भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.69

1.69.1

सात्वतः सत्यसम्पन्नः प्रजज्ञे चतुरः सुतान्
भजनं भ्राजमानं च दिव्यं देवावृधं नृपम् ॥

1.69.2

अन्धकं च महाभागं वृष्णिं च यदुनन्दनम्
तेषां निसर्गांश्चतुरः शृणुध्वं विस्तरेण वै ॥

1.69.3

सृञ्जय्यां भजनाच्चैव भ्राजमानाद्विजज्ञिरे
अयुतायुः शतायुश् च बलवान् हर्षकृत्स्मृतः ॥

1.69.4

तेषां देवावृधो राजा चचार परमं तपः
पुत्रः सर्वगुणोपेतो मम भूयादिति स्मरन् ॥

1.69.5

तस्य बभ्रुरिति ख्यातः पुण्यश्लोको नृपोत्तमः
अनुवंशपुराणज्ञा गायन्तीति परिश्रुतम् ॥

1.69.6

गुणान्देवावृधस्याथ कीर्तयन्तो महात्मनः
यथैव शृणुमो दूरात् संपश्यामस्तथान्तिकात् ॥

1.69.7

बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः
पुरुषाः पञ्च षष्टिस्तु षट् सहस्राणि चाष्ट च ॥

1.69.8

ये ऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि
यज्वा दानमतिर्वीरो ब्रह्मण्यस्तु दृढव्रतः ॥

1.69.9

कीर्तिमांश् च महातेजाः सात्वतानां महारथः
तस्यान्ववाये सम्भूता भोजा वै दैवतोपमाः ॥

1.69.10

गान्धारी चैव माद्री च वृष्णिभार्ये बभूवतुः
गान्धारी जनयामास सुमित्रं मित्रनन्दनम् ॥

1.69.11

माद्री लेभे च तं पुत्रं ततः सा देवमीढुषम्
अनमित्रं शिनिं चैव तावुभौ पुरुषोत्तमौ ॥

1.69.12

अनमित्रसुतो निघ्नो निघ्नस्य द्वौ बभूवतुः
प्रसेनश् च महाभागः सत्राजिच्च सुतावुभौ ॥

1.69.13

तस्य सत्राजितः सूर्यः सखा प्राणसमो ऽभवत्
स्यमन्तको नाम मणिर् दत्तस्तस्मै विवस्वता ॥

1.69.14

पृथिव्यां सर्वरत्नानाम् असौ राजाभवन्मणिः
कदाचिन्मृगयां यातः प्रसेनेन सहैव सः ॥

1.69.15

वधं प्राप्तो ऽसहायश् च सिंहादेव सुदारुणात्
अथ पुत्रः शिनेर्जज्ञे कनिष्ठाद् वृष्णिनन्दनात् ॥

1.69.16

सत्यवाक् सत्यसम्पन्नः सत्यकस्तस्य चात्मजः
सात्यकिर्युयुधानस्तु शिनेर्नप्ता प्रतापवान् ॥

1.69.17

असंगो युयुधानस्य कुणिस्तस्य सुतो ऽभवत्
कुणेर् युगंधरः पुत्रः शैनेया इति कीर्तिताः ॥

1.69.18

माद्र्याः सुतस्य संजज्ञे सुतो वार्ष्णिर्युधाजितः
श्वफल्क इति विख्यातस् त्रैलोक्यहितकारकः ॥

1.69.19

श्वफल्कश् च महाराजो धर्मात्मा यत्र वर्तते
नास्ति व्याधिभयं तत्र नावृष्टिभयमप्युत ॥

1.69.20

श्वफल्कः काशिराजस्य सुतां भार्यामवाप सः
गान्दिनीं नाम काश्यो हि ददौ तस्मै स्वकन्यकाम् ॥

1.69.21

सा मातुरुदरस्था वै बहून्वर्षगणान्किल
वसन्ती न च संजज्ञे गर्भस्था तां पिताब्रवीत् ॥

1.69.22

जायस्व शीघ्रं भद्रं ते किमर्थं चाभितिष्ठसि
प्रोवाच चैनं गर्भस्था सा कन्या गान्दिनी तदा ॥

1.69.23

वर्षत्रयं प्रतिदिनं गामेकां ब्राह्मणाय तु
यदि दद्यास्ततः कुक्षेर् निर्गमिष्याम्यहं पितः ॥

1.69.24

तथेत्युवाच तस्या वै पिता काममपूरयत्
दाता शूरश् च यज्वा च श्रुतवानतिथिप्रियः ॥

1.69.25

तस्याः पुत्रः स्मृतो ऽक्रूरः श्वफल्काद्भूरिदक्षिणः
रत्ना कन्या च शैवस्य ह्य् अक्रूरस्तामवाप्तवान् ॥

1.69.26

अस्यामुत्पादयामास तनयांस्तान्निबोधत
उपमन्युस् तथा माङ्गुर् वृतस्तु जनमेजयः ॥

1.69.27

गिरिरक्षस्तथोपेक्षः शत्रुघ्नो यो ऽरिमर्दनः
धर्मभृद् वृष्टधर्मा च गोधनो ऽथ वरस् तथा ॥

1.69.28

आवाहप्रतिवाहौ च सुधारा च वराङ्गना
अक्रूरस्योग्रसेन्यां तु पुत्रौ द्वौ कुलनन्दनौ ॥

1.69.29

देववानुपदेवश् च जज्ञाते देवसंमतौ
सुमित्रस्य सुतो जज्ञे चित्रकश् च महायशाः ॥

1.69.30

चित्रकस्याभवन्पुत्रा विपृथुः पृथुरेव च
अश्वग्रीवः सुबाहुश् च सुधासूकगवेक्षणौ ॥

1.69.31

अरिष्टनेमिरश्वश् च धर्मो धर्मभृदेव च
सुभूमिर्बहुभूमिश् च श्रविष्ठाश्रवणे स्त्रियौ ॥

1.69.32

अन्धकात्काश्यदुहिता लेभे च चतुरः सुतान्
कुकुरं भजमानं च शुचिं कम्बलबर्हिषम् ॥

1.69.33

कुकुरस्य सुतो वृष्णिर् वृष्णेः शूरस्ततो ऽभवत्
कपोतरोमातिबलस् तस्य पुत्रो विलोमकः ॥

1.69.34

तस्यासीत् तुम्बुरुसखो विद्वान्पुत्रो नलः किल
ख्यायते स सुनाम्ना तु चन्दनानकदुन्दुभिः ॥

1.69.35

तस्मादप्यभिजित्पुत्र उत्पन्नो ऽस्य पुनर्वसुः
अश्वमेधं स पुत्रार्थम् आजहार नरोत्तमः ॥

1.69.36

तस्य मध्ये ऽतिरात्रस्य सदोमध्यात्समुत्थितः
ततस्तु विद्वान् सर्वज्ञो दाता यज्वा पुनर्वसुः ॥

1.69.37

तस्यापि पुत्रमिथुनं बभूवाभिजितः किल
आहुकश्चाहुकी चैव ख्यातौ कीर्तिमतां वरौ ॥

1.69.38

आहुकात् काश्यदुहितुर् द्वौ पुत्रौ संबभूवतुः
देवकश्चोग्रसेनश् च देवगर्भसमावुभौ ॥

1.69.39

देवकस्य सुता राज्ञो जज्ञिरे त्रिदशोपमाः
देववान् उपदेवश् च सुदेवो देवरक्षितः ॥

1.69.40

तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ
वृषदेवोपदेवा च तथान्या देवरक्षिता ॥

1.69.41

श्रीदेवा शान्तिदेवा च सहदेवा तथापरा
देवकी चापि तासां च वरिष्ठाभूत्सुमध्यमा ॥

1.69.42

नवोग्रसेनस्य सुतास् तेषां कंसस्तु पूर्वजः
तेषां पुत्राश्च पौत्राश् च शतशो ऽथ सहस्रशः ॥

1.69.43

देवकस्य सुता पत्नी वसुदेवस्य धीमतः
बभूव वन्द्या पूज्या च देवैरपि पतिव्रता ॥

1.69.44

रोहिणी च महाभागा पत्नी चानकदुन्दुभेः
पौरवी बाह्लिकसुता संपूज्यासीत्सुरैरपि ॥

1.69.45

असूत रोहिणी रामं बलश्रेष्ठं हलायुधम्
आश्रितं कंसभीत्या च स्वात्मानं शान्ततेजसम् ॥

1.69.46

जाते रामे ऽथ निहते षड्गर्भे चातिदक्षिणे
वसुदेवो हरिं धीमान् देवक्यामुदपादयत् ॥

1.69.47

स एव परमात्मासौ देवदेवो जनार्दनः
हलायुधश् च भगवान् अनन्तो रजतप्रभः ॥

1.69.48

भृगुशापछलेनैव मानयन्मानुषीं तनुम्
बभूव तस्यां देवक्यां वासुदेवो जनार्दन ॥

1.69.49

उमादेहसमुद्भूता योगनिद्रा च कौशिकी
नियोगाद्देवदेवस्य यशोदातनया ह्यभूत् ॥

1.69.50

सा चैव प्रकृतिः साक्षात् सर्वदेवनमस्कृता
पुरुषो भगवान्कृष्णो धर्ममोक्षफलप्रदः ॥

1.69.51

तां कन्यां जगृहे रक्षन् कंसात्स्वस्यात्मजं तदा
चतुर्भुजं विशालाक्षं श्रीवत्सकृतलाञ्छनम् ॥

1.69.52

शङ्खचक्रगदापद्मं धारयन्तं जनार्दनम्
यशोदायै प्रदत्त्वा तु वसुदेवश् च बुद्धिमान् ॥

1.69.53

दत्त्वैनं नन्दगोपस्य रक्षतामिति चाब्रवीत्
रक्षकं जगतां विष्णुं स्वेच्छया धृतविग्रहम् ॥

1.69.54

प्रसादाच्चैव देवस्य शिवस्यामिततेजसः
रामेण सार्धं तं दत्त्वा वरदं परमेश्वरम् ॥

1.69.55

भूभारनिग्रहार्थं च ह्य् अवतीर्णं जगद्गुरुम्
अतो वै सर्वकल्याणं यादवानां भविष्यति ॥

1.69.56

अयं स गर्भो देवक्या यो नः क्लेश्यान्हरिष्यति
उग्रसेनात्मजायाथ कंसायानकदुन्दुभिः ॥

1.69.57

निवेदयामास तदा जातां कन्यां सुलक्षणाम्
अस्यास्तवाष्टमो गर्भो देवक्याः कंस सुव्रत ॥

1.69.58

मृत्युर् एव न संदेह इति वाणी पुरातनी
ततस्तां हन्तुमारेभे कंसः सोल्लङ्घ्य चांबरम् ॥

1.69.59

उवाचाष्टभुजा देवी मेघगंभीरया गिरा
रक्षस्व तत्स्वकं देहम् आयातो मृत्युरेव ते ॥

1.69.60

रक्षमाणस्य देहस्य मायावी कंसरूपिणः
किं कृतं दुष्कृतं मूर्ख जातः खलु तवान्तकृत् ॥

1.69.61

देवक्याः स भयात्कंसो जघानैवाष्टमं त्विति
स्मरन्ति विहितो मृत्युर् देवक्यास् तनयो ऽष्टमः ॥

1.69.62

यस्तत्प्रतिकृतौ यत्नो भोजस्यासीद्वृथा हरेः
प्रभावान्मुनिशार्दूलास् तया चैव जडीकृतः ॥

1.69.63

कंसो ऽपि निहतस्तेन कृष्णेनाक्लिष्टकर्मणा
निहता बहवश्चान्ये देवब्राह्मणघातिनः ॥

1.69.64

तस्य कृष्णस्य तनयाः प्रद्युम्नप्रमुखास् तथा
बहवः परिसंख्याताः सर्वे युद्धविशारदाः ॥

1.69.65

कृष्णपुत्राः समाख्याताः कृष्णेन सदृशाः सुताः
पुत्रेष्वेतेषु सर्वेषु चारुदेष्णादयो हरेः ॥

1.69.66

विशिष्टा बलवन्तश् च रौक्मिणेयारिसूदनाः
षोडशस्त्रीसहस्राणि शतमेकं तथाधिकम् ॥

1.69.67

कृष्णस्य तासु सर्वासु प्रिया ज्येष्ठा च रुक्मिणी
तया द्वादशवर्षाणि कृष्णेनाक्लिष्टकर्मणा ॥

1.69.68

उष्यता वायुभक्षेण पुत्रार्थं पूजितो हरः
चारुदेष्णः सुचारुश् च चारुवेषो यशोधरः ॥

1.69.69

चारुश्रवाश्चारुयशाः प्रद्युम्नः साम्ब एव च
एते लब्धास्तु कृष्णेन शूलपाणिप्रसादतः ॥

1.69.70

तान् दृष्ट्वा तनयान्वीरान् रौक्मिणेयांश् च रुक्मिणीम्
जाम्बवत्यब्रवीत्कृष्णं भार्या कृष्णस्य धीमतः ॥

1.69.71

मम त्वं पुण्डरीकाक्ष विशिष्टं गुणवत्तरम्
सुरेशसंमितं पुत्रं प्रसन्नो दातुमर्हसि ॥

1.69.72

जाम्बवत्या वचः श्रुत्वा जगन्नाथस्ततो हरिः
तपस्तप्तुं समारेभे तपोनिधिरनिन्दितः ॥

1.69.73

सो ऽथ नारायणः कृष्णः शङ्खचक्रगदाधरः
व्याघ्रपादस्य च मुनेर् गत्वा चैवाश्रमोत्तमम् ॥

1.69.74

ऋषिं दृष्ट्वा त्वङ्गिरसं प्रणिपत्य जनार्दनः
दिव्यं पाशुपतं योगं लब्धवांस्तस्य चाज्ञया ॥

1.69.75

प्रलुप्तश्मश्रुकेशश् च घृताक्तो मुञ्जमेखली
दीक्षितो भगवान्कृष्णस् तताप च परंतपः ॥

1.69.76

ऊर्ध्वबाहुर् निरालंबः पादाङ्गुष्ठाग्रधिष्ठितः
फलाम्बनिलभोजी च ऋतुत्रयम् अधोक्षजः ॥

1.69.77

तपसा तस्य संतुष्टो ददौ रुद्रो बहून् वरान्
साम्बं जांबवतीपुत्रं कृष्णाय च महात्मने ॥

1.69.78

तथा जांबवती चैव सांबं भार्या हरेः सुतम्
प्रहर्षमतुलं लेभे लब्ध्वादित्यं यथादितिः ॥

1.69.79

बाणस्य च तदा तेन छेदितं मुनिपुङ्गवाः
भुजानां चैव साहस्रं शापाद्रुद्रस्य धीमतः ॥

1.69.80

अथ दैत्यवधं चक्रे हलायुधसहायवान्
तथा दुष्टक्षितीशानां लीलयैव रणाजिरे ॥

1.69.81

स हत्वा देवसम्भूतं नरकं दैत्यपुङ्गवम्
ब्राह्मणस्योर्ध्वचक्रस्य वरदानान्महात्मनः ॥

1.69.82

स्वोपभोग्यानि कन्यानां षोडशातुलविक्रमः
शताधिकानि जग्राह सहस्राणि महाबलः ॥

1.69.83

शापव्याजेन विप्राणाम् उपसंहृतवान् कुलम्
संहृत्य तत्कुलं चैव प्रभासे ऽतिष्ठदच्युतः ॥

1.69.84

तदा तस्यैव तु गतं वर्षाणामधिकं शतम्
कृष्णस्य द्वारकायां वै जराक्लेशापहारिणः ॥

1.69.85

विश्वामित्रस्य कण्वस्य नारदस्य च धीमतः
शापं पिण्डारके ऽरक्षद् वचो दुर्वाससस्तदा ॥

1.69.86

त्यक्त्वा च मानुषं रूपं जरकास्त्रच्छलेन तु
अनुगृह्य च कृष्णो ऽपि लुब्धकं प्रययौ दिवम् ॥

1.69.87

अष्टावक्रस्य शापेन भार्याः कृष्णस्य धीमतः
चौरैश्चापहृताः सर्वास् तस्य मायाबलेन च ॥

1.69.88

बलभद्रो ऽपि संत्यज्य नागो भूत्वा जगाम च
महिष्यस्तस्य कृष्णस्य रुक्मिणीप्रमुखाः शुभाः ॥

1.69.89

सहाग्निं विविशुः सर्वाः कृष्णेनाक्लिष्टकर्मणा
रेवती च तथा देवी बलभद्रेण धीमता ॥

1.69.90

प्रविष्टा पावकं विप्राः सा च भर्तृपथं गता
प्रेतकार्यं हरेः कृत्वा पार्थः परमवीर्यवान् ॥

1.69.91

रामस्य च तथान्येषां वृष्णीनामपि सुव्रतः
कन्दमूलफलैस्तस्य बलिकार्यं चकार सः ॥

1.69.92

द्रव्याभावात् स्वयं पार्थो भ्रातृभिश् च दिवं गतः
एवं संक्षेपतः प्रोक्तः कृष्णस्याक्लिष्टकर्मणः ॥

1.69.93

प्रभावो विलयश्चैव स्वेच्छयैव महात्मनः
इत्येतत्सोमवंशानां नृपाणां चरितं द्विजाः ॥

1.69.94

यः पठेच्छृणुयाद्वापि ब्राह्मणान् श्रावयेदपि
स याति वैष्णवं लोकं नात्र कार्या विचारणा ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc