्मृतिमङ्गिरसे ददौ
प्रीतिं चैव पुलस्त्याय क्षमां वै पुलहाय च ॥
क्रतवे संनतिं नाम अनसूयां तथात्रये
ऊर्जां ददौ वसिष्ठाय स्वाहामप्यग्नये ददौ ॥
स्वधां चैव पितृभ्यस्तु तास्वपत्या निबोधत
एताः सर्वा महाभागाः प्रजास्वनुसृताः स्थिताः ॥
मन्वन्तरेषु सर्वेषु यावदाभूतसंप्लवम्
श्रद्धा कामं विजज्ञे वै दर्पो लक्ष्मीसुतः स्मृतः ॥
धृत्यास्तु नियमः पुत्रस् तुष्ट्याः संतोष एव च
पुष्ट्या लोभः सुतश्चापि मेधापुत्रः श्रुतस् तथा ॥
क्रियायामभवत्पुत्रो दण्डः समय एव च
बुद्ध्यां बोधः सुतस् तद्वत् प्रमादो ऽप्युपजायत ॥
लज्जायां विनयः पुत्रो व्यवसायो वसोः सुतः
क्षेमः शान्तिसुतश्चापि सुखं सिद्धेर्व्यजायत ॥
यशः कीर्तिसुतश्चापि इत्येते धर्मसूनवः
कामस्य हर्षः पुत्रो वै देव्यां प्रीत्यां व्यजायत ॥
इत्येष वै सुतोदर्कः सर्गो धर्मस्य कीर्तितः
जज्ञे हिंसा त्वधर्माद्वै निकृतिं चानृतं सुतम् ॥
निकृत्यां तु द्वयं जज्ञे भयं नरक एव च
माया च वेदना चापि मिथुनद्वयमेतयोः ॥
भूयो जज्ञे ऽथ वै माया मृत्युं भूतापहारिणम्
वेदनायाः सुतश्चापि दुःखं जज्ञे च रौरवः ॥
मृत्योर् व्याधिजराशोक क्रोधासूयाश् च जज्ञिरे
दुःखोत्तराः सुता ह्येते सर्वे चाधर्मलक्षणाः ॥
नैषां भार्यास्तु पुत्राश् च सर्वे ह्येते परिग्रहाः
इत्येष तामसः सर्गो जज्ञे धर्मनियामकः ॥
प्रजाः सृजेति व्यादिष्टो ब्रह्मणा नीललोहितः
सो ऽभिध्याय सतीं भार्यां निर्ममे ह्यात्मसंभवान् ॥
नाधिकान्न च हीनांस्तान् मानसानात्मनः समान्
सहस्रं हि सहस्राणां सो ऽसृजत् कृत्तिवाससः ॥
तुल्यानेवात्मनः सर्वान् रूपतेजोबलश्रुतैः
पिङ्गलान्सनिषङ्गांश् च सकपर्दान्सलोहितान् ॥
विशिष्टान् हरिकेशांश् च दृष्टिघ्नांश् च कपालिनः
महारूपान्विरूपांश् च विश्वरूपान् स्वरूपिणः ॥
रथिनश्चर्मिणश्चैव वर्मिणश् च वरूथिनः
सहस्रशतबाहूंश् च दिव्यान् भौमान्तरिक्षगान् ॥
स्थूलशीर्षान् अष्टदंष्ट्रान् द्विजिह्वांस् तांस् त्रिलोचनान्
अन्नादान् पिशिताशांश् च आज्यपान्सोमपानपि ॥
मीढुषो ऽतिकपालांश् च शितिकण्ठोर्ध्वरेतसः
हव्यादाञ्छ्रुतधर्मांश् च धर्मिणो ह्यथ बर्हिणः ॥
आसीनान्धावतश्चैव पञ्चभूतान्सहस्रशः
अध्यापिनो ऽध्यायिनश् च जपतो युञ्जतस् तथा ॥
धूमवन्तो ज्वलन्तश् च नदीमन्तो ऽतिदीप्तिनः
वृद्धान्बुद्धिमतश्चैव ब्रह्मिष्ठाञ्शुभदर्शनान् ॥
नीलग्रीवान् सहस्राक्षान् सर्वांश्चाथ क्षमाकरान्
अदृश्यान्सर्वभूतानां महायोगान्महौजसः ॥
भ्रमन्तो ऽभिद्रवन्तश् च प्लवन्तश् च सहस्रशः
अयातयामान् असृजद् रुद्रानेतान् सुरोत्तमान् ॥
ब्रह्मा दृष्ट्वाब्रवीदेनं मास्राक्षीरीदृशीः प्रजाः
स्रष्टव्या नात्मनस्तुल्याः प्रजा देव नमो ऽस्तु ते ॥
अन्याः सृज त्वं भद्रं ते प्रजा वै मृत्युसंयुताः
नारप्स्यन्ते हि कर्माणि प्रजावगतमृत्यवः ॥
एवमुक्तो ऽब्रवीदेनं नाहं मृत्युजरान्विताः
प्रजाः स्रक्ष्यामि भद्रं ते स्थितो ऽहं त्वं सृज प्रजाः ॥
एते ये वै मया सृष्टा विरूपा नीललोहिताः
सहस्राणां सहस्रं तु आत्मनो निःसृताः प्रजाः ॥
एते देवा भविष्यन्ति रुद्रा नाम महाबलाः
पृथिव्यामन्तरिक्षे च दिक्षु चैव परिश्रिताः ॥
शतरुद्राः समात्मानो भविष्यन्तीति याज्ञिकाः
यज्ञभाजो भविष्यन्ति सर्वदेवगणैः सह ॥
मन्वन्तरेषु ये देवा भविष्यन्तीह भेदतः
सार्धं तैर् ईज्यमानास् ते स्थास्यन्तीह आ युगक्षयात् ॥
एवमुक्तस्तदा ब्रह्मा महादेवेन धीमता
प्रत्युवाच नमस्कृत्य हृष्यमाणः प्रजापतिः ॥
एवं भवतु भद्रं ते यथा ते व्याहृतं विभो
ब्रह्मणा समनुज्ञाते तथा सर्वमभूत्किल ॥
ततः प्रभृति देवेशो न चासूयत वै प्रजाः
ऊर्ध्वरेताः स्थितः स्थाणुर् यावदाभूतसंप्लवम् ॥
यस्मादुक्तः स्थितो ऽस्मीति तस्मात्स्थाणुरिति स्मृतः
एष देवो महादेवः पुरुषो ऽर्कसमद्युतिः ॥
अर्धनारीनरवपुस् तेजसा ज्वलनोपमः
स्वेच्छयासौ द्विधाभूतः पृथक् स्त्री पुरुषः पृथक् ॥
स एवैकादशार्धेन स्थितो ऽसौ परमेश्वरः
तत्र या सा महाभागा शङ्करस्यार्धकायिनी ॥
प्रागुक्ता तु महादेवी स्त्री सैवेह सती ह्यभूत्
हिताय जगतां देवी दक्षेणाराधिता पुरा ॥
कार्यार्थं दक्षिणं तस्याः शुक्लं वामं तथासितम्
आत्मानं विभजस्वेति प्रोक्ता देवेन शंभुना ॥
सा तथोक्ता द्विधाभूता शुक्ला कृष्णा च वै द्विजाः
तस्या नामानि वक्ष्यामि शृण्वन्तु च समाहिताः ॥
स्वाहा स्वधा महाविद्या मेधा लक्ष्मीः सरस्वती
सती दाक्षायणी विद्या इच्छाशक्तिः क्रियात्मिका ॥
अपर्णा चैकपर्णा च तथा चैवैकपाटला
उमा हैमवती चैव कल्याणी चैकमातृका ॥
ख्यातिः प्रज्ञा महाभागा लोके गौरीति विश्रुता
गणांबिका महादेवी नन्दिनी जातवेदसी ॥
एकरूपमथैतस्याः पृथग्देहविभावनात्
सावित्री वरदा पुण्या पावनी लोकविश्रुता ॥
आज्ञा आवेशनी कृष्णा तामसी सात्त्विकी शिवा
प्रकृतिर्विकृता रौद्री दुर्गा भद्रा प्रमाथिनी ॥
कालरात्रिर्महामाया रेवती भूतनायिका
द्वापरान्तविभागे च नामानीमानि सुव्रताः ॥
गौतमी कौशिकी चार्या चण्डी कात्यायनी सती
कुमारी यादवी देवी वरदा कृष्णपिङ्गला ॥
बर्हिध्वजा शूलधरा परमा ब्रह्मचारिणी
महेन्द्रोपेन्द्रभगिनी दृषद्वत्य् एकशूलधृक् ॥
अपराजिता बहुभुजा प्रगल्भा सिंहवाहिनी
शुम्भादिदैत्यहन्त्री च महामहिषमर्दिनी ॥
अमोघा विन्ध्यनिलया विक्रान्ता गणनायिका
देव्या नामविकाराणि इत्येतानि यथाक्रमम् ॥
भद्रकाल्या मयोक्तानि सम्यक्फलप्रदानि च
ये पठन्ति नरास्तेषां विद्यते न च पातकम् ॥
अरण्ये पर्वते वापि पुरे वाप्यथवा गृहे
रक्षामेतां प्रयुञ्जीत जले वाथ स्थले ऽपि वा ॥
व्याघ्रकुम्भीनचोरेभ्यो भयस्थाने विशेषतः
आपत्स्वपि च सर्वासु देव्या नामानि कीर्तयेत् ॥
आर्यकग्रहभूतैश् च पूतनामातृभिस् तथा
अभ्यर्दितानां बालानां रक्षामेतां प्रयोजयेत् ॥
महादेवीकले द्वे तु प्रज्ञा श्रीश् च प्रकीर्तिते
आभ्यां देवीसहस्राणि यैर्व्याप्तमखिलं जगत् ॥
अनया देवदेवो ऽसौ सत्या रुद्रो महेश्वरः
आतिष्ठत्सर्वलोकानां हिताय परमेश्वरः ॥
रुद्रः पशुपतिश्चासीत् पुरा दग्धं पुरत्रयम्
देवाश् च पशवः सर्वे बभूवुस्तस्य तेजसा ॥
यः पठेच्छृणुयाद्वापि आदिसर्गक्रमं शुभम्
स याति ब्रह्मणो लोकं श्रावयेद्वा द्विजोत्तमान् ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0