भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.71

1.71.1

समासाद् विस्तराच्चैव सर्गः प्रोक्तस्त्वया शुभः
कथं पशुपतिश्चासीत् पुरं दग्धुं महेश्वरः ॥

1.71.2

कथं च पशवश्चासन् देवाः सब्रह्मकाः प्रभोः
मयस्य तपसा पूर्वं सुदुर्गं निर्मितं पुरम् ॥

1.71.3

हैमं च राजतं दिव्यम् अयस्मयम् अनुत्तमम्
सुदुर्गं देवदेवेन दग्धमित्येव नः श्रुतम् ॥

1.71.4

कथं ददाह भगवान् भगनेत्रनिपातनः
एकेनेषुनिपातेन दिव्येनापि तदा कथम् ॥

1.71.5

विष्णुनोत्पादितैर्भूतैर् न दग्धं तत्पुरत्रयम्
पुरस्य संभवः सर्वो वरलाभः पुरा श्रुतः ॥

1.71.6

इदानीं दहनं सर्वं वक्तुमर्हसि सुव्रत
तेषां तद्वचनं श्रुत्वा सूतः पौराणिकोत्तमः ॥

1.71.7

यथा श्रुतं तथा प्राह व्यासाद् विश्वार्थसूचकात्
त्रैलोक्यस्यास्य शापाद्धि मनोवाक्कायसंभवात् ॥

1.71.8

निहते तारके दैत्ये तारपुत्रे सबान्धवे
स्कन्देन वा प्रयत्नेन तस्य पुत्रा महाबलाः ॥

1.71.9

विद्युन्माली तारकाक्षः कमलाक्षश् च वीर्यवान्
तपस्तेपुर्महात्मानो महाबलपराक्रमाः ॥

1.71.10

तप उग्रं समास्थाय नियमे परमे स्थिताः
तपसा कर्शयामासुर् देहान् स्वान्दानवोत्तमाः ॥

1.71.11

तेषां पितामहः प्रीतो वरदः प्रददौ वरम्
अवध्यत्वं च सर्वेषां सर्वभूतेषु सर्वदा ॥

1.71.12

सहिता वरयामासुः सर्वलोकपितामहम्
तान् अब्रवीत् तदा देवो लोकानां प्रभुर् अव्ययः ॥

1.71.13

नास्ति सर्वामरत्वं वै निवर्तध्वम् अतो ऽसुराः
अन्यं वरं वृणीध्वं वै यादृशं सम्प्ररोचते ॥

1.71.14

ततस्ते सहिता दैत्याः सम्प्रधार्य परस्परम्
ब्रह्माणमब्रुवन्दैत्याः प्रणिपत्य जगद्गुरुम् ॥

1.71.15

वयं पुराणि त्रीण्येव समास्थाय महीमिमाम्
विचरिष्याम लोकेश त्वत्प्रसादाज्जगद्गुरो ॥

1.71.16

तथा वर्षसहस्रेषु समेष्यामः परस्परम्
एकीभावं गमिष्यन्ति पुराण्येतानि चानघ ॥

1.71.17

समागतानि चैतानि यो हन्याद्भगवंस्तदा
एकेनैवेषुणा देवः स नो मृत्युर्भविष्यति ॥

1.71.18

एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम्
ततो मयः स्वतपसा चक्रे वीरः पुराण्यथ ॥

1.71.19

काञ्चनं दिवि तत्रासीद् अन्तरिक्षे च राजतम्
आयसं चाभवद् भूमौ पुरं तेषां महात्मनाम् ॥

1.71.20

एकैकं योजनशतं विस्तारायामतः समम्
काञ्चनं तारकाक्षस्य कमलाक्षस्य राजतम् ॥

1.71.21

विद्युन्मालेश्चायसं वै त्रिविधं दुर्गमुत्तमम्
मयश् च बलवांस्तत्र दैत्यदानवपूजितः ॥

1.71.22

हैरण्ये राजते चैव कृष्णायसमये तथा
आलयं चात्मनः कृत्वा तत्रास्ते बलवांस्तदा ॥

1.71.23

एवं बभूवुर्दैत्यानाम् अतिदुर्गाणि सुव्रताः
पुराणि त्रीणि विप्रेन्द्रास् त्रैलोक्यमिव चापरम् ॥

1.71.24

पुरत्रये तदा जाते सर्वे दैत्या जगत्त्रये
पुरत्रयं प्रविश्यैव बभूवुस्ते बलाधिकाः ॥

1.71.25

कल्पद्रुमसमाकीर्णं गजवाजिसमाकुलम्
नानाप्रसादसंकीर्णं मणिजालैः समावृतम् ॥

1.71.26

सूर्यमण्डलसंकाशैर् विमानैर्विश्वतोमुखैः
पद्मरागमयैः शुभ्रैः शोभितं चन्द्रसंनिभैः ॥

1.71.27

प्रासादैर्गोपुरैर्दिव्यैः कैलासशिखरोपमैः
शोभितं त्रिपुरं तेषां पृथक्पृथगनुत्तमैः ॥

1.71.28

दिव्यस्त्रीभिः सुसम्पूर्णं गन्धर्वैः सिद्धचारणैः
रुद्रालयैः प्रतिगृहं साग्निहोत्रैर् द्विजोत्तमाः ॥

1.71.29

वापीकूपतडागैश् च दीर्घिकाभिस्तु सर्वतः
मत्तमातङ्गयूथैश् च तुरङ्गैश् च सुशोभनैः ॥

1.71.30

रथैश् च विविधाकारैर् विचित्रैर्विश्वतोमुखैः
सभाप्रपादिभिश् चैव क्रीडास्थानैः पृथक् पृथक् ॥

1.71.31

वेदाध्ययनशालाभिर् विविधाभिः समन्ततः
अधृष्यं मनसाप्यन्यैर् मयस्यैव च मायया ॥

1.71.32

पतिव्रताभिः सर्वत्र सेवितं मुनिपुङ्गवाः
कृत्वापि सुमहत् पापम् अपापैः शङ्करार्चनात् ॥

1.71.33

दैत्येश्वरैर्महाभागैः सदारैः ससुतैर्द्विजाः
श्रौतस्मार्तार्थधर्मज्ञैस् तद्धर्मनिरतैः सदा ॥

1.71.34

महादेवेतरं त्यक्त्वा देवं तस्यार्चने स्थितैः
व्यूढोरस्कैर् वृषस्कन्धैः सर्वायुधधरैः सदा ॥

1.71.35

सर्वदा क्षुधितैश्चैव दावाग्निसदृशेक्षणैः
प्रशान्तैः कुपितैश्चैव कुब्जैर् वामनकैस् तथा ॥

1.71.36

नीलोत्पलदलप्रख्यैर् नीलकुञ्चितमूर्धजैः
नीलाद्रिमेरुसंकाशैर् नीरदोपमनिःस्वनैः
मयेन रक्षितैः सर्वैः शिक्षितैर्युद्धलालसैः ॥

1.71.37

अथ समररतैः सदा समन्ताच् छिवपदपूजनया सुलब्धवीर्यैः
रविमरुदमरेन्द्रसंनिकाशैः सुरमथनैः सुदृढैः सुसेवितं तत् ॥

1.71.38

सेन्द्रा देवा द्विजश्रेष्ठा द्रुमा दावाग्निना यथा
पुरत्रयाग्निना दग्धा ह्य् अभवन् दैत्यवैभवात् ॥

1.71.39

अथैवं ते तदा दग्धा देवा देवेश्वरं हरिम्
अभिवन्द्य तदा प्राहुस् तमप्रतिमवर्चसम् ॥

1.71.40

सो ऽपि नारायणः श्रीमान् चिन्तयामास चेतसा
किं कार्यं देवकार्येषु भगवानिति स प्रभुः ॥

1.71.41

तदा सस्मार वै यज्ञं यज्ञमूर्तिर्जनार्दनः
यज्वा यज्ञभुगीशानो यज्वनां फलदः प्रभुः ॥

1.71.42

ततो यज्ञः स्मृतस्तेन देवकार्यार्थसिद्धये
देवं ते पुरुषं चैव प्रणेमुस्तुष्टुवुस्तदा ॥

1.71.43

भगवानपि तं दृष्ट्वा यज्ञं प्राह सनातनम्
सनातनस्तदा सेन्द्रान् देवान् आलोक्य चाच्युतः ॥

1.71.44

अनेनोपसदा देवा यजध्वं परमेश्वरम्
पुरत्रयविनाशाय जगत्त्रयविभूतये ॥

1.71.45

अथ तस्य वचः श्रुत्वा देवदेवस्य धीमतः
सिंहनादं महत्कृत्वा यज्ञेशं तुष्टुवुः सुराः ॥

1.71.46

ततः संचिन्त्य भगवान् स्वयमेव जनार्दनः
पुनः प्राह स सर्वांस्तांस् त्रिदशांस्त्रिदशेश्वरः ॥

1.71.47

हत्वा दग्ध्वा च भूतानि भुक्त्वा चान्यायतो ऽपि वा
यजेद्यदि महादेवम् अपापो नात्र संशयः ॥

1.71.48

अपापा नैव हन्तव्याः पापा एव न संशयः
हन्तव्याः सर्वयत्नेन कथं वध्याः सुरोत्तमाः ॥

1.71.49

असुरा दुर्मदाः पापा अपि देवैर्महाबलैः
तस्मान्न वध्या रुद्रस्य प्रभावात् परमेष्ठिनः ॥

1.71.50

को ऽहं ब्रह्माथवा देवा दैत्या देवारिसूदनाः
मुनयश् च महात्मानः प्रसादेन विना प्रभोः ॥

1.71.51

यः सप्तविंशको नित्यः परात्परतरः प्रभुः
विश्वामरेश्वरो वन्द्यो विश्वाधारो महेश्वरः ॥

1.71.52

स एव सर्वदेवेशः सर्वेषामपि शङ्करः
लीलया देवदैत्येन्द्र विभागमकरोद्धरः ॥

1.71.53

तस्यांशम् एकं सम्पूज्य देवा देवत्वम् आगताः
ब्रह्मा ब्रह्मत्वम् आपन्नो ह्य् अहं विष्णुत्वमेव च ॥

1.71.54

तम् अपूज्य जगत्यस्मिन् कः पुमान् सिद्धिमिच्छति
तस्मात्तेनैव हन्तव्या लिङ्गार्चनविधेर् बलात् ॥

1.71.55

धर्मनिष्ठाश् च ते सर्वे श्रौतस्मार्तविधौ स्थिताः
तथापि यजमानेन रौद्रेणोपसदा प्रभुम्
रुद्रमिष्ट्वा यथान्यायं जेष्यामो दैत्यसत्तमान् ॥

1.71.56

सतारकाक्षेण मयेन गुप्तं स्वस्थं च गुप्तं स्फटिकाभमेकम्
को नाम हन्तुं त्रिपुरं समर्थो मुक्त्वा त्रिनेत्रं भगवन्तमेकम् ॥

1.71.57

एवमुक्त्वा हरिश्चेष्ट्वा यज्ञेनोपसदा प्रभुम्
उपविष्टो ददर्शाथ भूतसंघान्सहस्रशः ॥

1.71.58

शूलशक्तिगदाहस्तान् टङ्कोपलशिलायुधान्
नानाप्रहरणोपेतान् नानावेषधरांस्तदा ॥

1.71.59

कालाग्निरुद्रसंकाशान् कालरुद्रोपमांस्तदा
प्राह देवो हरिः साक्षात् प्रणिपत्य स्थितान् प्रभुः ॥

1.71.60

दग्ध्वा भित्त्वा च भुक्त्वा च गत्वा दैत्यपुरत्रयम्
पुनर्यथागतं वीरा गन्तुमर्हथ भूतये ॥

1.71.61

ततः प्रणम्य देवेशं भूतसंघाः पुरत्रयम्
प्रविश्य नष्टास्ते सर्वे शलभा इव पावकम् ॥

1.71.62

ततस्तु नष्टास्ते सर्वे भूता देवेश्वराज्ञया
ननृतुर् मुमुदुश् चैव जगुर् दैत्याः सहस्रशः ॥

1.71.63

तुष्टुवुर्देवदेवेशं परमात्मानमीश्वरम्
ततः पराजिता देवा ध्वस्तवीर्याः क्षणेन तु ॥

1.71.64

सेन्द्राः संगम्य देवेशम् उपेन्द्रं धिष्ठिता भयात्
तान्दृष्ट्वा चिन्तयामास भगवान्पुरुषोत्तमः ॥

1.71.65

किं कृत्यमिति संतप्तः संतप्तान्सेन्द्रकान्क्षणम्
कथं तु तेषां दैत्यानां बलं हत्वा प्रयत्नतः ॥

1.71.66

देवकार्यं करिष्यामि प्रसादात्परमेष्ठिनः
पापं विचारतो नास्ति धर्मिष्ठानां न संशयः ॥

1.71.67

तस्माद्दैत्या न वध्यास्ते भूतैश्चोपसदोद्भवैः
पापं नुदति धर्मेण धर्मे सर्वं प्रतिष्ठितम् ॥

1.71.68

धर्मादैश्वर्यमित्येषा श्रुतिरेषा सनातनी
दैत्याश्चैते हि धर्मिष्ठाः सर्वे त्रिपुरवासिनः ॥

1.71.69

तस्मादवध्यतां प्राप्ता नान्यथा द्विजपुङ्गवाः
कृत्वापि सुमहत्पापं रुद्रमभ्यर्चयन्ति ये ॥

1.71.70

मुच्यन्ते पातकैः सर्वैः पद्मपत्रमिवांभसा
पूजया भोगसंपत्तिर् अवश्यं जायते द्विजाः ॥

1.71.71

तस्मात्ते भोगिनो दैत्या लिङ्गार्चनपरायणाः
तस्मात्कृत्वा धर्मविघ्नम् अहं देवाः स्वमायया ॥

1.71.72

दैत्यानां देवकार्यार्थं जेष्ये ऽहं त्रिपुरं क्षणात्
विचार्यैवं ततस्तेषां भगवान्पुरुषोत्तमः
कर्तुं व्यवसितश्चाभूद् धर्मविघ्नं सुरारिणाम् ॥

1.71.73

असृजच्च महातेजाः पुरुषं चात्मसंभवम्
मायी मायामयं तेषां धर्मविघ्नार्थमच्युतः ॥

1.71.74

शास्त्रं च शास्ता सर्वेषाम् अकरोत्कामरूपधृक्
सर्वसंमोहनं मायी दृष्टप्रत्ययसंयुतम् ॥

1.71.75

एतत्स्वाङ्गभवायैव पुरुषायोपदिश्य तु
मायी मायामयं शास्त्रं ग्रन्थषोडशलक्षकम् ॥

1.71.76

श्रौतस्मार्तविरुद्धं च वर्णाश्रमविवर्जितम्
इहैव स्वर्गनरकं प्रत्ययं नान्यथा पुनः ॥

1.71.77

तच्छास्त्रमुपदिश्यैव पुरुषायाच्युतः स्वयम्
पुरत्रयविनाशाय प्राहैनं पुरुषं हरिः ॥

1.71.78

गन्तुमर्हसि नाशाय भो तूर्णं पुरवासिनाम्
धर्मास् तथा प्रणश्यन्तु श्रौतस्मार्ता न संशयः ॥

1.71.79

ततः प्रणम्य तं मायी मायाशास्त्रविशारदः
प्रविश्य तत्पुरं तूर्णं मुनिर्मायां तदाकरोत् ॥

1.71.80

मायया तस्य ते दैत्याः पुरत्रयनिवासिनः
श्रौतं स्मार्तं च संत्यज्य तस्य शिष्यास्तदाभवन् ॥

1.71.81

तत्यजुश् च महादेवं शङ्करं परमेश्वरम्
नारदो ऽपि तदा मायी नियोगान्मायिनः प्रभोः ॥

1.71.82

प्रविश्य तत्पुरं तेन मायिना सह दीक्षितः
मुनिः शिष्यैः प्रशिष्यैश् च संवृतः सर्वतः स्वयम् ॥

1.71.83

स्त्रीधर्मं चाकरोत्स्त्रीणां दुश्चारफलसिद्धिदम्
चक्रुस्ताः सर्वदा लब्ध्वा सद्य एव फलं स्त्रियः ॥

1.71.84

जनासक्ता बभूवुस्ता विनिन्द्य पतिदेवताः
अद्यापि गौरवात्तस्य नारदस्य कलौ मुनेः ॥

1.71.85

नार्यश्चरन्ति संत्यज्य भर्तॄन् स्वैरं वृथाधमाः
स्त्रीणां माता पिता बन्धुः सखा मित्रं च बान्धवः ॥

1.71.86

भर्ता एव न संदेहस् तथाप्य् आसहमायया
कृत्वापि सुमहत्पापं या भर्तुः प्रेमसंयुता ॥

1.71.87

प्राप्नुयात् परमं स्वर्गं नरकं च विपर्ययात्
पुरैका मुनिशार्दूलाः सर्वधर्मान् सदा पतिम् ॥

1.71.88

संत्यज्यापूजयन्साध्व्यो देवानन्याञ्जगद्गुरून्
ताः स्वर्गलोकमासाद्य मोदन्ते विगतज्वराः ॥

1.71.89

नरकं च जगामान्या तस्माद्भर्ता परा गतिः
तथापि भर्तॄन् स्वांस् त्यक्त्वा बभूवुः स्वैरवृत्तयः ॥

1.71.90

मायया देवदेवस्य विष्णोस्तस्याज्ञया प्रभोः
अलक्ष्मीश् च स्वयं तस्य नियोगात्त्रिपुरं गता ॥

1.71.91

या लक्ष्मीस्तपसा तेषां लब्धा देवेश्वरादजात्
बहिर्गता परित्यज्य नियोगाद्ब्रह्मणः प्रभोः ॥

1.71.92

बुद्धिमोहं तथाभूतं विष्णुमायाविनिर्मितम्
तेषां दत्त्वा क्षणं देवस् तासां मायी च नारदः ॥

1.71.93

सुखासीनौ ह्यसंभ्रान्तौ धर्मविघ्नार्थमव्ययौ
एवं नष्टे तदा धर्मे श्रौतस्मार्ते सुशोभने ॥

1.71.94

पाषण्डे ख्यापिते तेन विष्णुना विश्वयोनिना
त्यक्ते महेश्वरे दैत्यैस् त्यक्ते लिङ्गार्चने तथा ॥

1.71.95

स्त्रीधर्मे निखिले नष्टे दुराचारे व्यवस्थिते
कृतार्थ इव देवेशो देवैः सार्धमुमापतिम् ॥

1.71.96

तपसा प्राप्य सर्वज्ञं तुष्टाव पुरुषोत्तमः
महेश्वराय देवाय नमस्ते परमात्मने ॥

1.71.97

नारायणाय शर्वाय ब्रह्मणे ब्रह्मरूपिणे
शाश्वताय ह्यनन्ताय अव्यक्ताय च ते नमः ॥

1.71.98

एवं स्तुत्वा महादेवं दण्डवत्प्रणिपत्य च
जजाप रुद्रं भगवान् कोटिवारं जले स्थितः ॥

1.71.99

देवाश् च सर्वे ते देवं तुष्टुवुः परमेश्वरम्
सेन्द्राः ससाध्याः सयमाः सरुद्राः समरुद्गणाः ॥

1.71.100

नमः सर्वात्मने तुभ्यं शङ्करायार्तिहारिणे
रुद्राय नीलरुद्राय कद्रुद्राय प्रचेतसे ॥

1.71.101

गतिर्नः सर्वदास्माभिर् वन्द्यो देवारिमर्दनः
त्वमादिस्त्वमनन्तश् च अनन्तश्चाक्षयः प्रभुः ॥

1.71.102

प्रकृतिः पुरुषः साक्षात् स्रष्टा हर्ता जगद्गुरो
त्राता नेता जगत्यस्मिन् द्विजानां द्विजवत्सल ॥

1.71.103

वरदो वाङ्मयो वाच्यो वाच्यवाचकवर्जितः
याज्यो मुक्त्यर्थमीशानो योगिभिर् योगविभ्रमैः ॥

1.71.104

हृत्पुण्डरीकसुषिरे योगिनां संस्थितः सदा
वदन्ति सूरयः सन्तं परं ब्रह्मस्वरूपिणम् ॥

1.71.105

भवन्तं तत्त्वम् इत्यार्यास् तेजोराशिं परात्परम्
परमात्मानमित्याहुर् अस्मिञ्जगति तद्विभो ॥

1.71.106

दृष्टं श्रुतं स्थितं सर्वं जायमानं जगद्गुरो
अणोरल्पतरं प्राहुर् महतो ऽपि महत्तरम् ॥

1.71.107

सर्वतः पाणिपादं त्वां सर्वतो ऽक्षिशिरोमुखम्
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठसि ॥

1.71.108

महादेवमनिर्देश्यं सर्वज्ञं त्वामनामयम्
विश्वरूपं विरूपाक्षं सदाशिवम् अनामयम् ॥

1.71.109

कोटिभास्करसंकाशं कोटिशीतांशुसन्निभम्
कोटिकालाग्निसंकाशं षड्विंशकमनीश्वरम् ॥

1.71.110

प्रवर्तकं जगत्यस्मिन् प्रकृतेः प्रपितामहम्
वदन्ति वरदं देवं सर्वावासं स्वयंभुवम् ॥

1.71.111

श्रुतयः श्रुतिसारं त्वां श्रुतिसारविदो जनाः ॥

1.71.112

अदृष्टमस्माभिर् अनेकमूर्ते विना कृतं यद्भवताथ लोके
त्वमेव दैत्यासुरभूतसंघान् देवान् नरान् स्थावरजङ्गमांश् च ॥

1.71.113

पाहि नान्या गतिः शंभो विनिहत्यासुरोत्तमान्
मायया मोहिताः सर्वे भवतः परमेश्वर ॥

1.71.114

यथा तरङ्गा लहरीसमूहा युध्यन्ति चान्योन्यमपांनिधौ च
जलाश्रयादेव जडीकृताश् च सुरासुरास्तद्वदजस्य सर्वम् ॥

1.71.115

य इदं प्रातरुत्थाय शुचिर्भूत्वा जपेन्नरः
शृणुयाद्वा स्तवं पुण्यं सर्वकामम् अवाप्नुयात् ॥

1.71.116

स्तुतस्त्वेवं सुरैर्विष्णोर् जपेन च महेश्वरः
सोमः सोमाम् अथालिङ्ग्य नन्दिदत्तकरः स्मयन् ॥

1.71.117

प्राह गंभीरया वाचा देवानालोक्य शङ्करः
ज्ञातं मयेदमधुना देवकार्यं सुरेश्वराः ॥

1.71.118

विष्णोर् मायाबलं चैव नारदस्य च धीमतः
तेषामधर्मनिष्ठानां दैत्यानां देवसत्तमाः ॥

1.71.119

पुरत्रयविनाशं च करिष्ये ऽहं सुरोत्तमाः
अथ सब्रह्मका देवाः सेन्द्रोपेन्द्राः समागताः ॥

1.71.120

श्रुत्वा प्रभोस्तदा वाक्यं प्रणेमुस्तुष्टुवुश् च ते
अप्येतदन्तरे देवी देवमालोक्य विस्मिता ॥

1.71.121

लीलांबुजेन चाहत्य कलमाह वृषध्वजम्
क्रीडमानं विभो पश्य षण्मुखं रविसन्निभम् ॥

1.71.122

पुत्रं पुत्रवतां श्रेष्ठं भूषितं भूषणैः शुभैः
मुकुटैः कटकैश्चैव कुण्डलैर्वलयैः शुभैः ॥

1.71.123

नूपुरैश्छन्नवारैश् च तथा ह्य् उदरबन्धनैः
किङ्किणीभिर् अनेकाभिर् हैमैरश्वत्थपत्रकैः ॥

1.71.124

कल्पकद्रुमजैः पुष्पैः शोभितैरलकैः शुभैः
हारैर् वारिजरागादि मणिचित्रैस् तथाङ्गदैः ॥

1.71.125

मुक्ताफलमयैर्हारैः पूर्णचन्द्रसमप्रभैः
तिलकैश् च महादेव पश्य पुत्रं सुशोभनम् ॥

1.71.126

अङ्कितं कुङ्कुमाद्यैश् च वृत्तं भसितनिर्मितम्
वक्त्रवृन्दं च पश्येश वृन्दं कामलकं यथा ॥

1.71.127

नेत्राणि च विभो पश्य शुभानि त्वं शुभानि च
अञ्जनानि विचित्राणि मङ्गलार्थं च मातृभिः ॥

1.71.128

गङ्गादिभिः कृत्तिकाद्यैः स्वाहया च विशेषतः
इत्येवं लोकमातुश् च वाग्भिः संबोधितः शिवः ॥

1.71.129

न ययौ तृप्तिमीशानः पिबन्स्कन्दाननामृतम्
न सस्मार च तान्देवान् दैत्यशस्त्रनिपीडितान् ॥

1.71.130

स्कन्दमालिङ्ग्य चाघ्राय नृत्य पुत्रेत्युवाच ह
सो ऽपि लीलालसो बालो ननर्तार्तिहरः प्रभुः ॥

1.71.131

सहैव ननृतुश्चान्ये सह तेन गणेश्वराः
त्रैलोक्यमखिलं तत्र ननर्तेशाज्ञया क्षणम् ॥

1.71.132

नागाश् च ननृतुः सर्वे देवाः सेन्द्रपुरोगमाः
तुष्टुवुर्गणपाः स्कन्दं मुमोदांबा च मातरः ॥

1.71.133

ससृजुः पुष्पवर्षाणि जगुर्गन्धर्वकिन्नराः
नृत्यामृतं तदा पीत्वा पार्वतीपरमेश्वरौ
अवापतुस् तदा तृप्तिं नन्दिना च गणेश्वराः ॥

1.71.134

ततः स नन्दी सह षण्मुखेन तथा च सार्धं गिरिराजपुत्र्या
विवेश दिव्यं भवनं भवो ऽपि यथाम्बुदो ऽन्याम्बुदम् अम्बुदाभः ॥

1.71.135

द्वारस्य पार्श्वे ते तस्थुर् देवा देवस्य धीमतः
तुष्टुवुश् च महादेवं किंचिद् उद्विग्नचेतसः ॥

1.71.136

किंतु किंत्विति चान्योन्यं प्रेक्ष्य चैतत्समाकुलाः
पापा वयम् इति ह्यन्ये अभाग्याश्चेति चापरे ॥

1.71.137

भाग्यवन्तश् च दैत्येन्द्रा इति चान्ये सुरेश्वराः
पूजाफलमिमं तेषाम् इत्यन्ये नेति चापरे ॥

1.71.138

एतस्मिन्नन्तरे तेषां श्रुत्वा शब्दाननेकशः
कुम्भोदरो महातेजा दण्डेनाताडयत्सुरान् ॥

1.71.139

दुद्रुवुस्ते भयाविष्टा देवा हाहेतिवादिनः
अपतन्मुनयश्चान्ये देवाश् च धरणीतले ॥

1.71.140

अहो विधेर्बलं चेति मुनयः कश्यपादयः
दृष्ट्वापि देवदेवेशं देवानां चासुरद्विषाम् ॥

1.71.141

अभाग्यान्न समाप्तं तु कार्यमित्यपरे द्विजाः
प्रोचुर्नमः शिवायेति पूज्य चाल्पतरं हृदि ॥

1.71.142

ततः कपर्दी नन्दीशो महादेवप्रियो मुनिः
शूली माली तथा हाली कुण्डली वलयी गदी ॥

1.71.143

वृषमारुह्य सुश्वेतं ययौ तस्याज्ञया तदा
ततो वै नन्दिनं दृष्ट्वा गणः कुम्भोदरो ऽपि सः ॥

1.71.144

प्रणम्य नन्दिनं मूर्ध्ना सह तेन त्वरन् ययौ
नन्दी भाति महातेजा वृषपृष्ठे वृषध्वजः ॥

1.71.145

सगणो गणसेनानीर् मेघपृष्ठे यथा भवः
दशयोजनविस्तीर्णं मुक्ताजालैर् अलंकृतम् ॥

1.71.146

सितातपत्रं शैलादेर् आकाशमिव भाति तत्
तत्रान्तर्बद्धमाला सा मुक्ताफलमयी शुभा ॥

1.71.147

गङ्गाकाशान्निपतिता भाति मूर्ध्नि विभोर्यथा
अथ दृष्ट्वा गणाध्यक्षं देवदुन्दुभयः शुभाः ॥

1.71.148

नियोगाद्वज्रिणः सर्वे विनेदुर्मुनिपुङ्गवाः
तुष्टुवुश् च गणेशानं वाग्भिर् इष्टप्रदं शुभम् ॥

1.71.149

यथा देवा भवं दृष्ट्वा प्रीतिकण्टकितत्वचः
नियोगाद्वज्रिणो मूर्ध्नि पुष्पवर्षं च खेचराः ॥

1.71.150

ववृषुश् च सुगन्धाढ्यं नन्दिनो गगनोदितम्
वृष्ट्या तुष्टस्तदा रेजे तुष्ट्या पुष्ट्या यथार्थया ॥

1.71.151

नन्दी भवश् चान्द्रयातु स्नातया गन्धवारिणा
पुष्पैर्नानाविधैस्तत्र भाति पृष्ठं वृषस्य तत् ॥

1.71.152

संकीर्णं तु दिवः पृष्ठं नक्षत्रैरिव सुव्रताः
कुसुमैः संवृतो नन्दी वृषपृष्ठे रराज सः ॥

1.71.153

दिवः पृष्ठे यथा चन्द्रो नक्षत्रैरिव सुव्रताः
तं दृष्ट्वा नन्दिनं देवाः सेन्द्रोपेन्द्रास् तथाविधम् ॥

1.71.154

तुष्टुवुर् गणपेशानं देवदेवमिवापरम्
नमस्ते रुद्रभक्ताय रुद्रजाप्यरताय च ॥

1.71.155

रुद्रभक्तार्तिनाशाय रौद्रकर्मरताय ते
कूष्माण्डगणनाथाय योगिनां पतये नमः ॥

1.71.156

सर्वदाय शरण्याय सर्वज्ञायार्तिहारिणे
वेदानां पतये चैव वेदवेद्याय ते नमः ॥

1.71.157

वज्रिणे वज्रदंष्ट्राय वज्रिवज्रनिवारिणे
वज्रालंकृतदेहाय वज्रिणाराधिताय ते ॥

1.71.158

रक्ताय रक्तनेत्राय रक्तांबरधराय ते
रक्तानां भवपादाब्जे रुद्रलोकप्रदायिने ॥

1.71.159

नमः सेनाधिपतये रुद्राणां पतये नमः
भूतानां भुवनेशानां पतये पापहारिणे ॥

1.71.160

रुद्राय रुद्रपतये रौद्रपापहराय ते
नमः शिवाय सौम्याय रुद्रभक्ताय ते नमः ॥

1.71.161

ततः प्रीतो गणाध्यक्षः प्राह देवांश्छिवात्मजः
रथं च सारथिं शंभोः कार्मुकं शरमुत्तमम् ॥

1.71.162

कर्तुमर्हथ यत्नेन नष्टं मत्वा पुरत्रयम्
अथ ते ब्रह्मणा सार्धं तथा वै विश्वकर्मणा ॥

1.71.163

रथं चक्रुः सुसंरब्धा देवदेवस्य धीमतः ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc